सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

प्रथमोऽङ्कः । ३७
मकरन्दः—अहो वैदग्ध्यम् ।
माधवः—तया मदनुक्तयाख्यातम्—‘इयममात्यभूरिवसोः
प्रसूतिर्मालती नाम । अहं च भर्तृदारिकायाः प्रसादभूमिर्धात्रेयिका
लवङ्गिका नाम इति ।
कलहंसः—(सहर्षम् ।) किं¹ णाम मालदित्ति । दिट्ठिआ विल-
सिदं भअवदा देवेण कुसुमाउहेण । जिदं अम्हेहिं ।
१. किं नाम मालतीति । दिष्ट्या विलसितं भगवता देवेन कुसुमायुधेन ।
जितमस्माभिः ।
खीजनस्य तटस्थसहृदयलोकस्य चाशास्यत्वेन बुद्धौ विपरिवर्तमानः संनिवेशो
भवतोः संबन्धोऽभिलाषमात्रम् । तस्यां विषयेऽभिनवः केनापि विरहिणाननुभूत-
पूर्वः, अतएव विचित्रो विस्मयकारी कुसुमेषोर्व्यापारः । त्वामुद्दिश्य स्मरेण बल-
वदभिभूत इत्यर्थः । तत्तस्मादन्योन्यसमागमेनोभयोर्वैदग्ध्यस्य सकलकलापरीक्षा-
नस्य कृतार्थता भवतु । त्वदीयवैदग्ध्यसारं सैव लोके वेदितुमर्हा तस्याश्च त्वमेवे-
त्यन्योन्यसदृशाभिज्ञविषयलाभादुभयोर्वैदग्ध्यं चरितार्थमस्त्वित्यर्थः । वैदग्ध्यलक्षणं
च—‘लौकिके वैदिके वार्थे तथा सामयिकेऽपि च । सम्यक्परिचयप्रौढिर्वैदग्ध्य-
मिति गीयते ॥’ इति । निर्माणस्य भवदुभयसृष्टिलक्षणस्य विधातृव्यापारस्य रमणी-
यता सर्वलोकातिशायिसौन्दर्यसंपादकत्वेन मनोहरता भवदुभयसमागमेनैव फलेन
फलतु । अन्यथैकसृष्टिश्रमगुणोज्ज्वलस्त्रीपुंसनिर्माणप्रयासो विधेर्व्यर्थ एव भवेदिति
भावः । तदेष त्रिभुवनरत्नभूतः सरसः सानुरागो रसिकाग्रणीश्च भवांस्तस्याः
कण्ठावलम्बनेन कण्ठालिङ्गनेन महार्घतां प्राप्नोतु । सा ह्यमूल्यरत्नभूतं भवन्तं स्वक-
ण्ठालिङ्गनसौख्येन रतिरमणपरीक्षके कल्पितेन महताधिकेन लावण्यद्रविणेन दरि-
द्रश्वेतरयुवतिजनासंपाद्येन मूल्येन क्रेतुमर्हा नान्या काचिदिति भावः । अत्र कुसु-
मदामप्रार्थनाव्याजेन पूर्वं निष्पन्नार्थस्य मालतीविरहरूपस्य भाविनश्च निर्वहणपर्य-
न्तानुवर्तमानबकुलदामसाक्षिकसर्वव्यापारसूचनात्पताकास्थानकमिदम् । यथा—
‘अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पताकास्थानकं
हि तत् ॥’ इति । अत एव चिरकालास्थायिनी म्लानापि सौरभ्यमयी बकुल-
माला सैव कविना निर्दिष्टा न लितरकुसुममालेति ॥ मकरन्दः । वैदग्ध्यं तत्प-
रिचारिकाया एवेदृशं वचनकौशलं चित्रमित्यर्थः ॥ माधवः । अनुयुक्तया केयं
कस्य सुता वेति पृष्टया । कथितं तया—इयमित्यादि । प्रसूतिरपत्यम् । न तु दत्ता
संकरजाता वा । तेन विवाहयोग्यता सूचिता । प्रसादभूमिर्विश्रम्भभाजनम् । तेन
मयि शङ्का न कार्येत्युक्तम् । धात्रेयीत्यनुल्लङ्घ्यवचनत्वं सकलतन्मर्मज्ञानं चात्मनः
सूचितम् ॥ कलहंसः—सहर्षमिति । यया लिखितमस्य प्रतिच्छन्दकमानीतं
मया तस्यामेव मालत्यामासक्तोऽयमिति सफल इदानीं मम व्यापार इति हर्षहेतुः ।

