सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पञ्चम अङ्क: वसुमित्र की विजय, विवाह व उपसंहार

९६ मालविकाग्निमित्रे
उभे-(मालविकां दृष्ट्वा ।) १अह्मो भट्टदारिआ । (इति प्रणम्य ।) जे-
दु जेदु भट्टदारिआ । (तया सह बाष्पं विकिरतः ।)
(सर्वे सविस्मयमवलोकयन्ति ।)
राजा-के वा भवत्यौ । का वा इयम् ।
उभे-२भट्ठा, एसा अह्माणं भट्टदारिआ ।
राजा-कथमिव ।
उभे-३सुणादु भट्ठा । जोसो भट्टिणा विजअदण्डेहिं विदब्भ-
णाथं वसीकरिअ बन्धणादो मोइओ कुमारो माहवसेणो णाम, तस्स
इअं कणीअसी भइणी मालविआ णाम ।
देवी-४कहं राजदारिआ इअं । चन्दणं खु मए पादुआवओ-
एण दूसिदं ।
राजा-अथात्रभवती कथमित्थंभूता ।
मालविका-(निःश्वस्य । आत्मगतम् ।) ५विहिणिओएण ।
द्वितीया-६भत्तुदाआदवसङ्गदे भट्टदारए माहवसेणे तस्स अम-
१. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ।
२. भर्तः, एषास्माकं भर्तृदारिका ।
३. शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य
बन्धनान्मोचितः कुमारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी माल-
विका नाम ।
४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ।
५. विधिनियोगेन ।
६. भर्तृदायादवशंगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना-
सादृशं परिजनमुज्झित्वा गूढमानीतैषा ।
रोचते॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ॥ भर्तः, एषास्माकं भर्तृदारिका
शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कु-
मारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी मालविका नाम ॥ कथं राजदारि-
केयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विधिनियोगेन ॥ भर्तृदायादव-

पञ्चमोऽङ्कः । ९७
णेण अज्जसुमदिणा अह्मारिसं परिअणं उज्झिअ गूहं आणीदा एसा ।
राजा—श्रुतपूर्व्वं मयैतत् । ततस्ततः ।
द्वितीया—१भट्टा, अदो वरं ण आणीमो ।
परिव्राजिका—ततः परं मन्दभागिनी कथयिष्यामि ।
उभे—२अज्जकोसिईए विअ सरसंजोओ ।
मालविका—३णं सा एव ।
उभे—४जदिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि ।
भअवदि, वन्दामो ।
परिव्राजिका—स्वस्ति भवतीभ्याम् ।
राजा—कथमाप्तवर्गोऽयं भगवत्याः ।
परिव्राजिका—एवमेतत् ।
विदूषकः—५तेणं हि कहेदु भअवदी अत्तहोदीए उत्तन्तं असेसं ।
परिव्राजिका—(सवैक्लव्यम् ।) तावच्छ्रूयताम् । माधवसेनसचिवं
ममाग्रजं सुमतिम् अवगच्छ ।
राजा—उपलक्षितम् । ततस्ततः ।
परिव्राजिका—स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ-
वत्सम्बन्धापेक्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः ।
राजा—ततस्ततः ।
१. भर्तः, अतः परं न जानीमः ।
२. आर्य्यकौशिक्या इव स्वरसंयोगः ।
३. ननु सैव ।
४. यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, व-
न्दावहे ।
५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ।
शंगते भर्तृदारके माधवसेने तस्यामात्येनार्य्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढ-
मानीतैषा ॥ भर्तः, अतः परं न जानीमः ॥ आर्य्यकौशिक्या इव स्वरसंयोगः ॥ ननु
सैव ॥ यतिवेषधारिण्यार्य्यकौशिकी दुःखेन विभाव्यते । भगवति, वन्दावहे ॥ तेन
माल० ९

