सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

१२६ मालतीमाधवे
ल्लावारे भअवदि कामन्दइ, चिरस्स जाणाविदासि दुक्खं सिणेहेण ।
हा पिअसहि लवङ्गिए, सिविणअवसरमेत्तदंसणा अहं दे संवुत्ता ।
माधवः—हन्त, संप्रति निरस्त एव मे संदेहः । तदपि नाम
जीवन्तीमेनां संभावयेयमिति । (झटिति परिक्रामति ।)
कापालिकौ—देवि चामुण्डे भगवति, नमस्ते ।
सावष्टम्भनिशुम्भसंभ्रमनमद्भूगोलनिष्पीडन-
न्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थितिः ।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं
वन्दे नन्दितनीलकण्ठपरिषद्यक्तं तव क्रीडितम् ॥ २२ ॥
ज्ञापितासि दुःखं स्नेहेन । हा प्रियसखि लवङ्गिके, स्वप्नावसरमात्रदर्शनाहं
ते संवृत्ता ।
तस्य माधवमल्लभमानाया मम संमतत्वादिति भावः । हा मालतीमयजीविते मम
कल्याणसाधनैकसुखसकलव्यापारे । मत्परिणयनिष्पादनमेवैकं सुखं साध्यत्वेन
फलं यस्य स तादृशः सकलो व्यापारो यस्या इति विग्रहः । भगवति कामन्दकि,
चिरस्य ज्ञापितासि दुःखं स्नेहेन । मयि स्नेह एव तव दुःखहेतुर्जात इत्यर्थः ।
हा प्रियसखि लवङ्गिके, स्वप्नदर्शनमात्रांहं ते संवृत्ता । माधवः । हन्तेति
खेदे । सत्यं प्रियतमैव बधार्थमानीता केनचिदिति मज्जीविततरोर्मूले कुठारोऽन-
र्थाय व्यापारित इति भावः । 'हन्तेति हर्षे' इति व्याख्यानमसंगतम् । जीवित-
सर्वस्वभूतायास्तस्या वध्यशूलारोपणसमये कोऽत्र हर्षस्यावकाशः । न च प्रिया
मया मोचयिष्यत इति निश्चयस्तु तदानीमस्ति जीवनस्यैव संदिग्धत्वादत
एवाह—अपि नाम जीवन्तीं संभावयेयमिति । सर्वथा तन्मरणेनापि ममापि
प्राणत्यागो निश्चितः । तथापि जीवन्तीमेव तां संदर्शनसंभाषणरक्षणप्रयत्नव्या-
पारैर्यदि संभावयामि तदा जीवितसाफल्यं स्यादित्याशंसा । अपि नामेति निपा-
ताभ्यामपि संभावनातौत्सुक्यं द्योत्यते । यच्चात्र निपातसमुदायस्यावधारणपरत्व-
मुक्त्वा जीवन्तीमेवैनां संभावयेयमिति जीवन्त्येव वर्तत इति व्याख्यानम्,
तदपि प्रकृताननुगुणत्वा...हेयम् । नहीदानीमपि तस्या जीवनं निश्चितं तन्निश्चये
वा संभावयेयमित्याशंसायां लिङ्शब्दः कथं घटत इत्यलम् ॥ कापालिकौ ।
कपालकुण्डलाघोरघण्टौ । 'पुमान्स्त्रिया' इत्येकशेषः । देवीत्यादि । रक्षोपहारं
पुरतः संनिधाप्य स्तुतिनमस्कारपूर्वकं निवेदयेदिति देव्याः स्तुतिः क्रियते—
सावष्टम्भेति । सावष्टम्भः सावलेपो यो निशुम्भः पादघातलक्षणपरिभवस्त-
त्संभ्रमेण । 'निशुम्भनिर्भर—' इति पाठे निशुम्भेन निर्भरमतिमात्रं नमद्यद्भूगोलं भुवः
संस्थानं तेन यन्निष्पीडनमत्तिभारत्वेन दुर्वहतया बहनशक्त्यवसादनं तेन न्यञ्च-
न्नवनमन्कर्परः पृष्ठास्थिकटाहो यस्य तादृशस्य कूर्मस्य पृष्ठाद्विगलन्ती तत्कम्पेन
स्रंसमाना ब्रह्माण्डखण्डस्य स्थितिर्यस्मिन्क्रीडिते तत्तथा । पातालस्य प्रतिमल्लयोः

अपि च ।
प्रचलितकरिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिष्यन्दमानामृत-
श्च्योतजीवत्कपालावलीमुक्तचण्डाट्टहासत्रसद्भूरिभूतप्रवृत्तस्तुति ।
श्वसदसितभुजङ्गभोगाङ्गदग्रन्थिनिष्पीडनोत्फुल्लफुल्लत्फणापीठनि-
र्यद्विषज्योतिरुज्जृम्भणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्मा-
धरम् ॥
ज्वलदनलपिशङ्गनेत्रच्छटाभारभीमोत्तमाङ्गाभ्रमिप्रस्तुतालातचक्र-
क्रियास्यूतदिग्भागमुत्तुङ्गखद्वाङ्गशृङ्गध्वजोद्धूतिविक्षिप्ततारागणम् ।
प्रमुदितकटपूतनोत्तालवेतालतालस्फुटकर्णसंभ्रान्तगौरीघना-
श्लेषहृष्यन्मनस्त्र्यम्बकानन्दि वस्ताण्डवं देवि भूयादरिष्ट्यै च हृष्ट्यै
च नः ॥ २३ ॥ (इत्यभिनयतः ।)
प्रतिभटयोः । अधोभुवनकुहरसदृशयोरित्य

