सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 21, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 21

१८ मालविकाग्निमित्रे
देवी- १णं कलहप्पिओसि ।
विदूषकः- २मा एवं । अण्णोण्णकलहप्पिआणं मत्तहत्थीं
एक्कदरस्सि अणिज्जिदे कुदो उवसमो ।
राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती ।
परिव्राजिका-अथ किम् ।
राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् ।
परिव्राजिका-तदेव वक्तुकामास्मि ।
श्लिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥
विदूषकः- ३सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थे
उवदेसदंसणादो णिण्णओत्ति ।
हरदत्तः-परमभिमतं नः ।
गणदासः-देवि, एवं स्थितम् ।
१. ननु कलहप्रियोऽसि ।
२. मैवम् । अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत-
उपशमः ।
३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना-
न्निर्णय इति ।
पश्याम उरअसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ-
न्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः॥श्लिष्टेत्यादि
कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ-
त्मनिष्ठा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिःशिष्येषु
क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तर्भावितण्यर्थः । विशेषयुक्तातिशयवती । यस्य
पुरुषस्योभयम्,आत्मसिद्धिःपरसंक्रमणं च, साधु रम्यं स पुरुष एव शिक्षकाणामुपदे-
शकानां धुर्यग्रे प्रतिष्ठां प्रापयितव्य । श्रुतमार्याभ्यां
एष पिण्डितार्थ इति अत्र माठ