सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 96, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 96

पञ्चमोऽङ्कः । ९३
तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविअ
दक्खिणेदरं वि णअणं बहुसो फुरदि ।
विदूषकः—१भो वअस्स, विवाहेणवेच्छेण सविसेसं खु सोहदि
मालविआ ।
राजा—पश्याम्येनाम् । यैषा
अनतिलम्बिदुकूलनिवासिनी
बहुभिराभरणैः प्रतिभाति मे ।
उडुगणैरदयोन्मुखचन्द्रिका
हतहिमैरिव चैत्रविभावरी ॥ ७ ॥
देवी—(उपेत्य ।) २जेदु अज्जउत्तो ।
विदूषकः—३वढ्ढदु भोदी ।
परिव्राजिका—विजयतां देवः ।
राजा—भगवति, अभिवादये ।
परिव्राजिका—अभिप्रेतसिद्धिरस्तु ।
देवी—(सस्मितम् ।) ४अज्जउत्त, एस ते अह्मेहिं तरुणीजणसहा-
.स्स असोओ संकेदघरो कप्पिदो ।
विदूषकः—५मो, आराहिओसि ।
१. भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका ।
२. जयत्वार्यपुत्रः ।
३. वर्धतां भवती ।
४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः संकेतगृहं
कल्पितः ।
५. भोः, आराधितोऽसि ।
.स। तथापि मे हृदयं बिसिनीपत्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे
यनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका॥
नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य-
त्र, एष तेऽस्माभिस्तरुणीजनहितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-