सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 46, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 46

तृतीयाऽङ्कः । ५३
राजा—शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छ्वसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः
सरितमारसितादिव सारसात् ॥ ६ ॥
अथ क्व तत्रभवती ।
विदूषकः—ऐसा तरुराइमज्झादो णिक्कन्ता इदो एव अहिव-
दृन्ती दीसइ ।
राजा—(विलोक्य सहर्षम् ।) वयस्य, पश्यामि ।
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
विदूषकः—ऐसावि भवं विअ मअणवाहिणा परिसुद्धा
भविस्सदि ।
राजा—सौहार्दमेवं पश्यति ।
मालविका—अअं सो सुउमालदोहलापेक्खी अगहिदकुसुमणे-
१. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ।
२. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
३. अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा-
शोकोऽनुकशेति । यावदस्य प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं
विनोदयामि ।
त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम
संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥
विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पष्टोऽर्थः ॥ एषापि भवानि-