<!-- Page 44 - Scan / Drama Illustration Plate -->

प्रथमोऽङ्कः । ३९
मकरन्दः—वयस्य, मालत्या अपि स्नेहदर्शनात्सुश्लिष्टमेतत् ।
यो हि कपोलपाण्डुतादिचिह्नः सूचितः प्रागनुरागस्तस्याः कामाभि-
षङ्गः सोऽपि त्वन्निबन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क
दृष्टपूर्वस्तस्या वयस्य इति । न खलु तादृश्यो महाभागधेयजन्मा-
नोऽन्यत्रासक्तचेतसो भूत्वा परत्र चक्षूरागिण्यो भवन्ति । अपि च ।
अन्योन्यसंभिन्नदृशां सखीनां
तस्यास्त्वयि प्रागनुरागचिह्नम् ।
कस्यापि कोऽपीति निवेदितं च
माधवः—किं चान्यत् ।
मकरन्दः—
धात्रेयिकायाश्चतुरं वचश्च ॥ ३६ ॥
रागमात्मन्यप्रत्ययादाशङ्कमानं लिङ्गैर्दृढं कृत्वा तन्मनोऽवस्थापयितुमाह—मक-
रन्दः—वयस्येति । तस्या अपि त्वद्वचनात्त्वय्यनुरागप्रतीतेरेतत्कार्यं साधु
संघटितमित्यर्थः । न च मम दर्शनात्पूर्वमेव सा कपोलपाण्डिमाद्युपेता वर्तते, तेन
मदन्यस्मिन्नेव कापि यूनि प्रागवलोकिते बद्धभावेयं न तु मयीत्याशङ्कनीयम् ।
यतस्त्वमेव कुत्रचित्पूर्वं दृष्टस्तस्याश्चिरादनुबध्यमानस्य मन्मथविकाराभिनिवेशस्य
हेतुः । किं तु क्व वा तया प्रागवलोकितोऽभूरित्येतावदेव ज्ञातव्यमित्याह—यो
हीत्यादिना । अहमेव तत्र हेतुरिति कुतोऽवधारणमित्यत आह—न ख-
ल्विति । तादृश्यः प्रशस्तकुलशीलगुणगणोज्ज्वला महाभागधेयजन्मानः प्रकृष्टसु-
चरितपरिपाकलब्धजनुषः । चक्षूरागश्चक्षुःप्रीतिरासामस्तीति तथा । यथा-
‘कुलीना गुणवत्यश्च कुमार्यो भाग्यभूषणाः । ईदृशास्त्वयशोदोषभाजनं नैव जातु-
चित् ॥ यदन्यासक्तचित्ता सा न चक्षुस्त्वयि पातयेत् । मनोऽन्यत्र दृगन्यत्र
चेतीनां नोत्तमस्त्रियाः ॥’ इति भावः । अन्यदपि त्वयि पूर्वानुरागे लिङ्गमस्ती-
त्याह—अपि चेति । अन्योन्येति । अन्योन्यसंभिन्नदृशां सप्रत्यभिज्ञं स
एवायमिति निर्धारयितुं परस्परमुखावलोकनेन संमिश्रदृष्टीनां तस्याः सखीनां क-
स्यापि जनस्य कोऽपि दयित इहैव वर्तत इत्येवंरूपं निवेदितम् । स्वसख्यै प्र-
ज्ञापनं चैकं तस्यास्त्वय्येवासौ पाण्डिमादिसूचितः प्रागनुराग इत्यास्मिन्नर्थे चिह्नं
लिङ्गमित्यर्थः ॥ अथ माधवः स्वनिर्धारितं लिङ्गान्तरं लवङ्गिकाश्लिष्टवचनरूपमसा-
वुद्भावयिष्यति वा न वेत्यौत्सुक्यात्तद्वचनावसरप्रतीक्षणमसहमानः कस्यापि को-
ऽपीति निवेदितं चेति चशब्देन किमन्यत्समुच्चिनोषीति पृच्छति—माधवः—
किं चेति । चकारः किमन्यत्प्रागनुरागलिङ्गं द्योतयतीत्यर्थः ॥ मकरन्दः—
धात्रेयिकाया इति । चतुरं छिद्द्रम् । प्रागनुरागचिह्नमिति शेषः ॥ ३६ ॥
५ माल०

४० मालतीमाधवे
कलहंसः—(उपसृत्य ।) एदं अ । (चित्रं दर्शयति ।)
(उभौ पश्यतः ।)
मकरन्दः—कलहंसक, केनेदं माधवस्य रूपमभिलिखितम् ।
कलहंसः—जेणे एव्व से हिअअं अवहरिदं ।
मकरन्दः—अपि नाम मालत्या ।
कलहंसः—अह इं ।
माधवः—वयस्य मकरन्द, प्रसन्नप्रायस्ते तर्कः ।
मकरन्दः—कुतोऽस्याधिगमस्ते ।
कलहंसः—मँह दाव मन्दारिआहत्थादो । ताए वि लवङ्गि-
आसआसादो ।
मकरन्दः—कथय किमाह मन्दारिका माधवलेख्यप्रयोजनं
मालत्याः ।
कलहंसः—उक्कँठाविणोअणं ति ।
मकरन्दः—वयस्य, समाश्वसिहि ।
या कौमुदी नयनयोर्भवतः सुजन्मा
तस्या भवानति मनोरथबन्धबन्धुः ।
१. एतच्च ।
२. येनैवास्य हृदयमपहृतम् ।
३. अथ किम् ।
४. मम तावन्मन्दारिकाहस्तात् । तया अपि लवङ्गिकासकाशात् ।
५. उत्कण्ठाविनोदनमिति ।
कलहंसः। एतच्च । इदमपि प्रागनुरागचिह्नमिति प्राप्तावसरश्चित्रमर्पयतीत्यर्थः ॥
चित्रलेखनपर्यन्तस्य मालतीव्यापारस्य मकरन्देनापाततोऽधिगमात्केनेति सामा-
न्यतो निर्देशः ॥ कलहंसः । पुनर्विमर्शपूर्वकं तेनैव वाचयितुमाह—येनैवास्य
हृदयमपहृतमिति ॥ मकरन्दः । अपि नामेति प्रश्ने । लिखितमिति शेषः ॥ कल-
हंसः। अथ किमित्यङ्गीकारे । बाढं मालत्यैवेत्यर्थः ॥ माधवः । वयस्येति ।
प्रसन्नप्रायः संदेहलक्षणकालुष्यापगमान्निर्मलीभूतस्तर्कस्त्वय्येव सानुरक्तेत्यूहः ।
अत्र चित्रदर्शनात्तस्मिन्मालत्यनुरागनिश्चयेन सुखागमप्रतीतेः प्राप्तिर्नाम संध्यङ्ग-
मुक्तं भवति । यथा—'प्राप्तिः कोऽपि सुखागमः' इति ॥ मकरन्दः । कलहं-
सक, कस्मादेतत्त्वया प्राप्तमित्यर्थः ॥ कलहंसः । मम तावन्मन्दारिकाहस्तात् ।
तया अपि लवङ्गिकासकाशात् ॥ कलहंसः । उत्कण्ठाविनोदनमिति ॥ या
कौमुदीति । या त्वन्नेत्रचकोरयोश्चन्द्रिकेव निरतिशयसौहित्यकारिणी तस्याः सु-

प्रथमोऽङ्कः । ४१
तत्संगमं प्रति सखे न हि संशयोऽस्ति
यस्मिन्विधिश्च मदनश्च कृताभियोगः ॥ ३७ ॥
द्रष्टव्यरूपा च भवतो विकारहेतुस्तदत्रैवालिख्यताम् ।
माधवः—यदभिरुचितं वयस्याय । (लिखन् ।) सखे मकरन्द,
वारंवारं तिरयति दृशावुद्गतो बाष्पपूर-
स्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम् ।
सद्यःस्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः
पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ३८ ॥
तथाप्यवहितोऽस्मि । (चिरादभिलिख्य दर्शयति ।)
मकरन्दः—(चित्रं निर्वर्ण्य ।) उपपन्नस्तावदत्रभवतोऽभिषङ्गः ।
(सकौतुकम् ।) कथमचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति ।)
जन्मा लमपि मनोरथबन्धस्य दृढानुरागस्य बन्धुः । आश

