सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 37, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 37

३४ मालविकाग्निमित्रे
विहंगो आमिसलोलुओ भीरुओ अ। ता अणादुरो भविअ कज्जसिद्धिं
पत्थेन्तो मे रोअसि।
राजा-कथमनातुरो भविष्यामि।
सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य।
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः।
―――――
तत्रभवती। भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च
तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे। अत्र सान्त्वनस्य गम्य-
मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि। यत्स्नेहस्य
प्रेम्ण एकायनीभूता। एकं केवलमयनं स्थानम्। आश्रय इत्यर्थः। तद्भूता।
अत्राङ्के मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य-
मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति
श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र-
व्याख्याने द्वितीयोऽङ्कः ॥