मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 97, कुल 111 में से
संदर्भ में पढ़ें९४ मालविकाग्निमित्रे
राजा—(सव्रीडमशोकमभितः परिक्रामन् ।)
नायं देव्या भाजनत्वं न नेयः
सत्काराणामीदृशानामशोकः ।
यः सावज्ञो माधवश्रीनियोगे
पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥
विदूषकः—१भो, वीसद्धो भविअ तुमं जोबणवदिं इमं
देवी—२कं ।
विदूषकः—३भोदि, तवणीआसोअस्स कुसुमसोहम् ।
(सर्व उपविशन्ति ।)
राजा—(मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु
वियोगः ।
अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥
(प्रविश्य ।)
कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति
विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति
प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो
ऽर्हतीति ।
राजा—प्रवेशय ते ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह
इतो भवत्यौ ।
१. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीमिमां पश्य ।
२. काम् ।
३. भवति, तपनीयाशोकस्य कुसुमशोभाम् ।
ष्ठितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भू-
नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम्
रथाङ्गेत्यादि स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविष्टा