मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 95, कुल 111 में से
संदर्भ में पढ़ें९२ मालविकाग्निमित्रे
राजा—यथाह भवान् ।
अग्रे विकीर्णकुरवकफलजालकभिद्यमानसह्कारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ४ ॥
विदूषकः—(परिक्रम्य ।) अहो, अअं सो दिण्णणेवच्छो विअ
कुसुमत्थवएहिं तवणीआसोओ । ओलोअदु भवं ।
राजा—स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्या-
धारणीं शोभामुद्वहति । पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥
विदूषकः—तंह । भो, वीसद्धो होहि । अम्हेसु संणिहिदेसु वि-
धारिणी पासपरिवट्टिणिं मालविअं अणुमण्णेदि ।
राजा—(सहर्षम् ।) सखे, पश्य ।
मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रिया ।
विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥
(ततः प्रविशति धारिणी मालविका परिव्राजिका विभवतश्च परिवारः ।)
मालविका—(आत्मगतम् ।) जाणामि णिमित्तं कोदुआलंकारस्स ।
१. अहो, अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव-
लोकयतु भवान् ।
२. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व-
परिवर्तिनीं मालविकामनुमन्यते ।
३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृदयं बिसिनीप-
त्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरति
विकीर्णकुरबकेत्यादि । स्पष्टोऽर्थः ॥ अहो, अयं स दत्तनेपथ्य इव कुसुमस्तब-
कैस्तपनीयाशोकः । अवलोकयतु भवान् ॥ सर्वाशोकतरूणामित्यादि । स्पष्टो-
ऽर्थ ॥ तथा मो, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्वपरिवर्तिनीं
ते मामियमिति स्पष्टोऽर्थ ॥जानामि निमित्त कौतुकाम्फा