सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 52, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 52

तृतीयोऽङ्कः । ४९
इरावती—कहं विज ।
निपुणिका—ऐसा असोअपाअवच्छाआए मालविआए बउला-
वलिआ चलणालंकारं णिव्वट्टेदि ।
इरावती—(शङ्कां रूपयित्वा ।) अभूमी इअं मालविआए । कहं
एत्थ तक्केसि ।
निपुणिका—तक्केमि दोलापरिब्भंसिदाए सरुअचलणाए दे-
वीए असोअदोहलाहिआरे मालविआ णिउत्तेत्ति । अण्णहा कहं
देवी सअं धारिअं णूउरजुउलं परिअणस्स अब्भणुजाणिस्सदि ।
इरावती—महदी क्खु से संभावरणा ।
निपुणिका—किं अण्णेसीअदि भट्टा ।
इरावती—हँला, ण मे चलणा अण्णदो पवट्टन्ति । मदो मं
१. कथमिव ।
२. एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणांलंकारं
निर्वर्तयति ।
३. अभूमिरियं मालविकायाः । कथमत्र तर्कयसि ।
४. तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोहदाधिकारे
मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंघारितं नूपुरयुगुलं परिजन-
स्याभ्यनुज्ञास्यति ।
५. महती खल्वस्याः संभावना ।
६. किमन्विष्यते भर्ता ।
७. सखि, न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आश-
ङ्कितस्य तावदन्तं गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
न्वत्योः पिपीलिकाभिर्दष्टम् । भावे क्तः ॥ कथमिव ॥ एषाशोकपादपच्छायायां
मालविकाया बकुलावलिका चरणांलंकारं निर्वर्तयति ॥ अभूमिरियं मालविकायाः ।
कथमत्र तर्कयसि ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह-
दाधिकारे मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंघारितं नूपुरयुगुलं परि-
जनस्याभ्यनुज्ञास्यति ॥ महती खल्वस्याः संभावना ॥ किमन्विष्यते भर्ता ॥ सखि,
न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आशङ्कितस्य तावदन्तं ग-
माळ० ५