: १३८ मालतीमाधवे
माधवः — (विलोक्य ।) हा धिक् प्रमादम् ।
न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः
पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् ।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते
हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥
कपालकुण्डला—
तं भद्दे सर दयितोऽत्र यस्तवभू-
दद्य त्वां त्वरयति दारुणः कृतान्तः ।
मालती— हा देव माहव, परलोअगदो वि तुब्भेहिं सुमरि-
दव्वो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि ।
१. हा देव माधव, परलोकगतोऽपि युष्माभिः स्मर्तव्योऽयं जनः ।
न खलु स उपरतो यस्य वल्लभः स्मरति ।
तथोत्तुङ्गस्य खट्वाङ्गस्य शिखरमेव ध्वजस्तस्योद्धूतिमिरुदूनेनैर्नििक्षिप्ता विशीर्णा-
स्तारगणा यत्र तत् । तथा प्रमुदितानां कटपूतनानां पिशाचविशेषाणामुत्तालानां
प्रचण्डानां वेतालानां मेतालानां च तालैः करतलद्वयास्फालनैः स्फुटत्कर्णा
विदलच्छ्रवणकुहरा अत एव संभ्रान्ता या गौरी तस्या घनाश्लेषेण गाढालिङ्गनेन
हृष्यन्मनसस्त्र्यम्बकस्यानन्दोऽत्रास्तीति तत्तादृशमिति दण्डकः । 'नौ रः' इति
वचनात् ॥ २३ ॥ माधवः । मालतीमेव वधार्थमानीतां दृष्ट्वा हा धिगिति ।
प्रमादं पित्रोः कामन्दक्यादीनां चानवधानतां धिक् । यदियमनेन नृशंसेन
कैरप्यनालक्षिता वधार्थमानीता वध्यवेषभूषिता चेति भावः । तदेवाह—न्य-
स्तेति । न्यस्तमनुलिसमलक्तकं यस्याः सा चासौ रक्तमाल्यवसना च पापानां
पापकारिणामारम्भो मारणं कर्मानयोरस्तीति तद्वतोः । पाषण्डौ बौद्धावेव
चण्डालकर्मकारित्वात्तत्सहकारित्वाच्च । तयोः । 'पुमान्स्त्रिया' इत्येकशेषः ।
वृकयोर्व्याघ्रादिक्रूरसत्त्वयोर्मृगी हरिणीव गोचरं विषयं गता । भीरुः स्वभावेनैव ।
वसोर्दिवाष्टवसुष्वन्यतमसदृशस्य । यद्वा वसोमेरिव पराक्रमसंपन्नस्य देवतुल्य-
स्यापि भूरिवसोरमात्यस्य सुता मृत्योर्मुखे वर्तते । हा खेदे । धिगिति । ममेतः
परं जीविताशामिति शेषः । कष्टमिदमनिष्टमापतितम् । अस्तकरुणः कृपाहीनो
विधेः प्रक्रम आरम्भः कोऽयम् । कथमत्यन्तानुचितमेवारब्धं दैवहतकेनेत्यर्थः ।
हा धिक्कष्टमनिष्टमिति पदानामतीवार्थभेदाभावेऽप्यनुकम्पातिशयद्योतनार्थत्वान्न
पौनरुक्त्यशङ्केति ध्येयम् । यदाह—'अनुकम्पातिशये यदि कश्चिन्निबध्यते । न
दोषः पुनरुक्त्यादौ प्रत्युतेयमलंक्रिया ॥' इति ॥ २४ ॥ कपालकुण्डला—
तं भद्र इति । अत्र मरणसमये यस्तव दयितोऽभीष्टो देवोऽभूत्तं स्मर ।
मरणदशायामिष्टदेवतास्मरणममुत्राम्युदयायेत्यागमः । अद्येति । मृत्युः संनि-
हित इत्यर्थः ॥ मालती । हा देव माधव, परलोकगतोऽपि स्मर्तव्योऽयं

पञ्चमोऽङ्कः । १२९
कपालकुण्डला—हन्त, माधवानुरक्तेऽयं तपस्विनी ।
अघोरघण्टः—(शस्त्रमुद्यम्य )
चामुण्डे भगवति मन्त्रसाधनादा-
वुद्दिष्टामुपनिहितां भजस्व पूजाम् ॥ २५ ॥
माधवः—(सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य ।) आः कापालि-
कापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि ।
मालती—(सहसावलोक्य ।) परित्ताअदु महाभाओ । (इति
माधवमालिङ्गति ।)
माधवः—महाभागे, न भेतव्यम् ।
मरणसमये त्यक्ताशङ्कं प्रलापनिर्गल-
प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते ।
सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः
फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ २६ ॥
१. परित्रायतां महाभागः ।
जनो युष्माभिः देवेत्यनेन त्वमेव ममेष्टदेवतारूपः । तन्मरणदशायामपि त्वा-
मेव स्मरिष्यामि । जन्मान्तरे वा त्वत्समागमो मे भूयादिति भावः । न खलु स उप-
रतो यस्य वल्लभो जनः स्मरति । यस्येतीयं कर्मणि षष्ठी । प्रियतमस्मृतिगोचरस्य
जनस्य निरन्तरं तन्मनसि स्थित्या नोपरतिरित्यर्थः ॥ हन्तेति विषादे । तपस्विन्य-
नुकम्पार्हा । इयं माधवेऽनुरक्ता सती । तदिदानीं सोऽत्रैव महामांसस्य विक्रयार्थं
पर्यटति । दैवादागत्य मोचयेद्वा तदा कष्टं मन्त्रसाधनप्रत्यूहः संभावित इति वि-
षादः ॥ 'तं भद्रे' इति श्लोकस्योत्तरार्धम्—चामुण्डे भगवतीति । मन्त्रसाधन-
स्याद्यावुपक्रमसमय उद्दिष्टं संकल्पितामिदानीं तत्पर्यवसान उपनिहितां समर्पितां
पूजां बलोपहारं भजस्वेति ॥ २५ ॥ माधवः । खड्गं कापालिकस्योद्यतं प्रको-
ष्ठेन मणिबन्धेन विक्षिप्यापसार्य । अपेह्यपसर । प्रतिहतोऽसि वैपरीत्येन त्वमेव
हतोसि । मालती । परित्रायतां महाभागः ॥ माधवः । मरणसमय
इति । त्यक्ताऽऽशङ्का यस्मिन्कर्मणि तत्तथा प्रलापेऽनर्थकवचोजल्पने इदानीमेवैनं
संहरिष्यामीत्येवंरूपे निर्गलो निष्प्रतिरोधः । महानुभावाः खलूपकारं कुर्वन्त्येव
न तु वचनपूर्वकं कुर्वन्तीति वचनस्यानर्थक्यम् । यद्यप्येवं करिष्यामीति न वक्तव्यं
केवलं कर्तव्यमेव, तथापीदृश्यां दुर्दशायां प्रियायाः प्राणत्राणेन मज्जन्मनोऽतीव
साफल्यमासादितमिति हर्षभरवशेन मनस्यवधारितलाघवशङ्कामपि विसृज्यान-
र्थकमेव किंचित्प्रलपितमिति भावः । तथा प्रकटितो निजः सहजः स्नेहो येन सोऽयं
ते सखा पुरत एव वर्तते । अतः सुतनु उत्कम्पं भयनिमित्तं वेपथुं विसृज

