मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 45, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ३९
मकरन्दः—वयस्य, मालत्या अपि स्नेहदर्शनात्सुश्लिष्टमेतत् ।
यो हि कपोलपाण्डुतादिचिह्नः सूचितः प्रागनुरागस्तस्याः कामाभि-
षङ्गः सोऽपि त्वन्निबन्धन इति व्यक्तमेतत् । एतत्तु न ज्ञायते क
दृष्टपूर्वस्तस्या वयस्य इति । न खलु तादृश्यो महाभागधेयजन्मा-
नोऽन्यत्रासक्तचेतसो भूत्वा परत्र चक्षूरागिण्यो भवन्ति । अपि च ।
अन्योन्यसंभिन्नदृशां सखीनां
तस्यास्त्वयि प्रागनुरागचिह्नम् ।
कस्यापि कोऽपीति निवेदितं च
माधवः—किं चान्यत् ।
मकरन्दः—
धात्रेयिकायाश्चतुरं वचश्च ॥ ३६ ॥
रागमात्मन्यप्रत्ययादाशङ्कमानं लिङ्गैर्दृढं कृत्वा तन्मनोऽवस्थापयितुमाह—मक-
रन्दः—वयस्येति । तस्या अपि त्वद्वचनात्त्वय्यनुरागप्रतीतेरेतत्कार्यं साधु
संघटितमित्यर्थः । न च मम दर्शनात्पूर्वमेव सा कपोलपाण्डिमाद्युपेता वर्तते, तेन
मदन्यस्मिन्नेव कापि यूनि प्रागवलोकिते बद्धभावेयं न तु मयीत्याशङ्कनीयम् ।
यतस्त्वमेव कुत्रचित्पूर्वं दृष्टस्तस्याश्चिरादनुबध्यमानस्य मन्मथविकाराभिनिवेशस्य
हेतुः । किं तु क्व वा तया प्रागवलोकितोऽभूरित्येतावदेव ज्ञातव्यमित्याह—यो
हीत्यादिना । अहमेव तत्र हेतुरिति कुतोऽवधारणमित्यत आह—न ख-
ल्विति । तादृश्यः प्रशस्तकुलशीलगुणगणोज्ज्वला महाभागधेयजन्मानः प्रकृष्टसु-
चरितपरिपाकलब्धजनुषः । चक्षूरागश्चक्षुःप्रीतिरासामस्तीति तथा । यथा-
‘कुलीना गुणवत्यश्च कुमार्यो भाग्यभूषणाः । ईदृशास्त्वयशोदोषभाजनं नैव जातु-
चित् ॥ यदन्यासक्तचित्ता सा न चक्षुस्त्वयि पातयेत् । मनोऽन्यत्र दृगन्यत्र
चेतीनां नोत्तमस्त्रियाः ॥’ इति भावः । अन्यदपि त्वयि पूर्वानुरागे लिङ्गमस्ती-
त्याह—अपि चेति । अन्योन्येति । अन्योन्यसंभिन्नदृशां सप्रत्यभिज्ञं स
एवायमिति निर्धारयितुं परस्परमुखावलोकनेन संमिश्रदृष्टीनां तस्याः सखीनां क-
स्यापि जनस्य कोऽपि दयित इहैव वर्तत इत्येवंरूपं निवेदितम् । स्वसख्यै प्र-
ज्ञापनं चैकं तस्यास्त्वय्येवासौ पाण्डिमादिसूचितः प्रागनुराग इत्यास्मिन्नर्थे चिह्नं
लिङ्गमित्यर्थः ॥ अथ माधवः स्वनिर्धारितं लिङ्गान्तरं लवङ्गिकाश्लिष्टवचनरूपमसा-
वुद्भावयिष्यति वा न वेत्यौत्सुक्यात्तद्वचनावसरप्रतीक्षणमसहमानः कस्यापि को-
ऽपीति निवेदितं चेति चशब्देन किमन्यत्समुच्चिनोषीति पृच्छति—माधवः—
किं चेति । चकारः किमन्यत्प्रागनुरागलिङ्गं द्योतयतीत्यर्थः ॥ मकरन्दः—
धात्रेयिकाया इति । चतुरं छिद्द्रम् । प्रागनुरागचिह्नमिति शेषः ॥ ३६ ॥
५ माल०