सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 98, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 98

पञ्चमोऽङ्कः । ९५
प्रथमा—१हेला मदणिए, अपुव्वं इमं राउउलं पविसन्तीए पसी-
ददि मे हिअअं ।
द्वितीया—२जोसिणीए, अत्थि खु लोअप्पवादो । आआमि सुहं
दुक्खं वा हिअअसमवस्था कहेदित्ति ।
प्रथमा—३सो सच्चो दाणिं होदु ।
कञ्चुकी—एष देव्या सह देवस्तिष्ठति । उपसर्पतां भवत्यौ
(उभे उपसर्पतः ।)
(मालविका परिव्राजिका च चेष्ट्यौ दृष्ट्वा परस्परमवलोकयतः ।)
उभे—(प्रणिपत्य ।) ४जेदुं भट्टा । जेदु भट्टिणी ।
(राजाज्ञया उभे उपविष्टे ।)
राजा—कस्यां कलायामभिविनीते भवत्यौ ।
उभे—५भट्टा, संगीदे अब्भन्तरह्म ।
राजा—देवि, गृह्यतामनयोरन्यतरा ।
देवी—६मालविए, इदो पेक्ख । कदरा ते संगीदसहआरिणी
रुच्चदि ।
१. सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसीदति मे
हृदयम् ।
२. ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा
हृदयसमवस्था कथयतीति ।
३. स सत्य इदानीं भवतु ।
४. जयतु भर्ता । जयतु भट्टिनी ।
५. भर्तः, संगीतेऽभ्यन्तरे स्वः ।
६. मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी रोचते ।
दति मे हृदयम् ॥ ज्योत्स्निके, अस्ति खलु लोकप्रवादः । आगमि सुखं दुःखं वा
हृदयसमवस्था कथयतीति ॥ स सत्य इदानीं भवतु ॥ जयतु भर्ता। जयतु भट्टिनी ॥
भर्तः, संगीतेऽभ्यन्तरे स्वः ॥ मालविके, इतः पश्य । कतरा ते संगीतसहकारिणी