येथे दिलेले पृष्ठ संस्कृत नाटक मालतीमाधव चे आहे. खालीलप्रमाणे त्याचे ओळ-दर-ओळ संपूर्ण लिप्यंतरण आहे:

१३० मालतीमाधवे
अघोरघण्टः—आः, क एष पापोऽस्माकमन्तरायः संवृत्तः ।
कपालकुण्डला—भगवन्, स एवास्याः स्नेहभूमिः कामन्दकी-
सुहृत्पुत्रो महामांसस्य पणयिता माधवः ।
माधवः—(सास्रम् ।) महाभागे किमेतत् ।
मालती—(चिरादाश्वस्य ।) महाभाज, अहं वि ण आणामि
एत्तिअं जाणामि । उवरिअलिन्दं एव पसुत्ता इह पडिबुद्धास्मि ।
तुम्हे उण कहिं ।
माधवः—(सलज्जम् ।)
त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा
भूयासमित्यभिनिवेशकदर्थ्यमानः ।
भ्राम्यन्मांसपणनाय परेतभूमा-
वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ २७ ॥
१

पञ्चमोऽङ्कः। १३१
मालती—(अपवार्य १) कहं मम कारणादो एव्व एदं अप्पाणि-
रपेक्खं परिक्कमन्दि।
माधवः—अहो नु खलु भोः, तदेतत्काकतालीयं नाम।
संप्रति हि
राहेश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे
दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
१. कथं मम कारणादेवैत आत्मनिरपेक्षं परिक्रामन्ति।
मनुष्यजातिवाचित्वम् । संज्ञायामिति वा ङह्प्रत्ययः ॥ २७ ॥ मालती—
अपवार्येति । 'अपवारितकं कार्यं त्रिपताकेन पाणिना' इत्युक्तव्रीडाहर्षातिशय-
गोपनात्मकस्य व्यभिचारिणोऽनुभावोऽपवारणम् । कथं मम कारणादेवैत आत्मनि-
रपेक्षं परिक्रामन्ति । मम स्त्रीमात्रस्यैव कृते महत्कार्यमुद्दिश्य कर्तुमात्मनिरपेक्ष-
मेतत्कर्म कथमनेनारब्धम् । तदत्राहमेवापराधिनो या साहसेनापि नैनं समागते-
त्यहो मे दारुणं चित्तमिति भावः । माधवः । अहो नु खलु भोः । एतद्व्याख्यातं
प्राक् । तदेतदिति । तदेतत्प्रियाया दर्शनं काकतालीयं नाम । दैवात्काकागमन-
समये तालफलपतनसदृशमित्यर्थः । स्वरूपसिद्धिस्तु 'इवे प्रतिकृतौ' इतीवार्थप्रकरणे
'कुशाग्राच्छः' इत्यतश्छ इत्यनुवर्तमाने 'समासाच्च तद्विषयात्' इति तच्छब्देने-
वार्थः परामृश्यते । इवार्थविषयात्समासादिवाऽर्थे छो भवतीति सूत्रार्थः । ननु स-
मासेनेव तद्विषयेणेवार्थोभिधानात्किं प्रत्ययेनेति चेन्मैवम् । समासविषयादिवाऽर्था-
दन्यस्मिन्निवार्थे प्रत्ययोत्पत्तिः । तथा हि यादृच्छिकं काकागमनं तालपतनं च ।
तेन पतता तालेन काकवधः कृतः । माधवस्य यदृच्छया तत्रागमनम्, मालत्या
अपि तत्र तथैवागमनं च काकागमनतालपतनमिवेति विगृह्यात्सादेव वचना
ज्ज्ञापकात्समासः । वृत्तिविषये च काकतालशब्दावागमनपतनक्रियावाचिनौ
भवतः । ततः काकतालशब्दात्पतता तालफलेन काकवधसदृशं यदृच्छागतेन
माधवेन कापालिकं हत्वा प्रियारक्षणमस्मिन्निवार्थे च्छः । काकतालीयमिवातर्कि-
तोपनतं चित्रकरणमिति शब्दार्थः । सुप्सुपेति समासः । अन्यस्य विशेषवि-
धानस्य चाभावास्य चैवंविधा गतिरनेकविषयत्वादित्यलम् । संप्रतीत्युपस्कारः ।
राहोरिति । राहोरानने चरतीत्याननचरी । ताम् । तन्मुखागतामित्यर्थः ।
'चरेष्टः' इत्यधिकरण उपपदे टप्रत्ययः । टित्त्वान्डीप् । तादृशीं चन्द्रकलामिव
प्रेयसीम् । प्रियशब्दात् 'द्विवचनविभज्योपपदे तरबीयसुनौ' इतीयसुन् । तस्मि-
न्परतः 'प्रियस्थिर-' इत्यादिना प्रियशब्दस्य प्रैत्यादेशः । 'उगितश्च' इति ङीप् ।
दैवाद्यदृच्छया समासाद्य प्राप्य दस्योरश्वोरख्यास्य कापालिकापसदस्य कृपाणपात-
विषयात्तत्खङ्गपतनगोचरादाच्छिन्दतः प्रसद्यापहरतो मे मम चेत आह्लादकत्व-
मियं राहोरिवातिक्रूरस्य दस्योः कृपाणपातविषयमिन्दुकलेव सौकुमार्यातिशय-