४२ मालतीमाधवे
जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये ।
मम तु यदिदं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९ ॥
(प्रविश्य ।)
मन्दारिका—१कलहंस कलहंस, चोर चोर, पआणुसारेण ल-
१. कलहंस कलहंस, चोर चोर, पदानुसारेण लब्धोऽसि कथं तावपि
महानुभावावत्रैव प्रणमामि ।
त्कम्पेनानवरतवेपथुना लोलाश्लथा अङ्गुलयो यस्य स तादृशो वर्तते । तत्किं
करोमि । इदानीं चित्रकर्मवैदग्ध्यप्रकटनं दुर्घटमित्यर्थः । स्वेदवेपथू यथा—'वपुर्ज-
लोद्गमस्वेदो रतिघर्मश्रमादिभिः । रागरोगभयादिभ्यः कम्पो गात्रस्य वेपथुः ॥'
इति ॥ ३८ ॥ तथापीत्यादि स्पष्टम् ॥ जगतीति । जगति भुवने ते ते नवेन्दुक-
लादयो भावाः पदार्था जयिनो मन्मथसाहाय्याचरणेन विरहिजनवशीकरणशीलाः।
प्रकृतिमधुराः स्वभावेनैव मनोहराः । 'इह वटे यक्षः' इति न्यायेन न केवलमन्धपर-
म्परया प्रसिद्धाः । अन्ये मालतीव्यतिरिक्ताः सन्त्येव येऽन्येषामदृष्टमालतीमुखा-
म्बुजानामविवेकिनां वा मनो मदयन्त्युत्सुकयन्ति । नैतदपूर्वम् । सन्तु नाम । तैः
किमिदानीं तदपेक्षया वराकप्रायैरिति भावः । 'भिन्नरुचिर्हि लोकः' इति न्या-
येनान्येषां यथा तथा वास्तु नाम । मम पुनर्विलोचनचन्द्रिका नेत्राह्लादकारिणी ।
लोके लोकप्रसिद्ध्या केवलमिदमुच्यते, न तु स्वापेक्षया । माधवस्य मालत्यपेक्षया
चन्द्रिकादेरतितुच्छत्वेन मालत्यामुत्कर्षप्रतिपादनार्थं चन्द्रिकात्वारोपस्य स्ववचो-
व्याहतत्वात् । तेन यथा लोकस्य चन्द्रिका नेत्रयोराह्लादकारिणी एवं मम मालती-
त्येतावता चन्द्रिकात्वारोपो न तूत्कर्षप्रतिपादनायेति व्याख्येयम् । एवं च व्याह-
तार्थदोष इति तु परिहृतम् । इयं मालती नयनविषयम् । भावप्राधान्येन निर्देशः ।
नेत्रगोचरतामापन्नेति यत्स एवास्मिञ्जन्मनि लोके कृत्स्नेऽपि प्रपञ्च एकोऽद्वि-
तीयो महानुत्सवः सौख्यहेतुः । नान्ये चन्द्रकलादय इत्यर्थः । अतिशयोक्तिरलं-
कारः ॥ ३९ ॥ प्रविश्य । मन्दारिकेति । माधवाय प्रदर्श्य शीघ्रं प्रत्यानयेति
कलहंसस्य हस्ते चित्रमर्पितवती मदनोद्यानात्प्रतिनिवृत्य क्रीडासौधवर्तिन्यां माल-
त्यामथ विशेषदर्शनप्रबलतरोत्कण्ठाविनोदाय क्व चित्रफलकमिति विमृशन्त्यां
तदसंनिधानादुपजातसंभ्रमा मन्दारिका जनसंकुले कलहंसमन्विष्य तत्रादृष्टवती
प्रविश्य वदतीति भावः । द्विरुक्तिः संभ्रमसूचनार्था । प्लुतश्च 'निगृह्यानुयोगे च' इति
विहितो देशभाषास्वपि व्यवह्रियते । चोरेत्यामन्त्रणं मद्धस्ताच्चित्रफलं त्वया चोरे-
णानीतमित्युपहासपरम् । अत एवाह—पादानुसारेण लब्धोऽसीति ।

द्धोसि । (सलज्जम् ।) कहं दे वि महाणुहावा एत्थ एव्व । (उपसृत्य ।)
पणमामि ।
उभौ—मन्दारिके, इत आगम्यताम् ।
मन्दारिका—केलहंसक, उवणेहि चित्तफलअं ।
कलहंसः—गिण्हे इमं ।
मन्दारिका—केनँ किंणिमित्तं वा एत्थ मालदी अहिलिहिदा ।
कलहंसः—जो एव जंणिमित्तं मालदीए ।
मन्दारिका—(सहर्षम् ।) दिट्ठिआ उवदंसिदफलं विण्णाणं
पआवइणो ।
मकरन्दः—सखि मन्दारिके, यदत्र वस्तुन्येष ते वल्लभः
कथयति, अपि तत्तथा ।
मन्दारिका—महाभाअ, तत्तहा ।
मकरन्दः—क्व पुनर्मांलती माधवं प्राग्दृष्टवती ।
१. कलहंसक, उपनय चित्रफलकम् ।
२. गृहाणेदम् ।
३. केन किंनिमित्तं वात्र मालत्यभिलिखिता ।
४. य एव यन्निमित्तं मालत्या ।
५. दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः ।
६. महाभाग, तत्तथा ।
चोरो हि पदन्यासलिङ्गानुसरणेनैव गृह्यते । सलज्जामिति । तत्स्वामिसं-
निधौ तेन सहोपहसनानौचित्यात् । कथं तावपि महानुभावावत्रैव ॥ इत आ-
गम्यतामित्यादरोक्तिः । तस्याः समनन्तरकार्योपयोगात्तदनुनयार्थम् ॥ मन्दा-
रिका । कलहंसक, उपनय चित्रफलकम् ॥ कलहंसः । गृहाणेदम् ॥ मन्दा-
रिका । कलहंसकं प्रति । केन किंनिमित्तं वात्र मालत्यभिलिखिता ॥
कलहंसः । य एव यन्निमित्तं च मालत्या लिखितो माधवस्तेनैव तद-
र्थमेवोत्कण्ठाविनोदार्थमेव मालती लिखितेत्यर्थः । मन्दारिका—सहर्ष-
मिति । कामन्दकीपरिजनस्यास्मदाद्दर्श्यव्यापारः फलोन्मुख इति हर्षहेतुः ।
दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः । ईदृशयुवद्वयनिर्माणं विधातुः शिल्पकौ-
शलमनयोरन्योन्यानुरागप्रकर्षेण दर्शितफलं जातम् । परिणयरूपा परिणतिरेवैतः
परमवशिष्टेति भावः ॥ मकरन्दः । अत्र प्रतिच्छन्दकरूपे वस्तुनि यदेष ते पतिः
कथयति मालत्या लिखितमुत्कण्ठाविनोदनायेति । अपि प्रश्ने । किं तत्तथा सत्य-
मित्यर्थः ॥ मन्दारिका । महाभाग, तत्तथा ॥ मकरन्दः—केति । येन