९८ मालविकाग्निमित्रे
परिव्राजिका—स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः
राजा—किं चान्यत् ।
परिव्राजिका—ततः
तूणीरपट्टपरिवद्धभुजान्तराल-
मापार्णलम्बिशिखिपिच्छकलापधारि ।
कोदण्डपाणि निनदत्प्रतिरोधकाना-
मापातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥
(मालविका भयं रूपयति ।)
विदूषकः—भोदि, मा भआहि । अदिक्कन्तं खु तत्तहोदी क-
हेदि ।
राजा—ततस्ततः ।
परिव्राजिका—ततो मुहूर्ते बद्धायुधास्ते पराङ्मुखीभूताः सार्थ-
वाहयोद्धारस्तस्करैः ।
राजा—हन्त, इतः परं कष्टतरं श्रोतव्यम् ।
परिव्राजिका—ततः सुमतिः
इमां परीप्सुर्दुर्जाते पराभिभवकातराम् ।
भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥
प्रथमा—अहो, हदो सुमदी ।
१. भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ।
२. अहो, हतः सुमतिः ।
हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीरपट्टेत्यादि । स्पष्टोऽर्थः।
भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इमामित्यादि
दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिभव आक्रमणं त-
स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्तुं परित्रातुमिच्छुः । ‘आपङ्ग-
प्यृधामीत्’ इतीत्वम् । ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपः ‘पर्याप्तिः स्यात्परि-
त्राणं हस्तधारणमित्यपि’ इत्यमरः । भर्तृप्रियः स्वामिभक्तः । प्रियैरिष्टैरसुरि-
प्राणैर्भर्तुर┈┈┈┈गत प्राप्त ॥ अहो, हत सुमति ॥ अत खलु भर्तृदारि

पञ्चमोऽङ्कः । ९९
द्वितीया—अहो खु भट्ठिदारिआए इमं समवस्था संवृत्ता ।
(परिव्राजिका बाष्पं विसृजति ।)
राजा—भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र-
भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः ।
परिव्राजिका—ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव-
दियं दुर्लभदर्शना संप्रवृत्ता ।
राजा—महत्खलु कृच्छ्रमनुभूतं भगवत्या ।
परिव्राजिका—ततो भ्रातृशरीरमभिसात्कृत्वा पुनर्नवीभूतवैध-
व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते ।
राजा—युक्तः सज्जनस्यैष पन्थाः । ततस्ततः
परिव्राजिका—सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं
गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः ।
मालविका—किं² णु खु संपदं भट्ठा भणादि ।
राजा—अहो परिभवोपहारिणो विनिपाताः । कुतः ।
प्रेष्यभावेन नामेयं देवीशब्दक्षमा सति ।
स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते ॥ १२ ॥
देवी—भ³अवदि, तुए अभिअणवदिं मालविअं अणाचक्खन्तिए
असंपदं किदम् ।
परिव्राजिका—शान्तं पापम् । केन च कारणेन मया नैर्घृ-
ण्यमवलम्बितम् ।
१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
२. किं नु खलु सांप्रतं भर्ता भणति ।
३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणायासांप्रतं कृतम् ।
काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने-
त्यादि। देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक-
त्वेन उपयुज्यते किल। पत्रोर्णं वा धौतकौशेयमिव। वेत्युपमायाम् । 'उपमायां विकल्पे

१०० मालविकाग्निमित्रे
देवी—किं' विअ तं कारणम् ।
परिव्राजिका—इयं पितरि जीवति केनापि दैवयात्रागतेन
सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य-
भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभाविनमादे-
शमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया
साधु कृतमिति पश्यामि ।
राजा—युक्ता प्रतीक्षा ।
कञ्चुकी—देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति ।
विदर्भगतमनुष्ठेयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा-
मीति ।
राजा—मौद्गल्य, तत्रभवतोर्यज्ञसेनमाधवसेनयोद्वैराज्यमिदानीम-
वस्थापयितुकामोऽस्मि ।
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥
कञ्चुकी—देव, एवममात्यपरिषदे निवेदयामि ।
(राजाङ्गुल्यानुमन्यते ।)
(निष्क्रान्तः कञ्चुकी ।)
प्रथमा—(जनान्तिकम् ।) भट्टदारिए, दिट्ठिआ भट्टिणा भट्टदारओ
अद्धरज्जे पडिट्ठं गमइस्सिदि ।
१. किमिव तत्कारणम् ।
२. भर्तृदारिके, दिष्ट्या भर्त्रा भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ।
द्वा' इत्यमरसिंहः। स्नानीयवस्त्रक्रियया स्नानीयवस्त्रकरणेन॥भगवति, त्वयाभिजनवती
मालविकामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमिव तत्कारणम् ॥ तौ पृथगि-
त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षिणे वरदाकूले । वरदा नाम
तत्रत्या नदी तस्याः कूले उभे तीरे शिष्टां रक्षताम् ॥ भर्तृदारिके, दिष्ट्या भर्-