११२ मालतीमाधवे
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया-
त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते ॥ २८ ॥
शालिनी प्रियतमा प्राप्ता । यदि मम क्षणमात्रमितः परं विलम्बोऽभविष्यत्,
महfilter/अनर्थ आपत्स्यत इत्येवंरूपाद्भयानक रसस्थायीभावात् । 'भयं चित्तस्य वैक्लव्यं
रौद्रसंज नितं विदुः' इत्युक्तलक्षणाद्भयाद्विकलमितिकर्तव्यतामूढम् । तथा करु-
णया क्षणव्यवधानेऽपि परासुरेवेयं तन्मृतेव पुनरुत्पन्नेवेयं प्रियायास्तादृगवस्था-
विभावनाजनितया करुणया शोकरसस्थायीभूतया द्रुतं विलीनम् । तथा विस्म-
यादहो दैवविलसितस्याचिन्त्यमहिमत्वं यदद्यैव महामांसविक्रयार्थमागमनं तत्रैव
काकतालीयन्यायेनेहागमनं प्रियासंप्राप्तिरिति महदिदं चित्रमित्येवंरूपादद्भुत-
रसस्थायिनः 'विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः' इत्युक्तलक्षणाद्विक्षोभितं
जनिताद्भुतरसम् । तथा क्रोधेन कथमयं पापकारी निरपराधिनीं त्रिभुवनरत्न-
भूतामिमामपीदानीं हन्तुं समुद्यतः, तस्मादवश्यमेष हन्तव्य इत्येवंरूपाद्रौ-
द्ररसस्थायिना 'प्रतिकूलेषु तैक्ष्ण्यस्य प्रकर्षः क्रोध इष्यते' इत्येवंलक्षणेन ज्वलितं
रौद्ररसेनोद्दीपिनम् । तथा मुदा मत्प्राणेभ्योऽपि गरीयसीं प्रियां परिरक्ष्य कृतार्थो
भवामीत्यादिबहुप्रकारया रत्या मनःप्रसादरूपया प्रधानशृङ्गाररसस्थायिन्या
विकसितं रसास्वादेन विस्तारमुपगतम् । कथं केन प्रकारेण वर्तते । कथंचिद्दे-
तादृशी दशास्येति निरूपयितुं न शक्यत इति भावः । अत्र च प्रबन्धप्रवृत्ता
माधवस्य मालतीगोचरा रतिः प्रेयसीमिति निर्दिनेनालम्बनविभावेन विभाव्यमाना
तदवलोकनादिभिरुद्दीपिता मनोविकासप्रियवचनतद्रक्षणव्यापारादिभिरनुभावैर्वा-
ङ्मनःशरीरारम्भरूपैरनुभाव्यमाना तद्दर्शनजनितैर्मदश्र महर्षचिन्तास्मृत्यादिभिर्व्य-
भिचारिभिरुपचिता रसतामापन्ना प्राधान्येन ध्वन्यते । तदङ्गतया तु राहोराननचरीं
चन्द्रकलामिवेत्युपमासूचितभीषणाकारकापालिकालम्बनस्तत्स्वरूपविभावनोद्दीपित
आतङ्कपदनिर्दिष्टभयस्थायी विकलपदसूचितमनोवैक्लव्यतदनुगुणशरीरवागारम्भा-
नुभावस्तन्नियत कम्पशङ्कानिर्वे दग्लानिजाड्यदीनतावेगविषादोन्मादचिन्तामोहादि-
भिर्व्यभिचारिभिः प्रतीयमानैरुपचितो भयानक रसः । तथा दस्योः कृपाणपा-
तविषयादिति सूचितमृतप्रायप्रियतमालम्बनस्तद्दुर्दशापरिभावनोद्दीपितः करुणयेति
निर्दिष्टः शोकस्थायीभावो द्रुतमिति निर्दिष्टचित्तद्रवीभावतदुचितशरीरवागारम्भा-
नुभवतन्नियताश्रुवैवर्ण्य वैस्वर्यजाड्यवेगमोहोन्मादविषादादिभिर्व्यभिचारिभिः प्र-
तीयमानैः परिपोषं गतः करुणरसश्च । तथा दैवादासाद्येति सूचितयादृच्छिकसमा-
गमालम्बनतद्धेतुविधिवैचित्र्यपरिशीलनोद्दीपितो विस्मयादिति निर्दिष्टोऽद्भुतस्थायी-
भावो विक्षोभितमिति मनोविक्षोभतदुचितशरीरवागारम्भानुभावस्तन्नियतस्तम्भ-
प्रलयस्वेदहर्षगर्वस्मृतिवितर्कविबोधचिन्तादिभिर्व्यभिचारिभिरुपचितोऽद्भुतरसश्च ।
तथाच्छिन्दत इति सूचितः प्रियावधोद्यतो हन्तव्य इत्यालम्बनस्तद्वीरात्मविम-
र्शनोद्दीपितो ज्वलितमिति मनोज्वलनतदुचितवागारम्भानुभावतन्नियतस्तम्भरो-
माञ्चस्वेदहर्षावेगभ्रमोन्मादमदहर्षचापल असूया श्रमामर्षादिभिर्व्यभिचारिभिः सर्वत्र
कथं वर्तत इत्यनेन सूचितैरुपचितो रौद्ररसश्चैते रसा अङ्गभावापत्तयैव दूरतो

