मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 50, कुल 111 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ४७
नवकिसलयरागेणाग्रपादेन बाला
स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दोहदापेक्षया वा
प्रणमितशिरसं वा कान्तमाद्रीपराधम् ॥ १२ ॥
विदूषकः—१पहरिस्सदि तत्तहोदी तुमं अवरद्धम् ।
राजा—मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य ।
(ततः प्रविशति युक्तमदा इरावती चेटी च ।)
इरावती—२हंजे णिउणिए, सुणोमि बहुसो मदो किल इत्थि-
आजणस्स मण्डणं ति । अवि सच्चो लोअवाओ अअं ।
निपुणिका—३पढमं लोअवाओ एव्व । अज्ज सच्चो संवृत्तो ।
इरावती—४संकित्तणसंसिणा अलं सिणेहेण । कहेहि कुदो
दाणिं ओगमिदव्वो दोलाघरं पुढमं गदो भट्ठा ण वेत्ति ।
निपुणिका—५भट्टिणीए अखण्डिदादो पणआदो ।
इरावती—६अलं सेवाए । मज्झत्थदं परिगहिअ भणाहि ।
१. प्रहरिष्यति तत्रभवती त्वामपराधम् ।
२. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति
अपि सत्यो लोकवादोऽयम् ।
३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।
४. संकीर्तनशंसिनालं स्नेहेन । कथय कुत इदानीमवगन्तव्यो दोला-
गृहं प्रथमं गतो भर्ता न वेति ।
५. भट्टिन्या अखण्डितात्प्रणयात् ।
६. अलं सेवया । मध्यस्थतां परिगृह्य भण ।
अधिकार उपक्षिप्तः ॥नवकिसलयेत्यादि। स्पष्टोऽर्थः ॥ प्रहरिष्यति तत्रभवती
त्वामपराधम् ॥ चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डन-
मिति । अपि सत्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः ॥
संकीर्तनशंसिनालं स्नेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो
भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयात् । अलं सेवया । मध्यस्थतां परिगृह्य
भण ॥ बसन्तोपायनलोलुपेनार्यगौतमेन। कथितम् । त्वरतां भट्टिनी । चेटिम,