पञ्चमोऽङ्कः । १०१
मालविका—एदं दाव बहु मण्णिदव्वं, जं जीविदसंसआदो
मुत्तो ।
(प्रविश्य ।)
कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति । क-
ल्याणी देवस्य बुद्धिः मन्त्रिपरिषदोऽप्येतदेव दर्शनम् । कुतः ।
द्विधा विभक्तां श्रियमुद्वहन्तौ
धुरं रथाश्वाविव संग्रहीतुः ।
तौ स्थास्यतस्ते नृपतेर्निदेशे
परस्परोपग्रहानिर्विकारौ ॥ १४ ॥
राजा—तेन हि मन्त्रिपरिषदं ब्रूहि । सेनान्ये वीरसेनाय लेखप्र-
तामेवं क्रियतामिति ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य सप्राभृतकं लेखं गृ-
हीत्वा पुनः प्रविष्टः ।) अनुष्ठिता प्रभोराज्ञा । अयं देवस्य सेनापतेः
पुष्पमित्रस्य सकाशात्सोत्तरीयप्राभृतको लेखः प्राप्तः । प्रत्यक्षीक-
रोत्वेनं देवः ।
(राजोत्थाय सप्राभृतकं लेखं सोपचारं गृहीत्वा परिजनायार्पयति ।)
(परिजनो लेखं नाट्येनोद्घाटयति ।)
देवी—(आत्मगतम् ।) अंझहे, तदोमुहं एव णो हिअअं । सु-
णिस्सं दाव गुरुअणस्स कुसलाणन्तरं वसुमित्तस्स वुत्तन्तं । अदिघोरे
खु पुत्तओ सेनावदिणा णिउत्तो ।
१. एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशयान्मुक्तः ।
२. अहो, ततोमुखमेव नो हृदयम् । श्रोष्यामि तावद्गुरुजनस्य कुश-
लानन्तरं वसुमित्रस्य वृत्तान्तम् । अतिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ।
भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ॥ एतत्तावद्बहु मन्तव्यम्, यज्जीवितसंशया-
न्मुक्तः ॥ द्विधा विभक्तामित्यादि । स्पष्टोऽर्थः ॥ अंझहे इति हर्षे।ततोमुख-
मेव नो हृदयम्।श्रोष्योमि तावद्गुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् । अ-
तिघोरे खलु पुत्रकः सेनापतिना नियुक्तः ॥ यज्ञशरणादित्यादि । अत्र राज-

१०२ मालविकाग्निमित्रे
राजा—(उपविश्य लेखं सोपचारं गृहीत्वा वाचयति।) स्वस्ति । यज्ञ-
शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमग्निमित्रं स्नेहा-
त्परिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसौ राजयज्ञदीक्षितेन
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्तनियमो
निरर्गलस्तुरंगो विसृष्टः, स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यव-
नेन प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः ।
(देवी विषादं नाटयति ।)
राजा—कथमीदृशं संवृत्तम् । (शेषं पुनर्वाचयति ।)
ततः परान्पराजित्य वसुमित्रेण धन्विना ।
प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १५ ॥
देवी—ईमिणा आससिदं मे हिअअं ।
राजा—(शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सगरपुत्रेणेव
प्रत्याहताश्वो यक्ष्ये । तदिदानीमकालहीनं विगतरोषचेतसा भवता
वधूजनेन सह यज्ञसेवनायागन्तव्यमिति ।
राजा—अनुगृहीतोऽस्मि ।
परिव्राजिका—दिष्ट्या पुत्रविजयेन दम्पती वर्धेते ।
भर्त्रासि वीरपत्नीनां श्लाघ्यानां स्थापिता धुरि ।
वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥ १६ ॥
देवी—भअवदि, परितुट्ठह्नि । जं पिदरं अणुजादो मे वच्छओ।
राजा—मौद्गल्य, ननु कलभेन यूथपतिरनुकृतः ।
१. अनेनाश्वस्तं मे हृदयम् ।
२. भगवति, परितुष्टास्मि । यत्पितरमनुजातो मे वत्सकः ।
यज्ञो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च
श्रुतावश्वमेधप्रकरणे'शतेन राजपुत्रैः सह'इति॥ततः परानित्यादि। स्पष्टोऽर्थः॥
अनेनाश्वस्तं मे हृदयम् ॥ भर्त्रासीत्यादि । स्पष्टोऽर्थः ॥ भगवति,परितुष्टास्मि ।