४४ मालतीमाधवे
मन्दारिका—१लवङ्गिका भणादि वादाअणगदेत्ति ।
मकरन्दः—नन्वमात्यभवनासन्नरथ्यैव बहुशः संचरावहे ।
तदुपपन्नमेतत् ।
मन्दारिका—२अणुमण्णादु महाभाओ । जाव एदं भववदो दे-
वस्स मअणस्स सुचरिअं पिअसहीए लवङ्गिआए णिवेदिस्सामि ।
मकरन्दः—प्राप्तावसरमेतद्भवत्याः ।
(उत्थाय परिकामतः।)
मकरन्दः—वयस्य, मध्याह्नोऽतिवर्तते । तदेहि । संस्त्यानमेव
प्रविशावः ।
(उत्थाय परिकामतः।)
माधवः—एवं हि मन्ये ।
घर्माम्भोविसरविवर्तनैरिदानीं
मुग्धाक्ष्याः परिजनवारसुन्दरीणाम् ।
तत्प्रातर्विहितविचित्रपत्ररेखा-
वैदग्ध्यं जहति कपोलकुङ्कुमानि ॥ ४० ॥
१. लवङ्गिका भणति वातायनगतेति ।
२. अनुमन्यतां महाभागः । यावदिदं भगवतो देवस्य मदनस्य सुचरितं
प्रियसख्यै लवङ्गिकायै निवेदयिष्यामि ।
उत्कण्ठाविनोदाय तद्रूपमलिखदिति भावः ॥ मन्दारिका । लवङ्गिका भणति
वातायनगतेति ॥ एतद्गवाक्षमार्गेण दर्शनमित्यर्थः ॥ मन्दारिका । अनुमन्यतां
महाभागः यावदिदं भगवतोऽप्रतिहतभावस्य देवस्याशक्यसंघटनेदृशमिथुनसंघ-
टनानुगुणव्यापाराहमकक्रीडावतो मदनस्य सुचरितमन्योन्याकृतिनिर्माणहेतुपरस्प-
रानुरागलक्षणं लवङ्गिकायै निवेदयिष्यामि । तथैवाहमत्र नियुक्ता, तमिमं वृत्तान्तं
तस्यै निवेदयामि । सा पुनर्यथोचितमाचरिष्यतीति भावः ॥ मकरन्दः—प्रा-
प्तेति । भवत्या । एतन्माधवालोकितस्य दृढीकृततदनुरागस्य तदभिलिखितमा-
लतीरूपसंपादयिष्यमाणमालतीमनःप्रत्ययस्यास्य प्रतिच्छन्दकस्य लवङ्गिकायै नि-
वेदनं प्राप्तोऽवसरो यस्य तत् । अवसरोचितमित्यर्थः ॥ संस्त्यानं सदनम् ॥ धर्माम्भ
इत्यादि । मुग्धे सुन्दरे अक्षिणी यस्यास्तस्याः परिचारिकाणां वारविलासिनीनां
कपोलकुङ्कुमानि कर्तॄणि कपोलयोरनुलिप्तानि कुङ्कुमानि । अनेनानुलेपनविशेष
उक्तः । यथा—'वैदग्ध्येनोपरचितं स्तनयोर्वा कपोलयोः । उन्मादनं नयनयोर्य-
त्प्रसादनुलेपनम् ॥' इति । घर्माम्भसः स्वेदजलस्य विसरो बिन्दुसमूहस्तस्य

-" (no, "चमत्कार-")
Wait, look at line 10 end: "चमत्का-" or "चमत्कार-"?
It is "चमत्का-" with a hyphen!
And line 11 starts with: "रकारिणी"!
Wait, चमत्कारकारिणी -> चमत्का- / रकारिणी. Yes!

तर्कयामीत्यर्थः । स्वेदवशात्प्रमृष्टरचनानि विच्छिन्नचातुर्याणि कपोलकुङ्कुमानि
मध्याह्ने स्युरिति भावः ॥ ४० ॥ अयोन्मादविजृम्भणमहिम्ना वायोरचेतनादपि
Wait, "अयोन्माद-" or "अथोन्माद-"?
Look at the first letter of the sentence: "अयोन्माद" or "अथोन्माद"?
It's "अथोन्मादविजृम्भणमहिम्ना"! In Devanagari, 'थ' often looks like 'य' with an upper loop. In classical texts, "अथोन्माद..." is standard.
Wait, look at the loop: yes, it has a loop at the top left, which is 'थ': "अथोन्मादविजृम्भणमहिम्ना".