अघोरघण्टः—अरे ब्राह्मणडिम्भ,
व्याघ्राघातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः
पाप प्राण्युपहारकेतनजुषः प्राप्तोऽसि मे गोचरम् ।
सोऽहं प्राग्भवतैव भूतजननीमृध्नोमि खड्गाहति-
व्यस्तस्कन्धकबन्ध रन्ध्ररुधिरप्राग्भारनिष्यन्दिना ॥ २९ ॥
माधवः—आः दुरात्मन्पाखण्डचण्डाल,
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् ।
निरस्तपरस्परविरोधाः प्रधानरसापेक्षयाऽविरोधाः । प्रधानरसपरिपोषापेक्षयान्यू-
नरसपरिपोषत्वेन श्लाघनीयौचित्यनिबन्धना व्यतिकराह्वयया शोभनाह्वयया च
मेलनगत्या शृङ्गारेण सह संकीर्त्यन्ते । यथाह—'समकालसमुत्पन्नैस्त्रिभिर्द्वाभ्या-
मथापि वा । रसैश्चेद्यतिकीर्येत समव्यतिकरः स्म

१४४ मालतीमाधवे
अदपं कंदर्पं जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥
व्यवसायक्रियायाः सर्वत्रान्वयात्क्रियादीपकं च वाच्यालंकारौ । चन्दनचामीक-
रादीनां न वस्तुतः सारत्वम्, किंतु पामरजनप्रसिद्धयैव । इयमेव सारभूतेत्यपह्नवः,
सर्वसारवस्तूपमानानि यानि तेभ्योऽपि सारभूतेयमेवेति व्यतिरेकश्च व्यङ्ग्याविति
सर्वत्र द्रष्टव्यम् । तथा त्रिभुवनं त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रा-
दिभ्यः प्रतिषेधो वक्तव्यः' इति वचनात् 'द्विगोः' इति ङीप् भवति । परिमुषितं
लुण्ठितं रत्नं यस्य तत्कर्तुम् । सत्स्वपि कौस्तुभकनकादिषु न ते रत्नवत्त्रिभुवनम् ।
न च तानि वस्तुनो रत्नानि । अविवेकिनां तु तत्र रत्नत्वव्यपदेशः समीचीनव-
स्तूपमानत्वप्रसिद्धिश्च । इयमेव त्रिभुवनस्य सकलरत्नातिशायिगुणशालिन्येकं
रत्नमिति निगीर्याध्यवसानम् । तां हन्तुं प्रवृत्तः रत्नशून्यमेव जगत्कर्तुं प्रवृत्तोऽसी-
त्यर्थः । अलंकारयोगः पूर्ववत् । तथा लोकं प्रमाणषट्कपथपथिकं प्रपंचं निरालोकं
प्रकाशशून्यं केवलमन्धकाराक्रान्तं कर्तुम् । न खलु सौरादिभिरालोकैः सालोकोयं
लोकः । तेषां जडरूपाणां प्रकाशान्तरप्रकाश्यत्वेनाभासत्वात् । अनयैव पुनरानन्दै-
करससंविन्मयप्रकाशात्मिकया त्रिभुवनभवनलोकोत्तररत्नप्रदीपकलिकया समुद्भा-
सितोऽयं ससूर्यचन्द्रादितेजस्को लोकः । तदिमां निर्वापयितुकामः जगदन्धं कर्तु-
कामोऽसीत्यर्थः । तथा बान्धवजनं सकलमपि बन्धुवर्गमेतदेकजीवितं मरणमेव
शरणमेतद्विपत्तिजनितशोकनिराकरणसमर्थं यस्य तत्तादृशं कर्तुम् । इदं चावान्तर-
वाक्यं सहचरभिन्नम् । इह हि महावाक्यरूपे श्लोकोऽसारं संसारमित्यादिभिर-
वान्तरवाक्यैर्मालत्याः सकललोकातिशायिलावण्यादिगुणशालित्वेन सर्वपदार्थो-
त्कर्षत्वं तदन्वयव्यतिरेकाभ्यामेव लोकस्योपादेयत्वान्वयव्यतिरेकौ चेत्येतावद्भङ्गि-
वैचित्र्येण प्रौढोक्तियुक्त्या च निरूप्यते । तत्र चानेन वाक्येन मालत्या उत्कर्षो
न प्रतिपाद्यते । बान्धवा हि काणकुब्जदुःशीलापत्यनाशेऽपि मरणशरणा भवन्ति
न च तदन्वयाल्लोकस्योपादेयता कदाचित् । नापि तद्व्यतिरेकादनुपादेयत्वम् ।
बहुतरश्रेष्ठवस्तुप्रचुरत्वादेव तदुपादानसिद्धेः । तत्तद्यावदुत्कर्षप्रतिपादकवाक्य-
मध्ये तद्विजातीयतया सहचरैर्भिन्नं तन्निकृष्टत्वाद्विरुद्धमिदं वाक्यं षाण्मासि-
कमुक्ताफलप्रथितहारलतामध्ये बराटिकेव नायकत्वेन निवेशनं नार्हति प्रक-
मभङ्गश्च स्यात् । प्रक्रान्तातिशयोक्त्याद्यलंकाराणामुपर्युपरि निबद्धानामकाण्डे
विच्छेदात् । केचित्तु जनमित्युदासीनवाचिना जनशब्देन माधवः प्रेयसीवि-
नाशदुःखोत्तारोपायान्तरमपश्यन्तं मरणमेव तदुपायत्वेनाधिगच्छन्तमात्मानं
निर्दिशति । तेन तन्नाशे स्वस्य मरणमेवेति तल्लावण्यातिशयप्रकाशनान्नोक्तदोष
इति व्याचक्षते । तदसत् । बान्धवजनमित्युक्ते स्वनिर्देशस्य कथंचिदप्यप्रतीतेः
प्रतीतो वा नैतावता तस्या उत्कर्षः । सर्वो रागान्धः सहृदयाभिमतमेव वस्त्व-
धमभूतमपि सर्वलोकोत्तरमित्यभिमन्यते । तथा हि—'या यस्याभिमता लोके
सा तस्याधिकरूपिणी' इति । अत एव चक्रवाकोऽपि स्वप्रियाविरहे जगदेव शू-