पञ्चमोऽङ्कः । १०३
कञ्चुकी—देव, अयं कुमारः
नैतावता वीरविजृम्भितेन
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्त्वमुच्चै-
रग्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥
राजा—मौद्गल्य, यज्ञसेनश्यालमुरीकृत्य मोच्यन्तां सर्वे बन्ध-
नस्थाः ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।)
देवी—१जयसेणे, गच्छ । इरावदिप्पमुहाणं अन्तेपुराणं पुत्तस्स
वृत्तन्तं णिवेदेहि ।
(प्रतीहारी प्रस्थिता ।)
देवी—२ऐहि दाव ।
प्रतीहारी—(परिवृत्य ।) ३इअ म्हि ।
देवी—(जनान्तिकम् ।) ४जं मए असोअदोहएणिओए मालवि-
आए पडिण्णादं, तं से अदिजणं च णिवेदिअ मह वअणेण इरा-
वदिं अणुणेहि । तुए अह सच्चादो णविब्भंसिदव्वेत्ति ।
१. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं
निवेदय ।
२. एहि तावत् ।
३. इयमस्मि ।
४. यन्मयाशोकदोहदनियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभि-
जने च निवेद्य मम वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न विश्रंशयितव्येति ।
यत्पितरमनुजातो मे वत्सकः ॥ नैतावतेति । स्पष्टोऽर्थः ॥ जयसेने गच्छ। इराव-
तीप्रमुखेभ्योऽन्त पुरेभ्य पुत्रस्य वृतान्त निवेदय॥ एहि यन्मया-

१०४ मालविकाग्निमित्रे
प्रतीहारी—१'जं देवी आणवेदि । (इति निष्क्रम्य पुनः प्रविश्य ।)
भट्टिणि, पुत्तविजअणिमित्तेण परितोसेण अन्तेउराणं आहरणाणं म-
ञ्जूसाश्चि संवृत्ता ।
देवी—२ऐदं किं अच्चरिअं । साहारणो खु ताणं मह अ अअं
अब्भुदओ ।
प्रतीहारी—(जनान्तिकम् ।) ३भट्टिणि, इरावदी उण विष्णवेदि ।
सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदं ण जुज्जदि अ-
ण्णहा कादुं ति ।
देवी—४भअवदि, तुए अणुमदा इच्छामि अज्जसुमदिणा पढमसं-
कप्पिदं मालविअं अज्जउत्तस्स पडिवादेदुं ।
परिव्राजिका—इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी—(मालविकां हस्ते गृहीत्वा ।) ५इदं अज्जउत्तो पिअणिवेदणाणु-
रूवं पारितोसिअं पडिच्छदु ।
(राजा व्रीडां नाटयति ।)
१. यद्देव्याज्ञापयति । भट्टिनि, पुत्रविजयनिमित्तेन परितोषेणान्तःपु-
राणामाभरणानां मञ्जूषास्मि संवृत्ता ।
२. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः ।
३. भट्टिनि, इरावती पुनर्विज्ञापयति । सदृशं देव्याः प्रभवन्त्याः । तव
वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति ।
४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालवि-
कामार्यपुत्राय प्रतिपादयितुम् ।
५. इदमार्थपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु ।
रावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ॥यद्देव्याज्ञापयति । भट्टिनि,पुत्र-
विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मञ्जूषास्मि संवृत्ता॥एतत्किमाश्च-
र्यम् । साधारणः खलु तासां मम चायमभ्युदयः॥ भट्टिनि,इरावती पुनर्विज्ञापयति।
सदृशं देव्याः प्रभवन्त्याः।तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति॥भगवति,
त्वयानुमतेच्छाम्यार्यसुमतिना प्रथमसंकल्पितां मालविकामार्यपुत्राय प्रतिपादयितु-
म्॥इदमार्थपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अत्र प्रीत्युत्पादनात्प्र-

