सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 93, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 93

द्वितीयः—
विरचितपदं वीरप्रीत्या सुरोपमसूरिभि-
श्चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् ।
तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
परिघगुरुभिर्दोर्भिर्विष्णोः प्रसभ्य च रुक्मिणीम् ॥ २ ॥
प्रतीहारी—ऐसो जससद्दसूइदपत्थाणो भट्टा इदो एव्व आअ-
च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ-
न्तरिदा होमि । (इत्येकान्ते स्थिता ।)
(प्रविश्य सवयस्यः ।)
राजा—
कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
धाराभिर्रातप इवाभिहतं सरोजं
दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥
विदूषकः—जेह अहं पेक्खामि । एकन्तसुहिदो भवं भविस्सदि।
राजा—कथमिव ।
विदूषकः—अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा ।
१. एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति । अहमपि ताव-
दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ।
२. यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति ।
३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा-
धनगर्वं वहसि, तद्दर्शय मालविकायाः शरीरे विवाहनेपथ्यमिति । तया
सविशेषांलंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् ।
कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति
समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्दसूचितप्रस्थानो
भर्तेत एवागच्छति। अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥
कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगामसुलभसमागमाम् । दुःखायते
'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । अत्र मालविकारूपबीजानुसंधानात्संधिर्ना-
म निर्वह भवति यथाहं पश्यामि एकान्तसुखितो भवान्भविष्यति ॥