तत्संगमं प्रार्थयन्नाह—उन्मीलदित्यादि । हे पवन, तामालिङ्गन्ने

४६ मालतीमाधवे
अचिरेण वैकृतविवर्तदारुणः
कलभं कठोर इव कूटपाकलः ॥ ४२ ॥
तदत्रभवती कामन्दकी नः शरणम् ।
माधवः—(स्वगतम् ।)
पश्यामि तामित इतः पुरतश्च पश्चा-
दन्तर्बहिः परित एव विवर्तमानाम् ।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती-
मासङ्गतैर्यगपवर्तितदृष्टिवक्त्रम् ॥ ४३ ॥
(प्रकाशम् ।) वयस्य, मम हि संप्रति
ज्वरः । स चासौ दारुणश्चेति विग्रहः । कठोरोऽतितीव्रः । कूटपाकलो गजरोग-
विशेषः । कूटेन कपटेनाकस्मादागत्य तस्मिन्नेव निपातयतीति कूटपाकलः । य-
था—'यथाभिहन्यात्कूटेन मृगयूथं वनेचरः । तथा पातात्मको नागं हन्ति वै
कूटपाकलः ॥ मृगः कूटेन शबरैर्हन्यते दारुणं यथा । तथा तेन द्विपः सीदत्यतः
स्यात्कूटपाकलः ॥' इति । केचित्कूटीभूय संधीभूय दोषत्रयेण जनितो गजज्व-
रविशेषः कूटपाकल इति व्याचक्षते । अनेनोन्मादावस्था सूचिता । उपमालंकारः
॥ ४२ ॥ तदत्रेति । नान्या गतिरस्तीत्यर्थः । इयमर्थसंप्रसारणरूपा युक्तिर्मुखसं-
धेरङ्गम् । यथा—'संप्रसारणमर्थानां युक्तिरित्यभिधीयते' इति । माधवस्तु तामेव
गमनसमये दृष्टामिदानीं सर्वत्रापि विलोकयन्नात्मन्येव स्वकीयमुन्मादातिशयं विमृ-
शन्नाह—पश्यामीति । तामेव गमनसमये दृष्टामिदानीं बहुधा विवर्तमानाम् ।
प्रातिभासिकाकारो विवर्तः । प्रतिभासमात्रशरीरतया स्फुरन्तीम् । बाहुविध्यं व्य-
नक्ति—इत इत इति । कदाचित्कर्णान्तिकमागत्य रहस्याख्यानसस्पृहामिव पर्यायेण
पार्श्वद्वये मदीयबाहुसंस्पर्शरोमाञ्चकञ्चुकितेकपयोधरं निषेदुषीम्, अन्यदा पुरतोऽ-
भिमुखमुपविश्य 'किमित्येवमतिविषण्णः खिद्यसे । सर्वथा त्वदायत्तजीविताहम्' इति
प्रौढवनितावन्मामभुनयन्तीम्, क्षणान्तरे पुनः पश्चान्मां मन्दसंचारमागत्य मन्नयने
पिधाय कराभ्यां 'काहं कथय' इति मां विनोदयन्तीम्, कदाचिदसौ किमन्यां वा
निरन्तरं निध्यायति मामेवेति विचारयितुमिवान्तः प्रविशन्तीम्, तत्र च स्वात्मान-
मेवोपास्यामिव परदेवतामाकारान्तरेण मदिच्छापरिकल्पितेन भासमानमवलोक्य
वनितान्तरशङ्कया 'नूनं शठोऽसि । नाहं त्वत्संनिधौ वर्तितुमुत्सहे' इत्यसूययेव बहि-
र्निर्गत्य चेलाञ्चले गृह्यमाणामपि बलादपसरन्तीम्, कदाचिद्योगिनीमिव परिगृह्य
बहूनि शरीराणि परितःपरिवृत्य मामनेकप्रकारैर्विलासैरानन्दयन्तीमिति स्वमनोरथ-
विजृम्भणप्रपञ्चप्रकारः । पुनः कीदृशीम् । विकसन्मनोहरकनककमलसदृशम् । आ-
सङ्गेन मय्यासक्ततया तिर्यगपवर्तितं तिर्यग्वलितं दृष्टिर्यस्य तत्तादृशं वक्त्रं वहन्ती-

प्रथमोऽङ्कः । ४७
प्रसरति परिमाथी कोऽप्ययं देहदाह-
स्तिरयति करणानां ग्राहकत्वं प्रमोहः ।
रणरणकविवृद्धिं बिभ्रदावर्तमानं
ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते ॥ ४४ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे प्रथमोऽङ्कः ।
मिति ॥ ४३ ॥ एवं स्वात्मनि विमृष्टमेवार्थं वयस्याय मकरन्दाय निवेदयन्नाह—
प्रसरतीति । कोऽप्यनिर्व्वाच्यः केनाप्यविदितनिदानः परिमाथी परिमथनशीलः
सद्य एव विपत्तिशङ्काकार्यं देहदाहो मदनज्वरः प्रसरति सर्वावयवव्याप्तो व-
र्त्तते । ज्वराख्यस्य दशाविशेषस्य लक्षणमुक्तम् । प्रमोहः । 'सुखदुःखादिजनितो
मोहश्चित्तस्य मूढता' इत्युक्तरूपः करणानामिन्द्रियाणां ग्राहकत्वं स्वस्वविषयग्र-

द्वितीयोऽङ्कः ।
(ततः प्रविशतश्चेट्यौ ।)
एका—हँला, संगीतसालापरिसरे अवलोइआदुईआ भअवदी
कामन्दई किं वि मन्तअन्ती आसी ।
द्वितीया—सहि, तेण किल माहवपिअवअस्सेण मअरन्देण
सअलो मअणुज्जाणउत्तन्तो भअवदीए णिवेदिदो । तदो भट्टिदारिअं
दट्टुकामाए पउत्तिनिमित्तं अवलोइदा अणुप्पेसिदा । मए वि ताए
कहिदं जह लवङ्गिआदुईआ विवित्ते भट्टिदारिआ हवदित्ति ।
१. सखि, संगीतशालापरिसरेऽवलोकिताद्वितीया भगवती कामन्दकी
किमपि मन्त्रयन्त्यासीत् ।
२. सखि, तेन किल माधवप्रियवयस्येन मकरन्देन सकलो मदनोद्यान-
वृत्तान्तो भगवत्यै निवेदितः । ततो भर्तृदारिकां द्रष्टुकामाया प्रवृत्तिनिमित्त-
मवलोकितानुप्रेषिता

द्वितीयोऽङ्कः । ४९
प्रथमा—सहि, लवङ्गिआ खु केसरकुसुमाई अवइणुम्मि त्ति
गआ मअणुज्जाणं किं संपदं णिउत्ता ।
द्वितीया—अह इं । तं खु आपतन्तीं एव हत्थे घेत्तूण अप-
रिअणा भट्टिदारिआ उपरिअलिन्दं समारूढा ।
प्रथमा—३णूणं तस्स महाणुहावस्स संकहाए अत्ताणं विणोदेइ ।
द्वितीया—(निःश्वस्य ।) ४कुँदो क्खु से आस्सासो । एदिणा
अज्ज सविसेसदंसणेण अदिभूमिं क्खु ताए अहिणिवेसो गमिस्सदि ।
अण्णं अ । कले एव णन्दणस्स कारणादो महाराओ भट्टिदारिअं
पत्थअन्तो अमच्चेण विण्णत्तो ।
प्रथमा—किं५ ति ।
१. सखि, लवङ्गिका खलु केसरकुसुमान्यवचिनोमीति गता मदनोद्यानं
किं सांप्रतं नि