अपि च रे रे पाप,
प्रणयसखीसलीलपरिहासरसाधिगतै-
र्ललितशिरीषपुष्पहणनैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ३१ ॥
न्यामाकलयंस्तानेव लोकोत्तरसौन्दर्यशालिनीं मन्यत इति तिर्यक्ष्वपि प्रसिद्धम् ।
न चात्रापि माधवाभिमानमात्रसिद्धमेव तस्या लोकोत्तरत्वमिति वाच्यम् । मा भूत्
प्रबन्धरसास्वादयितॄणां सहृदयानामन्यथाभावप्रतीत्यानीविस्रंसफुरणाह्लादास्वाद-
भङ्गः । न च स्वाभिमानेन तस्याः श्लाघ्यत्वेऽपि न तावता तत्सत्त्वासत्त्वाभ्यां
जगतोऽस्ति कश्चिद्विशेष इत्युपेक्षणीयमेवैतत् । अतो 'विधिविलसितं सर्वम-
फलम्' इति पठनीयमिति कुन्तकप्रभृतयः काव्यतत्त्वज्ञाः सहृदयाः । एवं हि
नावद्यलेशोऽ

१३६ मालतीमाधवे
अघोरघण्टः—आः दुरात्मन्, प्रहर प्रहर । नन्वयं न भवसि ।
मालती—पंसीद णाह साहसिअ, दारुणो क्खु अअं हदासो ।
ता परित्ताअसु मं । णिवत्तअदु इमादो अणत्थसंकटादो ।
कपालकुण्डला—भगवन्, अप्रमत्तो भूत्वा दुरात्मानं व्यापारय ।
माधवाघोरघण्टौ—(मालतीकपालकुण्डले प्रति ।) अयि भीरु,
धैर्यं निधेहि हृदये हत एष पापः
किं वा कदाचिदपि केनचिदन्वभावि ।
सारङ्गसंहतिविधाविभकुम्भकूट-
कुट्टाकपाणिकुलिशस्य हरेः प्रमादः ॥ ३२ ॥
१. प्रसीद नाथ साहसिक, दारुणः खल्वयं हताशः । तत्परित्रायस्व
माम् । निवर्ततामस्मादनर्थसंकटात् ।
णाधिगतैः स्वेच्छयैव लब्धैर्ललितैरतिसुकुमारैः शिरीषकुसुमैर्नूनैरपि किं पुनर-
न्येन कठिनद्रव्येण । यद्वपुस्ताम्यति सद्य एव म्लायते तत्र वपुषि वधाय शस्त्र-
मुपक्षिप्ततः पातयतस्तव शिरस्रकस्मादेव निपाती यमदण्डः कालदण्ड इवैष भुजो
वामबाहुः पतत्विति समुद्दीपितक्रोधस्य माधवस्य रौद्ररसोचितो वागारम्भः
॥ ११ ॥ अघोरघण्टः । प्रहर प्रहरेति । पश्यामि तव पौरुषमित्युपहास-
गर्भोक्तिः । अयं न भवसीति माधवस्यैव संनिहितत्वेनोपचारात्पुरोवर्तिलधर्मि-
प्राधान्येनेदंशब्देनोच्यते । अन्योन्यमन्योन्यवधस्य निष्पन्नप्रायतया निश्चितत्वा-
दूतेमानसामीप्येन लडभयत्रापि ॥ मालती । प्रसीद नाथ साहसिक, दारुणः
खल्वयं हताशः । तत्परित्रायस्व माम् । निवर्ततामस्मादनर्थसंकटात् । न मम
स्त्रीमात्रस्य कृते सकललोकमौलिना त्वया साहसमाचरणीयम् । यतोऽयं दारुणः
किं कुर्याद्वा । तन्निवर्तस्वेति भावः ॥ कपालकुण्डला । अप्रमत्तः सावधानः ॥
माधवो मालतीमघोरघण्टश्च कपालकुण्डलामेकेनोभाभ्यां पाठ्येनोभयत्रापि तुल्या-
र्थेन श्लोकेन समाश्वासयन्तौ युगपदेवाहतुः—माधवाघोरघण्टौ । अयि
भीरु, इति संबोधनमिदमुभयोरुभे प्रति । धैर्यमिति । हे भीरु स्त्रीस्वभावसुल-
भसाध्वसे, हृदये धैर्यं निधेहि, मा कातर्यं गमः । हत एष पाप इत्युभाभ्यामु-
भयोर्निर्देशः । हत एव । कथमत्रापि मम प्रमादमाशङ्कसे । पश्य कदाचित्केन-
चिद्वा सारङ्गसंहतिविधौ हरिणसंहरणकृत्य इभकुम्भानां कूटस्य सङ्घस्य कुट्टाकः
कुट्टनशीलः । 'जल्पभिक्षुकुट्टलुण्ठवृङः षाकन्' इति ताच्छील्ये षाकन्प्रत्ययः ।
पाणिकुलिशस्य पाणिरैव कुलिशं कुलिशमिव पाणिर्यस्य तादृशस्य हरेः प्रमादः
किमन्वभावि । न केनचिदनुभूतमित्यर्थः । अत्र क्षुद्रविपक्षपथे मम प्रमादो न
संभवतीति तदसंभवलक्षणे वाक्यार्थे हरिणपतेर्हरेः प्रमादासम्भवलक्षणो वाक्या-
र्थोऽध्यारोप्यमाणः सारङ्गवधे सिंहस्य प्रमादसंभवेन ममाप्येतद्वधे प्रमादसंभाव-
नेत्युपमानोपमेयभावं परिकल्पयतीति 'असंभवद्धर्मसंबन्ध उपमा परिकल्पिता'

(नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।)
भो भो मालत्यन्वेषिणः, इयममात्यभूरिवसुमाश्वासयन्त्यप्रति-
हतप्रज्ञाचक्षुर्भगवती कामन्दकी समादिशति, पर्यवष्टभ्यतामेतत्क-
रालायतनम् ।
नाघोरघण्टादन्यस्सात्कर्मैतद्दारुणाद्भूत ।
न करालोपहाराच्च फलमन्यद्विभाव्यते ॥ ३३ ॥
कपालकुण्डला—भगवन्, पर्यवष्टब्धाः स्मः ।
अघोरघण्टः—संप्रति विशेषतः पौरुषस्यावसरः ।
मालती—१हा ताद, हा भअवदि ।
माधवः—भवतु बान्धवसंस्थामेनां विधाय तत्समक्षमेनं व्या-
पादयामि । (मालतीमन्यतः प्रेषयन्परिक्रामति ।)
(माधवाघोरघण्टावन्योन्यमुद्दिश्य ।)
आः, रे रे पाप,
कठोरास्थिग्रन्थिव्यतिकरघणात्कारमुखरः
[L1

