सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 30, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 30

द्वितीयोऽङ्कः । २७
विदूषकः-(जनान्तिकम्।) भो, चउप्पदवत्थुअं दुवारीकरिअ
तुइ उवठ्ठाविदो अप्पा तत्तहोदीए ।
राजा-सखे, एवमेव ममापि हृदयम् । अनया खलु
जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् ।
प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा-
दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥
(मालविका गीतान्ते निष्क्रमितुमारब्धा ।)
१. भोः, चतुष्पदवस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ।
यथोक्तम्-'अप्राप्तिर्विप्रलम्भः स्याद्यूनोर्जाताभिलाषयोः । विप्रलम्भस्य भेदाः
स्युरयोगो विरहस्ततः ॥ प्रवासः शापः करुणा मानश्चेति च षण्मताः॥' तत्र । 'संप्राप्ते
पागसङ्गे यस्तमयोगं प्रचक्षते' इति । अत्र चतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः
सविस्मयो हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखरागादिभिः सम्य-
क्प्रकाशिता इत्यनुसंधेयम् । तेषां लक्षणमुक्तं वसन्तराजीये-'इष्टार्थविरहव्याधि-
निन्दासदनमानसैः । दारिद्र्यसंताननाशपरवृद्ध्यवलोकनैः । निष्फलत्वमतिर्नॄणां
निर्वेदो जीवितादिषु ॥' अत्रेष्टार्थविरहजनितो निर्वेदः । 'अन्तर्बाष्पोपमध्यानानिः-
श्वासस्यावमाननैः । दैन्यगद्गदवैवर्ण्यैरभिनेयो भवेदयम् ॥ हर्षो मनःसमुल्लासो
गुरुदेवमहीभुजाम् । प्रसादात्प्रिय सङ्गाच्च भवेदिष्टार्थलाभतः ॥' अत्रेष्टार्थलाभज-
नितो हर्षः । अपाङ्गस्फुरणस्नेष्टाथलाभहेतुत्वात् । 'मुखे नेत्रे प्रसन्नत्वात्प्रियोक्ति-
पुलकोद्गमः । दानत्यागपरीरम्भैरभिनेयो भवेदयम् ॥ इष्टालाभादिष्टनाशादनि-
ष्टाप्तेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता' । अत्र चिन्तेष्टाल भजनिता । 'स्मरणं
चानुपस्मृतिः॥ संतापोच्छ्वासनिश्वासा मान्द्यमिन्द्रियकर्मणाम् । अधोमुखत्वमित्याद्यै-
रभिनेयो भवेदयम् ॥ अनौजस्त्वं तु मनसो दैन्यमित्यभिधीयते । मनःसंतापदारिद्र्य-
चिन्तौत्सुक्यादिभिर्भवेत्॥' अत्रौत्सुक्यजनितं दैन्यम् । 'अङ्गानामपि शैथिल्यं देहसं-
स्कारवर्जनम्। अधितं भरतेऽस्मिन्वै अनुभावाः प्रदर्शिताः॥' इति ॥ भोः, चतुष्पद-
वस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ॥ जनमिममित्यादि । नाथ
स्वामिन्, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा-
नीहि । इत्येवंविधे गेये गीते । वचनं 'णाह मं पराहीणं' इत्यादिवाक्यं स्वाङ्गनिर्देश-
पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्त्या हस्तादिभिः प्रकाशीकुर्वत्या।
अनया मालविकया धारिणीसंनिकर्षाद्विहितां प्रणयगतिं मम स्नेहप्रवृत्तिमदृष्ट्वा-
ज्ञात्वा । अनुभावानामप्रकाशनादिति भावः । सुकुमारप्रार्थनाव्याजं सुकुमारा मृ-