मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 31, कुल 111 में से
संदर्भ में पढ़ें२८ मालविकाग्निमित्रे
विदूषकः—भोदि१, चिट्ठ किंचि । वो विसुमरिदो कम्म-
भेदो । तं दाव पुच्छिस्सम् ।
गणदासः—भद्रे, उपदेशविशुद्धा यातुमर्हसि ।
(मालविका निवृत्य स्थिता ।)
राजा—(आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं
पुष्यति । तथा हि ।
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठाल्लुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतिंतरां कान्तमृज्वायतार्थम् ॥ ६ ॥
देवी—२णं गोदसवअणं वि अज्जो हिअए करेदि ।
गणदासः—देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद-
र्शिता गौतमस्य ।
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ७ ॥
१. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि ।
२. ननु गौतमवचनमप्यार्यो हृदये करोति ।
डुलारसनीयेत्यर्थः। सा चासौ प्रार्थना सैव व्याजोपदेशो यस्मिन्कर्मणि तत्तथो-
क्तम् । अङ्गुक्त इवोदित इव ॥ भवति, तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म-
भेदः । तं तावत्प्रक्ष्यामि ॥ वाममित्यादि । संधिस्तिमितवलयं संधौ मणिबन्धे
स्तिमितं निश्चलं वलयं कङ्कणं यस्य स तथोक्तः । तं वामं सव्यं हस्तं नितम्बे न्यस्य
निधाय । श्यामाविटपसदृशं फलिनीशाखासंनिभं द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं
स्रस्तं शिथिलं यथा भवति तथा मुक्तं विसृष्टम् । लम्बितमित्यर्थः । कृत्वा विधाय ।
पादाङ्गुष्ठाल्लुलितकुसुमे पादाङ्गुष्ठेनाल्लुलितमामृष्टं कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे ।
स्फटिकादिखचितस्थले पातिते व्यापारिते अक्षिणी यस्मिन्कर्मणि तथोक्तम् ।
ऋज्वायतार्थम् ऋजु अवक्रम्रायतं दीर्घं अर्धं शरीरस्योर्ध्वभागो यस्य तत्तथोक्तम् ।
अस्याः स्थितमवस्थानं नृत्तात्तर्त्तनादतिंतरामत्यर्थं कान्तं मनोहरं भवति । अत्र
वाक्यस्य विशेषितलात्पुष्पं नाम संध्यङ्गमनुक्तं भवति ॥ ननु गौतमवचनमप्यार्यो
हृदये करोति ॥ मन्दो संशोध्यैः । अस्य वाक्यस्योपप