मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 123, कुल 672 में से
संदर्भ में पढ़ेंशक्तिवादः 81
3 अत्र वैशेषिकाः प्राहुः शक्तिं नाभ्युपयन्ति ये ।
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
स्वगुणाः परमाणूनां विशेषाः पाकजादयः ।
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ।
स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् ॥
नहि शक्तं कल्पयितुं शक्तिमन्यामतीन्द्रियाम् ।
एतत्पद्यं पठन्तीत्थं त एते शक्तिवादिनः ॥
स्वरूपात् क्वाप्यनुद्यत्तत्सहकार्युपबृंहितात् ।
किं न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥
4 इदं फलं शक्तिवादे तत्तद्वाद्यभिसंहितम् ।
करणं चाप्यकरणं क्षणभङ्गस्य कारणम् ॥
निरास्थन् वैदिकाश्शक्त्या तार्किकास्सहकारिणा ।
स्वभाववादावकाशः शक्तिवादे प्रसज्यते ॥
इति तार्किकसंत्रासः ह्यर्थस्वाभाविकाः परे ।
रहस्यमेतदेव स्यात्सामान्याच्छक्तिवादिनाम् ॥
5 कार्यानुकूलमपृथक्सिद्धं यत्तु विशेषणम् ।
तच्छक्तिशब्दितं सर्वं विष्णुशक्तिरतः स्मृतम् ॥
न शक्तिः शक्तमात्रं स्यात् सर्वाद्धैतप्रसक्तितः ।
नवापीष्टापत्तिरत्र जयी स्यान्मध्यमागमः ॥
M. P. 11