पञ्चमोऽङ्कः । १०५
देवी—(सस्मितम् १) किं' अवधीरेदि अज्जउत्तो ।
विदूषकः—भोदि, एसो लोअववहारो । सब्वो णववरो ल-
ज्जादुरो होदि ।
(राजा विदूषकमपेक्षते ।)
विदूषकः—अह देवीए एव्व किदप्पणअविसेसं दिण्णदेवीसद्दं
मालविअं अत्तभवं पडिग्गहीदुं इच्छदि ।
देवी—ऐदाए राजदारिआए अहिजणेण एव्व दिण्णो देवी-
सद्दो । किं पुणरुत्तेण ।
परिव्राजिका—मा मैवम् ।
अप्याकरसमुत्पन्नो रत्नजातिपुरस्कृतः ।
जातरूपेण कल्याणि स हि संयोगमर्हति ॥ १८ ॥
देवी—(स्मृत्वा १) मरिसेदु भअवदी । अब्भुदअकहाए उइदं ण-
लक्खिदं । जअसेणे, गच्छ दाव । कोसेअपत्तोण्णजुअलं उवणेहि ।
१ किमवधीरयत्यार्यपुत्रः ।
२. भवति, एष लोकव्यवहारः । सर्वो नववरो लज्जातुरो भवति ।
३. अथ देव्यैव कृतप्रणयविशेषां दत्तदेवीशब्दां मालविकामत्रभवा-
न्प्रतिग्रहीतुमिच्छति ।
४. एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः किं पुन-
रुक्तेन ।
५. मर्षयतु भगवती । अभ्युदयकथयोचितं न लक्षितम् । जयसेने,
गच्छ तावत् । कौशेयपत्रोर्णयुगलमुपनय ।
सादो नाम संध्यङ्गमुक्तं भवति ॥किमवधीरयत्यार्यपुत्रः ॥ भवति, एष लोकव्यव-
हारः । सर्वो नववरो लज्जातुरो भवति ॥ अथ देव्यैव कृतप्रणयविशेषां दत्तदेवी-
शब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ॥ एतस्या राजदारिकाया अभिजनेनैव
दत्तो देवीशब्दः । किं पुनरुक्तेन ॥ अप्याकरेत्यादि । स्पष्टार्थः । अत्र लब्धा-
र्थस्य स्थिरीकरणात्कृतिर्नाम संध्यङ्गमुक्तं भवति ॥ मर्षयतु भगवती ॥ अभ्युदय-
कथयोचितं न लक्षितम् । जयसेने, गच्छ तावत् कौशेयपत्रोर्णयुगलमुपनय ॥यद्दे-

