सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 51, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 51

४८ मालविकाग्निमित्रे
निपुणिका—^१वसन्तोआअणलोलुवेण अज्जगोदमेण कहिअं
तुवरदु भट्टिणी ।
इरावती—(अवस्थासदृशं परिक्रम्य ।) ^२हंजे, मदेण किलामिअमाणं
अत्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण ण मह
पसरन्ति ।
निपुणिका—^३णं पत्ता दोलाघरं ।
इरावती—^४णिउणिए, अज्जउत्तोएत्थ ण दीसदि ।
निपुणिका—^५भट्टिणीए ओलोअदु । परिहासनिमित्तं कहिं
वि अदिट्ठेण भत्तुणा होदव्वं । इमं पिअङ्गलदापरिक्खित्तं असोअ-
सिलापट्टं पविसामो ।
इरावती—^६तह ।
निपुणिका—(विलोक्य ।) ^७ओलोअदु भट्टिणी । चूदङ्कुरं विचि-
णन्तीणं पिवीलियाहिं दंसिदं ।
१. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । त्वरतां भट्टिनी ।
२. चेटि, मदेन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । च-
रणौ पुनर्न मम प्रसरतः ।
३. ननु प्राप्ते स्वो दोलागृहम् ।
४. निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ।
५. भर्तृन्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् ।
इमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापट्टं प्रविशावः ।
६. तथा ।
७. अवलोकयतु भट्टिनी । चूताङ्कुरं विचिन्वत्योः पिपीलिकाभिर्दष्टम् ।
देन क्लाम्यमानमात्मानमार्यपुत्रदर्शने हृदयं त्वरयति । चरणौ पुनर्न मम
प्रसरतः ॥ ननु प्राप्ते स्वो दोलागृहम् ॥ निपुणिके, आर्यपुत्रोऽत्र न दृश्यते ॥ भर्ह्टि-
न्यवलोकयतु । परिहासनिमित्तं कुत्राप्यदृष्टेन भर्त्रा भवितव्यम् । इमं प्रियङ्गुलता-
परिक्षिप्तमशोकशिलापट्टं प्रविशावः ॥ तथा ^७ अवलोकयतु भट्टिनी । चूताङ्कुरं विचि