मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 32, कुल 111 में से
संदर्भ में पढ़ेंद्वितीयाऽङ्कः । २९
(विदूषकं विलोक्य ।) ततः शृणुमो वयं विवक्षितमार्यस्य ।
विदूषकः—(गणदासं विलोक्य ।) कौसिईं दाव पुच्छ । पच्छा
जो मए कम्मभेदो दिट्ठो तं भणिस्सं ।
गणदासः—भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा ।
परिव्राजिका—यथादृष्टं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ८ ॥
गणदासः—देवः कथं वा मन्यते ।
राजा—वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः ।
गणदासः—अद्य नर्तयितास्मि ।
१. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि ।
तिमत्त्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाद्यो
मया कर्मभेदो दृष्टस्तं भणिष्यामि ॥ अङ्गैिरित्यादि । अन्तर्निहितवचनैरन्तर्नि-
हितान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरङ्गैर्हस्तादिभिः । अत्राभ्यासपा-
टवादङ्गानां स्वत एवान्तर्निहितवचनत्वमुत्प्रेक्षितमिति मन्तव्यम् । अर्थो गीतार्थः
सम्यक् साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम-
नुगतोऽनुसृतः । लयो नाम तालमानम् । 'तालवर्ती तु यः कालः स काललयना-
ल्लय.' इत्युक्तत्वात् । अत्र पादन्यासस्य स्वतो लयानुसरणमभ्यासपाटवादिति
मन्तव्यम् । रसेषु रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः ।
अत्र रसशब्देनोपचारात्परितोषातिशयवत्त्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकत्वा-
द्रसेष्विति बहुवचनानुपपत्तिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम्—'प्रयोगो
यस्तु नाट्यादेर्भवेदभिनयो हि सः' इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स
तथोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां मानप्रचारः ।
यथोक्तम्—'शाखा तु नृत्तहस्तानां या मात्रोचितनर्तना' इति । तद्विकल्पानु-
वृत्तौ तस्याभिनयस्य विकल्पो भेदस्तस्यानुवृत्तिरनुगतिः प्राप्तिः । तस्यां सत्यां
भावः अभिनीयमानो निर्वेदादिर्विषयादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं