मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 35, कुल 111 में से
संदर्भ में पढ़ें३२ मालविकाग्निमित्रे
विदूषकः—(जनान्तिकम् ।) दलिद्दो विअ आदुरो वेज्जेण ओ-
सदं दीअमाणं इच्छसि ।
(प्रविश्य ।)
हरदत्तः—देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां
प्रसादः ।
राजा—(आत्मगतम् ।) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्य
प्रकाशम् ।) ननु पर्युत्सुका एव वयम् ।
हरदत्तः—अनुगृहीतोऽस्मि ।
(नेपथ्ये ।)
वैतालिकः—जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि ।
पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां
सौधान्यत्यर्थतापाद्गलभिपारचयद्वेषिपारावतानि ।
बिन्दुक्षेपान्पिपासुः परिसराति शिखी भ्रान्तिमद्वारियन्त्रं
सर्वैरुक्तैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ १२ ॥
विदूषकः—अविहा अविहा । अह्माणं उण भोअणवेला उव-
द्विदा । उद्दवेलादिक्कमे चिहृच्छुआ दोसं उदाहरन्ति । (हरदत्तं
विलोक्य ।) किं दाणिं भणसि ।
हरदत्तः—नास्ति वचनस्यान्यस्यावकाशोऽत्र ।
राजा—तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । विश्राम्यतु
भवान् ।
हरदत्तः—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।)
१. दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ।
२. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे
चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि ।
ध्रुतं नाम संध्यङ्गमुक्तं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥
पत्रच्छायायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप-
स्थिता । चिकित्सका किमिदानीं भणसि