सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 47, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 47

४४ मालविकाग्निमित्रे
वच्छो उकण्ठिदाए मह असोओ अणुकरेदि । जाव एदस्स पच्छा-
यसीदले सिलापट्टए णिसण्णा अप्पाणं विनोदेमि ।
विदूषकः—१सुदं भवदा । उकण्ठिदमह्मित्ति तत्तहोदी मन्तेदि ।
राजा—नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः ।
वोढा कुरबकरजसां किसलयपुटभेदशीकरानुगतः ।
अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
(मालविकोपविष्टा ।)
राजा—सखे; इतस्तावत् । आवां लतान्तरितौ भवावः ।
विदूषकः—२ईरावदिं विअ अदूरे समद्धेमि ।
राजा—नहि कमलिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । (इति
विलोकयन्स्थितः ।)
मालविका—हिअअ, णिरवलम्बणादो अदिभूमिलङ्घिणो ते
मणोरहादो विरम । किं मं आआसिअ ।
(विदूषको राजानमपेक्षते ।)
राजा—प्रिये, पश्य वामत्वं स्नेहस्य ।
औत्सुक्यहेतुं विवृणोषि तत्त्वं
तत्त्वावबोधैकरसो न तर्कः ।
तथापि रम्भोरु करोमि लक्ष्य-
मात्मानमेषां परिदेवितानाम् ॥ १० ॥
१. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति ।
२. इरावतीमिवादूरे समर्थये ।
३. हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामा-
यास ।
व मदनव्याधिना परिमृष्टा भविष्यति ॥ अयं स सुकुमारदोहदापेक्ष्यगृहीत-
कुसुमनेपथ्य उत्कण्ठिताया मभाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले
शिलापट्टके निषण्णात्मानं विनोदयामि ॥ श्रुतं भवता । उत्कण्ठितास्मीति तत्र-
भवती मन्त्रयति ॥ वोढेत्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये ।
हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामायास ॥ औ-
त्सुक्येत्यादि । स्पष्टोऽर्थ ॥ सांप्रतं भवतो निःसंशयं भविष्यति एषार्पित