५० मालतीमाधवे
द्वितीया—पेहवइ णिअस्स कण्णआजणस्स महाराओ त्ति ।
अदो आमरणं खु मालदीए हिअअसलं माहवाणुराओ त्ति तक्केमि ।
प्रथमा—अवि णाम भअवदी एत्थ किं वि भअवदित्तणं
दंसइस्सदि ।
द्वितीया—अइ असंबद्धमणोरहे, एहि ।
(इति निष्क्रान्ते ।)
प्रवेशकः ।
(ततः प्रविशत्युपविष्टा सोत्कण्ठा मालती लवङ्गिका च)
१. प्रभवति निजस्य कन्याकाजनस्य महाराज इति । अत आमरणं खलु
मालत्या हृदयशल्यं माधवानुराग इति तर्कयामि ।
२. अपि नाम भगवत्यत्र किमपि भगवतीत्वं दर्शयिष्यति ।
३. अयि असंबद्धमनोरथे, एहि ।
कथयेति शेषः ॥ द्वितीया । प्रभवति निजस्य कन्याकाजनस्य महाराज इति ।
विज्ञप्त इति शेषः । अत आमरणं खलु तस्या मालत्या माधवानुरागः शल्यमनभि-
लषितवरप्रदानशङ्काविषाक्तं मन्मथनाराचफलतुल्यमिति तर्कयामि ॥ प्रथमा ।
अपि नाम भगवती किमप्यत्र भगवतीत्वं दर्शयिष्यति । मालत्यामतिवत्सला काम-
न्दकी तन्मनोरथसंपादने स्वकीयज्ञानवैराग्यैश्वर्यादिसंपत्तिरूपं माहात्म्यं प्रकट-
यिष्यतीति संभाव्यत इत्यर्थः ॥ द्वितीया । अयि असंबद्धमनोरथे, एहि । प्रकृ-
तकृत्यानुसरणायेति शेषः ॥ एवं मकरन्देन कामन्दक्यै माधवावस्थानिवेदनम्,
लवङ्गिकाप्राप्तिम्, मालतीलवङ्गिकयोः प्रवेशम्, तदनन्तरं मालत्यवस्थापरिज्ञानार्थं
कामन्दक्यागमनम्, तया च प्रसज्यमानं नन्दनवृत्तान्तं सूचयित्वा चेट्यौ निष्क्रान्ते
प्रवेशकः ॥ तत इत्यादि । लवङ्गिकाद्वितीया विविक्ते वर्तत इति सूचितप्र-
वेशे मालतीलवङ्गिके प्रविशत इत्यर्थः । नन्वत्र नायकप्रवेशाभावात्प्रत्यक्षनायक-
चरितवर्णनाख्याङ्गलक्षणाभावात्कथमस्याङ्कत्वम् । नेतृग्रहणेन नायिकाया अप्येक-
शेषेण ग्रहणाददोषः । किं चाङ्कद्वयस्याप्येकदिनव्यापारत्वात् , एकसंध्यात्मकत्वाच्च
पूर्वाङ्कशेष एवायं पात्रप्रवेशनिर्गमसौकर्यार्थं नायकव्यापारानुसंधानं परिसमाप्य
नायिकाव्यापारानुसंधानात्मकसौकर्यार्थं चाङ्कान्तरं कृतमिति मन्तव्यम् । कथमङ्क-
द्वयस्यैकसंधित्वमिति चेदुच्यते—'अन्वितानां कथांशानां परमेते प्रयोजने ।
संबन्धः संधिरित्युक्तोऽवान्तरैकप्रयोजने ॥' इत्येवंरूपम् । तदत्र मालतीमाधव-
योर्विवाहलक्षणपरमप्रयोजनसमन्वितानामवान्तरैकप्रयोजने तदन्योन्यानुरागस्य
बीजस्य दृढीकरणलक्षणे प्रवृत्तानामद्यतनकामन्दक्यवलोकितादिप्रयत्नो मदनो-

द्वितीयोऽङ्कः । ५१
मालती—सँहि, तदो तदो ।
लवङ्गिका—तँदो तेण महाणुहावेण उवणीदा इमं वउल-
माला (इत्यर्पयति ।)
मालती—(मालां गृहीत्वा सहर्षं निर्वर्ण्य ।) सँहि, एक्कपासविसम-
पडिबद्धा इअं विरअणा ।
लवङ्गिका—एँत्थ अरमणिज्जत्तणे तुमं एवं अवरद्धासि ।
मालती—कँहं विअ ।
लवङ्गिका—जेँण सो दुब्बासामलङ्गो तह विहत्थीकिदो ।
मालती—सँहे लवङ्गिए, सबहा आसासणसीलासि ।
लवङ्गिका—सँहि, एत्थ का आसासणसीलदा । णं भणामि ।
१. सखि ततस्ततः ।
२. ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ।
३. सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ।
४. अत्रारमणीयत्वे त्वमेवापराद्धासि ।
५. कथमिव ।
६. येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः ।
७. सखि लवङ्गिके, सर्वथाश्वासनशीलासि ।
८. सखि, अत्र काश्वासनशीलता । ननु भणामि सोऽपि प्रिय-
'मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा' इत्युक्तलक्षणात् इत्यलं प्रपञ्चेन ॥ मा-
लती । सखि, ततस्ततः । मदनोद्याने ऽविलम्बं माधवसमीपगमनं चतुरवचनै-
र्बकुलदामप्रार्थनं चेत्येतावदुक्तवतीं लवङ्गिकां प्रत्युपरितनवृत्तान्तश्रवणकौतुको-
त्कर्षात्ससंभ्रमप्रश्नः । आदरसूचनार्था वीप्सा । अनन्तरवृत्तान्तं कथयेति शेषः ॥
लवङ्गिका । ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ॥ मालती । निर्वर्ण्य
सादरं विलोक्य । सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ॥ लवङ्गिका ।
अत्रारमणीयत्वे त्वमेवापराद्धासि । मालती । कथमिव । माधवकर्तृकायाः स्रग्वि-
रचनाया एकपार्श्ववैषम्ये कथमहं निमित्तं भवामीत्यर्थः । लवङ्गिका । येन स
दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । वस्तुतो ग्रथनक्रियाया विकलहस्तः कृतः ।
त्वमेव स्वसौन्दर्यसंपदा गम्भीरमपि तन्मनः समाकर्षन्ती प्रस्तुतक्रियाविकलहस्तं
कृतवती । तत इदं विरचनावैषम्यं जातमिति भावः ॥ मालती । सखि लव-
ङ्गिके, सर्वथाश्वासनशीलासि । मत्समाश्रासनाय केवलमिदं त्वयोच्यते । तस्य
मय्यनुरागोऽसंभावित इति भावः ॥ लवङ्गिका । सखि, कात्राश्वासनशी-
६ मालतीमा०

