सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 22, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 22

प्रथमोऽङ्कः । १९
देवी—जँदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा
आअरिअस्स दोसो णु ।
राजा—देवि, एवमापठ्यते । विनेतुराद्रव्यपरिग्रहोऽपि बुद्धि-
लाघवं प्रकाशयतीति ।
देवी—(स्वगतम्) कँहं दाणिं (गणदासं विलोक्य प्रकाशम् ।)—
अलं अज्जउत्तस्स ऊसाहकारणं मणोरहं पूरिअ । विरम णिरत्थ-
आदो आरम्भादो ।
विदूषकः—सुँट्ठु भोदी भणादि । भो गणदास, संगीदपदं
लब्भिअ सरस्सईए उवाअणमोदअं खादमाणस्स किं ते सुहणि-
ग्गहेण विवादेण ।
गणदासः—सत्यसमयमेवार्थो देवीवाक्यस्य । श्रूयतामवसरप्रा-
प्तमिदानीम् ।
लब्धास्पदोऽस्मीति विवादभीरो-
स्तितिक्षमाणस्य परेण निन्दाम् ।
यस्यागमः केवलजीविकायै
तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥
१. यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य
दोषो नु ।
२. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा ।
विरम निरर्थकादारम्भात् ।
३. सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपाय-
नमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ।
क्तिर्नाम संध्यङ्गमुक्तं भवति ॥ यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति,तदा-
चार्यस्य दोषो नु । नुः प्रश्ने॥कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं
पूरयित्वा विरम निरर्थकादारम्भात् ॥ सुष्ठु भवती भणति । भो गणदास, संगीतपदं
लब्ध्वा सरस्वत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा-
स्पदोऽस्मीत्यादि । स्पष्टोऽर्थः ॥ अचिरोपनीतायां शिष्यायां पुनःप्रतिष्ठितस्योप-