१०६ मालविकाग्निमित्रे
प्रतीहारी—१जं देवी आणवेदि । (इति निष्क्रान्ता पत्रोर्णं गृहीत्वा पुनः
प्रविश्य ।) देवि, एदम् ।
देवी—(मालविकामवगुण्ठनवतीं कृत्वा ।) २अज्जउत्तो दाणिं इमं प-
डिच्छदु ।
राजा—त्वच्छासनात्प्रवृत्ता एव वयम् । (अपवार्य ।) हन्त, प्र-
तिगृहीता ।
विदूषकः—३अँहो देवीए अणुकूलदा ।
(देवी परिजनमवलोकयति ।)
परिजनः—(मालविकामुपैत्य ।) ४जेदु भट्टिणी ।
(देवी परिव्राजिकां निरीक्षते ।)
परिव्राजिका—नैतच्चित्रं त्वयि ।
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितामपि जलं समुद्रगाः प्रापयन्त्युदधिम् ॥ १९ ॥
(प्रविश्य ।)
निपुणिका—५जेदु भट्ठा । इरावती विण्णावेदि । जं उवआ-
१. यद्देव्याज्ञापयति । देवि, एतत् ।
२. आर्यपुत्र इदानीमिमां प्रतीच्छतु ।
३. अहो देव्या अनुकूलता ।
४. जयतु भट्टिनी ।
५. जयतु भर्ता । इरावती विज्ञापयति । यदुपचारातिक्रमेण तदा म
अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन्
भर्त्रा प्रसादमात्रेण संभावयितव्येति ।
व्याज्ञापयति । देवि, एतत् ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु॥हन्त हर्षे । प्रतिगृ-
हीता वशीकृता । अत्र वाञ्छितावाप्तेरानन्दो नाम संध्यङ्गमुक्तं भवति ॥अहो देव्या
अनुकूलता ॥ जयतु भट्टिनी । अत्र बहुमानप्राप्तेर्भाषितेति संध्यङ्गमुक्तं भवति ॥ प्र-
तिपक्षेणेत्यादि । स्पष्टोऽर्थ ॥जयतु भर्ता। इरावती विज्ञापयति ।यदुपचारातिक्र-

पञ्चमोऽङ्कः । १०७
रादिक्कमेण तदा सव्विणो अवरद्धा, तं सव्वं एव भत्तुणो आणुऊलं
णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तुणा पसादमेत्तेण
संभावाइदव्वत्ति ।
देवी—णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि ।
निपुणिका—अनुगहीदम्हि ।
परिव्राजिका—देव, अमुना युक्तसंबन्धेन चरितार्थं माधवसेनं
सभाजयितुं गच्छामः ।
देवी—भअवदीए ण जुत्तं अम्हे परिच्चइदुं ।
राजा—भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुद्दिश्य स-
भाजनाक्षराणि पातयिष्यामः ।
परिव्राजिका—युवयोः स्नेहात्परवानयं जनः ।
देवी—अज्जउत्त, किं ते भूओ पिअं उवहरामि ।
राजा—
त्वं मे प्रसादसुमुखी भव देवि नित्य-
मेतावदेव हृदये प्रतिपालनीयम् ।
१. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति ।
२. अनुगृहीतास्मि ।
३. भगवत्या न युक्तमस्मान्परित्यक्तुम् ।
४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ।
पण तदा सर्वे अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण-
मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति॥ निपुणिके, अवश्यमस्याः सेवितमा-
र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र,
किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि, त्वं मे मम
नित्यं सर्वदा प्रसादसुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव
भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा-

१०८ मालविकाग्निमित्रे
(भरतवाक्यम् ।)
आशास्यमभ्यधिगमात्प्रभृति प्रजानां
संपद्यते न खलु गोप्तरि नाग्निमित्रे ॥ २० ॥
(इति निष्क्रान्ताः सर्वे ।)
इति श्रीकालिदासस्यकृतौ मालविकाग्निमित्रे पञ्चमोऽङ्कः ।
क्यम् । आशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात्संप्राप्तेः । परिग्रहा-
दित्यर्थः । तस्मात्प्रभृत्यारभ्याग्निमित्रेऽस्मिन्नायके गोप्तरि रक्षके सति तासांप्रजाना-
माशास्यमपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न। संभवत्येवेत्यर्थः।अनेन
आशास्यसिद्धिकथनरूपेण शुभशंसनात्प्रशस्तिर्नाम संध्यङ्गमुक्तं भवति । यदुक्तं—
‘प्रशस्तिः शुभशंसनम्’ इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ-
शीर्वचने कर्तव्ये सति अत्र प्रजानामाशास्यसिद्धिं प्रति गोप्तुरग्निमित्रस्य कथनं तत्का-
लराजोपलक्षणमिति मन्तव्यम् ॥ इति श्रीकाटयवेमभूपचिरचिते कुमा-
रगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः ।
श्रीमत्काटयवेमस्य कृतिर्विज्ञानशालिनः ।
कुमारगिरिराजीया जीयादाचन्द्रतारकम् ॥