५२ मालतीमाधवे
सो वि पिअसहीए मन्दमारुअप्पअलिअप्पफुल्लपुण्डरीअविब्भमेहिं प-
ढमारद्धवडलावलीविरअणावदेससंअमणबलामोडिअवित्थिरन्तेहिं लो-
अणेहिं विअम्भमाणविम्हअत्थिमिददीहपेरन्तपरिअन्तणाविलासुल्लसि-
अभूलदाविभाविदणङ्गसरसंरम्भविव्भमविअद्धं ओलोअन्तो पच्च-
क्खीकिदो एव्व ।
मालती—(लवङ्गिकां परिष्वज्य १) आम पिअसहि, किं दाव
तस्स साहाविआ एव्व ते मुहुत्तसंणिहाइणो जणस्स विप्पलम्भइ-
त्ता विलासा, आदु पिअसही जहा संभावेदि ।
सख्या मन्दमारुतप्रचलितप्रफुल्लपुण्डरीकविभ्रमाभ्यां प्रथमारब्धबकुलावलीवि-
रचनापदेशसंयमनबलात्कारविस्तृताभ्यां लोचनाभ्यां विजृम्भमाणविस्मयस्ति-
मितदीर्घपर्यन्तपरियन्त्र

द्वितीयेाऽङ्कः । ५३
लवङ्गिका—(विहस्य सासूयमिव ।) तुमं वि सहावेण एव्व तस्सिं
अवसरे असंगीदं णत्तिदासि ।
मालती—(सलज्जं विहस्य ।) हूँ, तदो तदो ।
लवङ्गिका—तदो पडिणिउत्तमाणजत्ताजणसंकुलेण अन्तरिदे
तस्सिं मन्दारिआघरं उवगदह्नि । ताए चित्तफलं पहादे हत्थी-
किदं आसी ।
मालती—किंणिमित्तं ।
लवङ्गिका—तं क्खु माहवाणुअरो कलहंसओ कामेदि ।
सा तस्स दंसइस्सिदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवृत्ता ।
मालती—(स्वगतम् । सानन्दम् ।) णू्र्णं देण वि कलहंसएण
१. त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं नर्तितासि ।
२. हुं, ततस्ततः ।
३. ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्मन्दारिकागृह-
मुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतमासीत् ।
४. किंनिमित्तम् ।
५. तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्य-
तीति । ततः प्रियनिवेदिका मन्दारिका संवृत्ता ।
६. नूनं तेनापि कलहंसकेनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भवि-
ष्यति । सखि, किमिदानीं ते प्रियम् ।
लवङ्गिका । निश्चित्यापि भावगुप्तये केवलमियं संदिग्ध इति विहस्य निश्चितेऽप्यर्थे
ममापि किमाच्छाद्यत इति सासूयम् । आहेति शेषः । सावज्ञमित्यव्ययं प्रणयक्रोधे ।
त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं स्त्रीगानशून्यम् । 'स्त्रीणां रहोप्रविष्टानां
गानं संगीतकं मतम्' इति वचनात् । नर्तितासि । यदि तस्य सहजविलासैस्त्वं
वञ्चितासि तर्हि त्वदीया अपि विलासाः स्वाभाविकास्तदुद्दीपिका एव । न त्वनुराग-
प्रभवा इति । प्रतिवन्दितः प्रकृतार्थनिर्धारणमेतत् ॥ मालती । इतःपरं गो-
पनाशक्तेः सलज्जम् । हुमिति प्रश्ने । ततस्ततः वक्तव्यशेषं ब्रूहीत्यर्थः । लव-
ङ्गिका । ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्माधवे मन्दारि-
कागृहमुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतं न्यासीकृतमासीत् ॥
मालती । किंनिमित्तम् ॥ लवङ्गिका । तां खलु माधवानुचरः कलहंसकः
कामयते । सा तस्य दर्शयिष्यतीति हेतोस्तस्या हस्ते दत्तमासीदित्यर्थः । ततो
मन्दारिका प्रियनिवेदिका संवृत्ता ॥ मालती । स्वगतम् । नूनं तेनापि कलहंस-

५४ मालतीमाधवे
एदं पडिच्छन्दं अत्तणो पहुणो दंसिदं भविस्सदि । (प्रकाशम् ।)
सहि, किं दाणीं दे पिअं ।
लवङ्गिका—ऐदं क्खु संदाविदस्स तुह संदावआरिणो दुल्ल-
हमणोरहावेसदूसहाआसदज्जन्तचित्तस्स खणमेत्तणिवावइत्तं तुह
पडिच्छन्दं । (इति चित्रं दर्शयति ।)
मालती—(सहर्षोच्छ्वासं चिरं निर्वर्ण्य ।) अह्मो, दाणीं वि हिअ-
अस्स मे अणासासो । जेण एदं वि आसासणं विप्पलम्भोत्ति
संभावीअदि कहं अक्खराईं पि । ('जगति जयिनः' इत्यादि पठति ।
सानन्दम् ।) महाभाअ, सरिसं क्खु दे णिम्माणस्स वअणमहुरदाए ।
दंसणं उण तक्कालमणोहारि परिणामदीहसंदावदारुणं अ । घण्णाओ
१. एतत्खलु संतापितस्य तव संतापकारिणो दुर्लभमनोरथावेशदुःसहा-
यासदह्यमानचित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छन्दकम् ।
२. अहो, इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वासनं विप्रलम्भ
इति संभाव्यते कथमक्षराण्यपि । महाभाग, सदृशं खलु ते निर्माणस्य वच-
नमधुरतया । दर्शनं पुनस्तत्कालमनोहरं परिणामदीर्घसंतापदारुणं च । धन्याः
केनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भविष्यतीति । कथमन्धथा मन्दारिका-
प्रियनिवेदिका स्यादिति भावः । प्रकाशम् । सखि, किमिदानीं ते प्रियम् । यन्म-
न्दारिकाया निवेदितमित्यर्थः । लवङ्गिका । एतत्खलु संतापितस्य त्वदप्राप्त्या
संतप्यमानस्य तव संतापकारिणो दुर्लभे लभ्यैव विषये यो मनोरथावेशस्तेन
यो दुःसहायासस्तेन दह्यमानस्य चित्तस्य क्षणमात्रनिर्वापयितृकं तव प्रतिच्छ-
न्दकम् । ममेदानीं प्रियमिति शेषः । त्वया यथा तद्दर्शनमन्तरेण जीवितुमपारयन्त्या
चित्रदर्शनेनापि प्राणान्धारयितुं प्रतिच्छन्दकं लिखितं तेनाप्येवमेव त्वत्प्रतिकृति-
र्लिखितेत्येतदेव मे प्रियम् । अन्योन्यानुरागप्रकर्षस्य प्राप्तिबीजस्य निश्चयादिति
भावः । मालती । सहर्षोच्छ्वासम् । समाश्वासः प्रियस्य त्वत्सामत्यन्तानुराग-
निश्चयहेतोः । तल्लिखितात्मप्रतरूपस्य दर्शनात् । हर्षाश्वासौ 'मनःप्रसादो हर्षः
स्यादिष्टप्राप्तिस्तवादिनिः' इति लक्षणात् । क्वचित् 'सहर्षसाध्वसम्' इति पाठः ।
तत्र कुमारीजनानुचितपरपुरुषानुरागप्रत्यायकमेतत्कस्य वा बन्धुजनस्य दृष्टिपथं
गच्छेदिति साध्वसहेतुः । अहो इदानीमपि हृदयस्य मेऽनाश्वासः । येनेदमप्याश्वा-
सनं विप्रलम्भ इति संभाव्यते । कथमक्षराण्यपि । दृश्यन्त इति शेषः । जगतीति
विवृतं प्राक् । सानन्दमिति । श्लोकार्थानुसंधानमानन्दहेतुः । महाभाग, सदृशं खलु
निर्माणस्य वचनमधुरतया । निर्माणे वचने च तुल्यैव मधुरतेत्यर्थः । दर्शनं पु-

