सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 34, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 34

द्वितीयोऽङ्कः । ३१
अन्तरिक्खे जलपाणं इच्छिदं । अथवा पण्डिदसंतोसपच्चया णं
मूढजादी जदो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि-
तोसिअं पअच्छामि । (इति राज्ञो हस्तात्कटकमाकर्षति ।)
देवी—चिंष्ट दाव । गुणन्तरं आणन्तो किंणिमित्तं तुमं आ-
हरणं देसि ।
विदूषकः—पेरकेरंति करिअ ।
देवी—(आचार्य विलोक्य ।) अज्ज गणदास, दंसिदोवदेसा दे
सिस्सा ।
गणदासः—वत्से, प्रतिष्ठस्वेदानीम् ।
(मालविका सहाचार्येण निष्क्रान्ता ।)
विदूषकः—(जनान्तिकम् ।) एँत्तिओ मे मादिविहवो भवन्तं
सेविदुं ।
राजा—अलमलं परिच्छेदेन । अहं हि
भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥
१. तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ।
२. परकीयमिति कृत्वा ।
३. आर्य गणदास, दर्शितोपदेशा ते शिष्या ।
४. एतावान्मे मतिविभवो भवन्तं सेवितुम् ।
रिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभ-
वत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत् । गुणा-
न्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आर्य गण-
दास, दर्शितोपदेशा ते शिष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन
राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तं भवति ॥ एतावान्मे मतिविभवो
भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकायास्तिरस्करणं
तिरोधानमक्ष्णोर्नेत्रयोर्भाग्यास्तमयमिव भाग्यस्य भागधेयस्यास्तमयमिव नाशमिव।
हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेर्द्वारपिधानमिव द्वारस्य
प्रवेशमार्गस्य पिधानं तिरोधानमिव । मन्ये संभावयामि । अत्रार्तेर्गम्यमानत्वाद्वि-