मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 59, कुल 377 में से
संदर्भ में पढ़ेंद्वितीयेाऽङ्कः । ५३
लवङ्गिका—(विहस्य सासूयमिव ।) तुमं वि सहावेण एव्व तस्सिं
अवसरे असंगीदं णत्तिदासि ।
मालती—(सलज्जं विहस्य ।) हूँ, तदो तदो ।
लवङ्गिका—तदो पडिणिउत्तमाणजत्ताजणसंकुलेण अन्तरिदे
तस्सिं मन्दारिआघरं उवगदह्नि । ताए चित्तफलं पहादे हत्थी-
किदं आसी ।
मालती—किंणिमित्तं ।
लवङ्गिका—तं क्खु माहवाणुअरो कलहंसओ कामेदि ।
सा तस्स दंसइस्सिदित्ति । तदो पिअणिवेदिआ मन्दारिआ संवृत्ता ।
मालती—(स्वगतम् । सानन्दम् ।) णू्र्णं देण वि कलहंसएण
१. त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं नर्तितासि ।
२. हुं, ततस्ततः ।
३. ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्मन्दारिकागृह-
मुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतमासीत् ।
४. किंनिमित्तम् ।
५. तां खलु माधवानुचरः कलहंसकः कामयते । सा तस्य दर्शयिष्य-
तीति । ततः प्रियनिवेदिका मन्दारिका संवृत्ता ।
६. नूनं तेनापि कलहंसकेनैतत्प्रतिच्छन्दकमात्मनः प्रभोर्दर्शितं भवि-
ष्यति । सखि, किमिदानीं ते प्रियम् ।
लवङ्गिका । निश्चित्यापि भावगुप्तये केवलमियं संदिग्ध इति विहस्य निश्चितेऽप्यर्थे
ममापि किमाच्छाद्यत इति सासूयम् । आहेति शेषः । सावज्ञमित्यव्ययं प्रणयक्रोधे ।
त्वमपि स्वभावेनैव तस्मिन्नवसरेऽसंगीतकं स्त्रीगानशून्यम् । 'स्त्रीणां रहोप्रविष्टानां
गानं संगीतकं मतम्' इति वचनात् । नर्तितासि । यदि तस्य सहजविलासैस्त्वं
वञ्चितासि तर्हि त्वदीया अपि विलासाः स्वाभाविकास्तदुद्दीपिका एव । न त्वनुराग-
प्रभवा इति । प्रतिवन्दितः प्रकृतार्थनिर्धारणमेतत् ॥ मालती । इतःपरं गो-
पनाशक्तेः सलज्जम् । हुमिति प्रश्ने । ततस्ततः वक्तव्यशेषं ब्रूहीत्यर्थः । लव-
ङ्गिका । ततः प्रतिनिवर्तमानयात्राजनसंकुलेनान्तरिते तस्मिन्माधवे मन्दारि-
कागृहमुपगतास्मि । तस्याश्चित्रफलं प्रभाते हस्तीकृतं न्यासीकृतमासीत् ॥
मालती । किंनिमित्तम् ॥ लवङ्गिका । तां खलु माधवानुचरः कलहंसकः
कामयते । सा तस्य दर्शयिष्यतीति हेतोस्तस्या हस्ते दत्तमासीदित्यर्थः । ततो
मन्दारिका प्रियनिवेदिका संवृत्ता ॥ मालती । स्वगतम् । नूनं तेनापि कलहंस-