मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 57, कुल 377 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । ५१
मालती—सँहि, तदो तदो ।
लवङ्गिका—तँदो तेण महाणुहावेण उवणीदा इमं वउल-
माला (इत्यर्पयति ।)
मालती—(मालां गृहीत्वा सहर्षं निर्वर्ण्य ।) सँहि, एक्कपासविसम-
पडिबद्धा इअं विरअणा ।
लवङ्गिका—एँत्थ अरमणिज्जत्तणे तुमं एवं अवरद्धासि ।
मालती—कँहं विअ ।
लवङ्गिका—जेँण सो दुब्बासामलङ्गो तह विहत्थीकिदो ।
मालती—सँहे लवङ्गिए, सबहा आसासणसीलासि ।
लवङ्गिका—सँहि, एत्थ का आसासणसीलदा । णं भणामि ।
१. सखि ततस्ततः ।
२. ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ।
३. सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ।
४. अत्रारमणीयत्वे त्वमेवापराद्धासि ।
५. कथमिव ।
६. येन स दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः ।
७. सखि लवङ्गिके, सर्वथाश्वासनशीलासि ।
८. सखि, अत्र काश्वासनशीलता । ननु भणामि सोऽपि प्रिय-
'मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा' इत्युक्तलक्षणात् इत्यलं प्रपञ्चेन ॥ मा-
लती । सखि, ततस्ततः । मदनोद्याने ऽविलम्बं माधवसमीपगमनं चतुरवचनै-
र्बकुलदामप्रार्थनं चेत्येतावदुक्तवतीं लवङ्गिकां प्रत्युपरितनवृत्तान्तश्रवणकौतुको-
त्कर्षात्ससंभ्रमप्रश्नः । आदरसूचनार्था वीप्सा । अनन्तरवृत्तान्तं कथयेति शेषः ॥
लवङ्गिका । ततस्तेन महानुभावेनोपनीतेयं बकुलमाला ॥ मालती । निर्वर्ण्य
सादरं विलोक्य । सखि, एकपार्श्वविषमप्रतिबद्धेयं विरचना ॥ लवङ्गिका ।
अत्रारमणीयत्वे त्वमेवापराद्धासि । मालती । कथमिव । माधवकर्तृकायाः स्रग्वि-
रचनाया एकपार्श्ववैषम्ये कथमहं निमित्तं भवामीत्यर्थः । लवङ्गिका । येन स
दूर्वाश्यामलाङ्गस्तथा विहस्तीकृतः । वस्तुतो ग्रथनक्रियाया विकलहस्तः कृतः ।
त्वमेव स्वसौन्दर्यसंपदा गम्भीरमपि तन्मनः समाकर्षन्ती प्रस्तुतक्रियाविकलहस्तं
कृतवती । तत इदं विरचनावैषम्यं जातमिति भावः ॥ मालती । सखि लव-
ङ्गिके, सर्वथाश्वासनशीलासि । मत्समाश्रासनाय केवलमिदं त्वयोच्यते । तस्य
मय्यनुरागोऽसंभावित इति भावः ॥ लवङ्गिका । सखि, कात्राश्वासनशी-
६ मालतीमा०