मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 94, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ९१
भअवदि, जं तुमं पसाहणगव्वं वहसि, तं दंसेहि मालविआए स-
रीरे विवाहुणेवच्छं ति । ताए सविसेसालंकिदा मालविआ । तत्तहोदी
कदावि पूरए भवदोवि मणोरहं ।
राजा—सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वाचरितैः
संभाव्यत एवैतत् ।
प्रतीहारी—(उपगम्य ।) जेदुं भट्टा । देवी विण्णावेदि । तवणी-
आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु त्ति ।
राजा—ननु तत्रैव तिष्ठति ।
प्रतीहारी—^२अह इं । जहारहसंमाणसुहिअं अन्तेउरं विस-
जिअ मालविआपुरोएण अत्तणो परिअणेण सह देवं पडिवालेदि ।
राजा—(सहर्षं विलोक्य विदूषकम् ।) जयसेने, गच्छाग्रतः ।
प्रतीहारी—^३एदु एदु देवो । (इति परिक्रामति ।)
विदूषकः—(विलोक्य ।) भो^४ वअस्स, किंचि परिवुत्तजोव्वणो
विअ वसन्तो पमदवणे लक्खीअदि ।
१. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद-
र्शनेन ममारम्भः सफलः क्रियतामिति ।
२. अथ किम् । यथार्हसंमानसुखितमन्तःपुरं विसृज्य मालविकापुरो-
गेणात्मनः परिजनेन सह देवं प्रतिपालयति ।
३. एत्वेतु देवः ।
४. भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते
कथमिवेति प्रश्ने । अत्र कार्यानवेषणाद्रोधो नाम संध्यङ्गमुक्तं भवति ॥ अद्य किल
देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसाधनगर्वं वहसि, तद्दर्शय माल-
विकायाः शरीरे विवाहनेपथ्यमिति । तया सविशेषालंकृता मालविका । तत्रभवती
धारिणी कदाचित्पूरयेद्भवतोऽपि मनोरथम् । अत्र कार्योपदर्शनात्पूर्वभाव इति संध्य-
ङ्गमुक्तं भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहदर्शनेन
समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्हसंमानसुखितमन्तःपुरमव-
रोधजनं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ॥
एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ॥ अग्रे