सहत्वाद्सद्यो" -> wait, is it "अतिदुःसहत्वाद्सद्यो" or "अतिदुःसहत्वात्सद्यो"?
Look at the letter: 'त्' + 'स' = 'त्स' (त्सद्यो): "अतिदुःसहत्वात्सद्यो"!
Wait, look at 'त्सद्यो':
'त्' on top, 'स' below? Or 'द्' + 'स'? Sanskrit sandhi: -tvāt + sadyo = -tvātsadyo.
Looking at the image: 'त्वा' then 'त्सद्यो' (half ta attached to sa). Yes, "अतिदुःसहत्वात्सद्यो विपत्तिशङ्कया".

Line 34:
"सास्रत्वम्। संस्कृतमाश्रित्येति। यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु"
Wait, is there a quote mark or dash?
"यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु"
Look closely:
"यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु"
Yes, a dash and single open quote: "यदाहुः—‘वेश्यानामप्सरसामन्तःपुरिकासु".

Let's do a final check of line numbers and content.
Total lines:
L1: द्वितीयोऽङ्कः। ५५
L2: क्खु

५६ मालतीमाधवे
मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ १ ॥
लवङ्गिका—ऐव्वं एदं । पच्चक्खसोक्खदाइणो परोक्खदुक्ख-
दूसहा सज्जणसमाअमा होन्ति । अवि अ पिअसहि, जस्स वादा-
अणन्तरमुहुत्तदंसणेण वि सुसमिद्धहुदवहाअन्तपुण्णचन्दोदया णिक्-
करुणाम्वावारसंसइदजीविदा दे सरीरावत्था, तस्स एव्व संपदं
सविसेसदंसणादो अज्ज संतप्पसि त्ति किं एत्थ भणिदव्वम् । ता
१. एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःखदुःसहाः सज्जनस-
मागमा भवन्ति । अपि च प्रियसखि, यस्य वातायानन्तरमुहूर्तदर्शनेनापि
सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते
शरीरावस्था, तस्यैव सांप्रतं सविशेषदर्शनादद्य संतप्यस इति किमत्र भणि-
चान्यमहिषीणाम् । संस्कृतमपि योग्यं स्यात्प्रस्तावेनागतं किंचित् ॥' इति ॥ माल-
त्याश्चान्तःपुरिकात्वान्तःपातः । अत एव भर्तृदारिकाव्यवहारोऽपि । मनोरोग
इति । विषमिवाविरतमनवरतं विसर्पन्सर्वधातुषु व्याप्नुवन् । प्रमाथी तीव्रः सद्यो
विपत्तिकृत् । अयं मान्मथो मनोरोगो मन्मथव्यथालक्षणो व्याधिः । निर्धूमं धू-
मरहितं यथा विधुतः संधुक्षितः पावक इव ज्वलति । तथा गरीयान्संनिपातिको
ज्वर इव प्रत्यङ्गं सर्वेष्वप्यवयवेष्वित इतोऽन्तर्बहिश्च हिनस्ति पीडयति । ततो मां
दुस्तरादसाध्यसन्त्रातुं तातोऽपत्यस्नेहपरवशोऽपि तावन्नरपतिमनोरञ्जनप्रवण-
त्वात्र प्रभवति । पुमपत्येष्वाधिकत्वाद्रात्सल्यस्य पितुः कन्यकाजने माता निरति-
शयप्रेमनिग्नहृदया यद्यपि भवति तथाप्यम्बा भर्तृपराधीना न मां रक्षितुं समर्था ।
जनन्यपेक्षयापि सहपांसुक्रीडनादिभिः समदुःखसुखाः स्वमनोनिर्विशेषाः सख्य-
स्थापि भवती मद्विषयेऽस्वतन्त्रत्वात्र रक्षणक्षमा । किं तु यदि रक्षणे समर्थः
स्यात्स एवैकोऽमृतसंजीवनौषधिरिव माधवः । स च मम दुर्लभ एवेति मरणमे-
वेदानीं शरणम्, नान्यत्किंचिदित्यर्थः । विषज्वलनज्वराख्योपमानत्रयोपादानं नैके-
नायमुपमातुं शक्यत इत्यतिशयसूचनार्थम् । संज्वरोन्मादौ चानेनोक्तौ । तल्लक्षणं
प्रागेवोक्तम् ॥ १ ॥ लवङ्गिका । एवमेतत् । प्रत्यक्षसौख्यदायिनः परोक्षदुःख-
दुःसहाः सज्जनसमागमा भवन्ति । नेदमाश्चर्यं यदत्र संतापः । कुत इत्यत्र हेतु-
माह—अपि चेति । प्रियसखीति । यस्य वातायानन्तरमुहूर्तदर्शनेनापि
सुसमिद्धहुतवहायमानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंशयितजीविता ते श-
रीरावस्था । भवतीति शेषः । तस्यैव सांप्रतं सविशेषदर्शनेनाद्य संतप्यस इति
किमत्र भणितव्यम् । तदत्र प्रियसखि, श्लाघनीयं दुर्लभविषये यो मनोरथस्तस्य