मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 33, कुल 111 में से
संदर्भ में पढ़ें३० मालविकाग्निमित्रे
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ९ ॥
देवी—दिट्ठिआ अपरिक्खदाराहणेण अज्जो वड्ढइ ।
गणदासः—देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ।)
गौतम, वदेदानीं यत्ते मनसि वर्तते ।
विदूषकः—पुढमोपदेसदंसणे पुढमं बह्मणस्स पूआ कादव्वा ।
सा णं वो विसुमरिदा ।
परिव्राजिका—अहो प्रयोगाभ्यन्तरः प्रश्नः ।
(सर्वे प्रहसिताः ।)
(मालविका स्मितं करोति ।)
राजा—(आत्मगतम्।) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् ।
असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् ॥ १० ॥
गणदासः—महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् ।
अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषकः—मँए णाम मुद्धचादएण विअ सुक्खवणगज्जिदे
१. दिष्ट्यापरिक्षताराधनेनार्यो वर्धते ।
२. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो
विस्मृता ।
३. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् ।
अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभवत्या शोभनं भणितं
ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ।
पूर्वासिनीतं संचारिणं शुद्धल्याकरोति । रागबन्धो रञ्जनप्रयोगः स एव । पूर्वं
यादृशस्तादृश एवेत्यर्थः ॥ उपदेशं विदुरित्यादि । उपदेशिनः शिक्षकस्य ।
युष्मासु युष्मादृशेषु । विवेकिष्वित्यर्थः । न श्यामायते न मलिनीभवति । ‘लोहि-
तादिडाज्भ्यः क्यष्’ । ‘वा क्यषः’ इति विकल्पादात्मनेपदम् ॥ दिष्ट्या अपरिक्ष-
ताराधनेनार्यो वर्धते ॥ प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा
ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति ॥
स्पष्टोऽर्थ मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्त