मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 49, कुल 377 में से
संदर्भ में पढ़ेंद्धोसि । (सलज्जम् ।) कहं दे वि महाणुहावा एत्थ एव्व । (उपसृत्य ।)
पणमामि ।
उभौ—मन्दारिके, इत आगम्यताम् ।
मन्दारिका—केलहंसक, उवणेहि चित्तफलअं ।
कलहंसः—गिण्हे इमं ।
मन्दारिका—केनँ किंणिमित्तं वा एत्थ मालदी अहिलिहिदा ।
कलहंसः—जो एव जंणिमित्तं मालदीए ।
मन्दारिका—(सहर्षम् ।) दिट्ठिआ उवदंसिदफलं विण्णाणं
पआवइणो ।
मकरन्दः—सखि मन्दारिके, यदत्र वस्तुन्येष ते वल्लभः
कथयति, अपि तत्तथा ।
मन्दारिका—महाभाअ, तत्तहा ।
मकरन्दः—क्व पुनर्मांलती माधवं प्राग्दृष्टवती ।
१. कलहंसक, उपनय चित्रफलकम् ।
२. गृहाणेदम् ।
३. केन किंनिमित्तं वात्र मालत्यभिलिखिता ।
४. य एव यन्निमित्तं मालत्या ।
५. दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः ।
६. महाभाग, तत्तथा ।
चोरो हि पदन्यासलिङ्गानुसरणेनैव गृह्यते । सलज्जामिति । तत्स्वामिसं-
निधौ तेन सहोपहसनानौचित्यात् । कथं तावपि महानुभावावत्रैव ॥ इत आ-
गम्यतामित्यादरोक्तिः । तस्याः समनन्तरकार्योपयोगात्तदनुनयार्थम् ॥ मन्दा-
रिका । कलहंसक, उपनय चित्रफलकम् ॥ कलहंसः । गृहाणेदम् ॥ मन्दा-
रिका । कलहंसकं प्रति । केन किंनिमित्तं वात्र मालत्यभिलिखिता ॥
कलहंसः । य एव यन्निमित्तं च मालत्या लिखितो माधवस्तेनैव तद-
र्थमेवोत्कण्ठाविनोदार्थमेव मालती लिखितेत्यर्थः । मन्दारिका—सहर्ष-
मिति । कामन्दकीपरिजनस्यास्मदाद्दर्श्यव्यापारः फलोन्मुख इति हर्षहेतुः ।
दिष्ट्या उपदर्शितफलं विज्ञानं प्रजापतेः । ईदृशयुवद्वयनिर्माणं विधातुः शिल्पकौ-
शलमनयोरन्योन्यानुरागप्रकर्षेण दर्शितफलं जातम् । परिणयरूपा परिणतिरेवैतः
परमवशिष्टेति भावः ॥ मकरन्दः । अत्र प्रतिच्छन्दकरूपे वस्तुनि यदेष ते पतिः
कथयति मालत्या लिखितमुत्कण्ठाविनोदनायेति । अपि प्रश्ने । किं तत्तथा सत्य-
मित्यर्थः ॥ मन्दारिका । महाभाग, तत्तथा ॥ मकरन्दः—केति । येन