सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 38, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 38

तृतीयोऽङ्कः । ३५
तृतीयोऽङ्कः ।
(ततः प्रविशति परिव्राजिकायाः परिचारिका समाहितिका ।)
समाहितिका—आणत्तम्हि भअवदीए । समाहिदिए, देवीए
उवायणत्थं बीअऊरअं गेण्हिय आअच्छत्ति । जाव पमदवणपा-
लिअं महुअरिअं अण्णेसामि । (परिक्रम्यावलोक्य ।) एसा तवणीआ-
सोअं ओलोअन्ती चिट्ठदि । जाव णं उवसप्पामि ।
(ततः प्रविशत्युद्यानपालिका ।)
प्रथमा—(उपसृत्य ।) २महुअरिए, अवि सुहो दे उज्जाणवावारो ।
द्वितीया—३अहो समाहिदिआ । सहि, सागदं ते ।
समाहितिका—४हँला, भगवदी आणवेदि । अरित्तपाणिणा
अम्हारिसजणेण तत्तहोदी देवी देखिदव्वा । ता बीअपूरएण सुस्सू-
सिदुं इच्छामित्ति ।
मधुकरिका—५णं संणिहिदं बीजपूरअं । कहेहि दाव अ-
१. आज्ञप्तास्मि भगवत्या । समाहितिके, देव्या उपायनार्थं बीजपूरकं गृ-
हीत्वागच्छेति । यावत्प्रमदवनपालिकां मधुकरिकामन्विष्यामि । एषा तप-
नीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पामि ।
२. मधुकरिके, अपि सुखस्त उद्यानव्यापारः ।
३. अहो समाहितिका । सखि, स्वागतं ते ।
४. सखि, भगवत्याज्ञापयति । अरिक्तपाणिनासादृशजनेन तत्रभवती
देवी द्रष्टव्या । तद्बीजपूरकेण शुश्रूषितुमिच्छामीति ।
५. ननु संनिहितं बीजपूरकम् । कथय तावदन्योन्यसंघर्षितयोर्नाट्याचा-
र्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः ।
कविरिदानीमङ्कान्तरमारभमाणः कथासंघटनार्थं प्रथमं प्रवेशकं नामार्थोपक्षे-
पकं प्रस्तौति—ततः प्रविशतीत्यादिना ॥ आज्ञप्तास्मि भगवत्या । समाहितिके,
देव्या उपायनार्थं बीजपूरकं गृहीत्वागच्छेति । यावत्प्रमदवनपालिकां मधुकरिकाम-
न्विष्यामि । एषा तपनीयाशोकमवलोकयन्ती तिष्ठति । यावदेनामुपसर्पामि ॥ मधु-
करिके, अपि सुखस्त उद्यानव्यापारः । अहो समाहितिका । सखि, स्वागतं ते ॥
सखि, भगवत्याज्ञापयति । अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या ।