१३८ मालतीमाधवे
निरातङ्कः पङ्केष्विव पिशितखण्डेषु निपत-
न्नसिर्गात्रंगात्रं सपदि लवशस्ते विकिरतु ॥ ३४ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे पञ्चमोऽङ्कः ।
जाते— रे रे इति । कठोरेति । कठोराः कठिना येऽस्थिग्रन्थयः कीकसकूटानि
तैः सह व्यतिरेकेण तदभिघातेन जनितो यो घणात्कारोऽनुकरणशब्दस्तेन
मुखरः तथा खराणां स्नायूनां छेदेन क्षणमात्रं जनितो वेगस्य व्युपरमो विश्रा-
न्तिर्यस्य सः । तथा पिशितखण्डेष्वस्थिस्नायुरहितेषु मांसखण्डेषु पङ्केष्विव निरा-
तङ्को निष्प्रतिरोधो निपतन्नेवंविधोऽसिः सपदि ते गात्रं गात्रं प्रत्यङ्गं लवशः
खण्डशः कृत्वा विकिरतु दिक्षु विक्षिपतु । बीभत्सोपस्कृतो रौद्ररसो व्यज्यते
॥ ३४ ॥ प्रत्यक्षयुद्धवर्णनस्य निषिद्धत्वान्नोक्तम् । तत्फलमग्रे सूचयिष्यते ।
यदुक्तम्— 'दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं
चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥' इति ॥ ३४ ॥
युद्धार्थं निष्क्रान्ताः ॥
यथामति मयाख्यातो भवभूतेरिहाशयः ।
तत्सर्वार्थपरिज्ञाने समर्थास्तु सचेतसः ॥
इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि-
पुरारिसूरिविरचितायां मालतीमाधवभावदीपिकायां
पञ्चमाङ्कविवरणम् ॥

Here is the line-by-line transcription of the page into Devanagari Markdown:

षष्ठोऽङ्कः ।
(ततः प्रविशति कपालकुण्डला ।)
कपालकुण्डला—आः पाप दुरात्मन्, मालतीनिमित्तं विनि-
पातितास्मद्गुरो माधवहतक, अहं त्वया तस्मिन्नवसरे निर्दयं निघ्न-
त्यपि स्त्रीत्यवज्ञाता । (सक्रोधम्।) तदवश्यमनुभविष्यसि कपालकु-
ण्डलाकोपस्य फलम् ।
शान्तिः कुतस्तस्य भुजङ्गशत्रो-
र्यस्मिन्निबद्धानुशया सदैव ।
जागर्ति दंशाय निशातदंष्ट्रा-
कोटिर्विषोद्गारगुरुर्भुजङ्गी ॥ १ ॥
(नेपथ्ये ।)
भो राजानश्चरमवयसामाज्ञया संचरध्वं
कर्तव्येषु श्रवणसुभगं भूमिदेवाः पठन्तु ।
अनाहार्यगुणोदारमनागन्तुकभूषणम् ।
अयत्नसिद्धसारस्यामाध्रये सहजां गिरम् ॥
[L

१४० मालतीमाधवे
चित्रं नानावचननिवहैश्चेष्टतां मङ्गलेभ्यः
प्रत्यासन्नस्त्वरयतितरां जन्ययात्राप्रवेशः ॥ २ ॥
यावच्च संबन्धिनो न परापतन्ति तावद्द्रुतसया मालत्या नगरदेव-
तागृहविभ्रममङ्गलाय गम्यतामित्यादिशति भगवती कामन्दकी ।
अन्यच्च गृहीतविशेषमण्डनः प्रतीक्ष्यतामानुयात्रिको जन इति ।
कपालकुण्डला—भवतु । इतो मालतीविवाहपरिकर्मसत्वरप्र-
तिहारजनसहस्रसंकुलात्प्रदेशादपक्रम्य माधवापकारं प्रत्यभिनिविष्टा
भवामि । (इति निष्क्रान्ता ।)
इति शुद्धविष्कम्भः ।
कलहंसः—(प्रविश्य ।) आणत्तोम्हि णअरदेवदागब्भगहरवट्टिणा
मअरन्दसणाहेण माहवेण जाणीहि दाव इदोमुहं प्पउत्ता मालदी
ण वेत्ति । ता जाव णं आणन्दिस्सं ।
१. आज्ञप्तोऽस्मि नगरदेवतागर्भगृहवर्तिना मकरन्दसनाथेन माधवेन
जानीहि तावदितोमुखं प्रवृत्ता मालती न वेति । तथावदेनमानन्दयिष्यामि ।
ध्वम् । विप्राश्च श्रुतेः श्रवणस्य सुभगं यथा स्यात्तथा पठन्तु । आशीर्वादमन्त्रा-
निति शेषः । नानावचननिवहैः संस्कृतप्राकृतादिनानाभाषाविशेषैः सहितं चित्र-
माश्चर्यकारि गीतवाद्यनृत्तादिकं मङ्गलेभ्यो मङ्गलार्थम् । तादर्थ्ये चतुर्थी । चेष्टतां
व्याप्रीयताम् । ततो जन्यानां वरसंबन्धिनां जनानाम् । 'जन्याः स्निग्धा वरस्य
ये' इत्यमरः । यात्राया वरगृहद्वधूगृहगमनक्रियायाः प्रवेशः प्राप्तिस्त्वरयति ।
त्वरां जनयतीत्यर्थः ॥ २ ॥ न परापतन्ति न समागच्छन्ति । गृहीतं सविशे-
षमण्डनं येन । सम्यगलंकृत इत्यर्थः । आनुयात्रिको मालत्या अनुचरो जनः
प्रतीक्ष्यतां परिपाल्यताम् । शीघ्रमाहूयतामित्यर्थः । यद्वानुयात्रिको वरानुगामी
तत्सुहृज्जनः । गृहीतं सविशेषमण्डनमाभरणवस्त्रादिकं यस्मात्स तादृशः प्रतीक्ष्य-
तामभ्युद्गमनादिना संभाव्यतामिति ॥ कपालकुण्डला—भवत्वित्यादि ।
तेन नेदानीं मालत्यपहरणं शक्यमिति भावः । आकुलाज्जनसंमर्दान्माधवस्याप-
कारो मालत्यपहरणरूपस्तं प्रत्यभिनिविष्टा दृढतरप्रयत्ना भवामि । इति निष्क्रा-
न्ता । इति शुद्धविष्कम्भः ॥ कलहंसः । आज्ञप्तोऽस्मि नगरदेवताया गर्भ-
गृहवर्तिना मकरन्दसनाथेन माधवेन जानीहि तावदितोमुखं प्रवृत्ता मालती न
वेति । तथावदेनमानन्दयिष्यामि । इतोमुखं प्रवृत्ता मालतीति प्रियनिवेदने-
नेति शेषः । अनेन वाक्येन माधवमकरन्दयोः कृत्रिमपरिणयार्थं छद्मना नगर-
देवतागर्भगृहे पूर्वमेव प्रविश्य निलीयावस्थानसूचनादभूताहरणं नाम गर्भ-

षष्ठोऽङ्कः । २४१
(ततः प्रविशतो माधवमकरन्दौ ।)
माधवः—
मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो
भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् ।
अद्यान्तः खलु सर्वथास्य मदनायासप्रबन्धस्य मे
कल्याणं विदधातु वा भगवतीनीतिर्विपर्य्येतु वा ॥ ३ ॥
मकरन्दः—कथं भगवत्याः सा मेधाशक्तिर्विपर्य्येष्यति ।
कलहंसः—(उपसृत्य ।) १णाह, दिट्ठिआ वड्ढसि । पउत्ता खु
इदोमुहं मालदी ।
माधवः—अपि सत्यम् ।
मकरन्दः—किमश्रद्दधानः पृच्छसि । न केवलं प्रवृत्ता प्रत्या-
सन्ना च वर्तते । तथा हि ।
अस्माकमेकपद् एव मरुद्विकीर्ण-
जीमूतजालरसितानुकृतिर्निनादः ।
१. नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती ।
संध्यङ्गमुक्तम् । यथा—'अभूताहरणं तस्याद्वाक्यं यत्कपटाश्रयम्' इति । इद-
मेव तयोः प्रवेशकं च ॥ माधवः—मालत्या इति । मदनायासप्रबन्धस्य
सरव्यथानुबन्धस्य सर्वथाद्य खल्वितो मालतीलाभान्यतरकोटिपरिच्छेदेन पर्यव-
सानं भविष्यतीत्येष तत्त्वार्थकीर्तनान्मार्गो नाम गर्भसंधेरङ्गमुक्तम् । यथा—
'तत्त्वार्थकीर्तनं मार्गः' इति । कथमत्रान्यतरकोटिपरिच्छेद इत्यपेक्षायां भग-
वतीप्रयुक्तोपायसिद्ध्यासद्धिभ्यामित्याह—भगवत्याः कामन्दक्या नीतिः कृत्रिम-
विवाहरूप उपाये कल्याणं मालतीपाणिग्रहणरूपं वा विदधातु । तथा सति
तत्प्राप्त्यैव मदनायासस्यान्तो भविष्यति । अथवा मद्भाग्यवैकल्याद्विपर्यंतु विप-
रीता भवतु । तथापि प्रयुक्तोपायभङ्गादुपायन्तराभावाच्च तदलाभनिश्चये ध्रुवं
मम विपत्तिरित्याश्रयान्तराभावादेव मदनायासस्यान्तो भविष्यतीत्यर्थः । कीदृ-
शस्य मदनायासस्येत्यपेक्षायां तावदाह—मालत्याः प्रथमदर्शनक्षणादारभ्य
विस्तारिणः प्रवर्धमानस्य । तथा मृगदृशस्तस्याः स्नेहसूचकैर्विचेष्टितैः साभिप्राया-
वलोकनादिभिः परां निरतिशयां कोटिं प्रकृष्टतां नीतस्येति योज्यम् । एषा
प्राप्त्याशा नाम तृतीया कार्यावस्था । यथा—'उपायापायचिन्ताभ्यां प्राप्त्याशा
प्राप्तिसंभवः' इति ॥ ३ ॥ मकरन्दः । विपर्येष्यति विपरीता भविष्यति ॥
कलहंसः । नाथ, दिष्ट्या वर्धसे । प्रवृत्ता खल्वितोमुखं मालती । माधवः ।
अपि सत्यं किं सत्यमितोमुखं प्रवृत्तेत्यसंभावयतः प्रश्नः ॥ मकरन्दः। अश्रद्दधानो
विश्वासरहितः । अस्माकमिति । महता प्रबलपवनेन विकीर्णं विशकलीतं

१४२ मालतीमाधवे
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा
शब्दान्तरश्रवणशक्तिमपाकरोति ॥ ४ ॥
तदेहि । जालमार्गेण पश्यामः ।
(तथा कुर्वन्ति ।)
कलहंसः—णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविब्भ-
माभिरामचामरसमीरणुव्वेलिअकदलिआवलीतरङ्गिदुत्ताणगणअङ्गणस-
रोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा
दीसन्ति । इमाओ सविलासकवलिअतम्बूलाहिपूरिअकवोलमण्डला-
भोअवइअरक्खलिअमहुरमङ्गलगिअबद्धकोलाहलेहिं विविहरणा-
लंकारकिरणावलीविडम्बिअमहेन्दचापविच्छेदविच्छुरिअणहत्थलेहिं
वारसुन्दरीकदम्बएहिं अज्झासिआओ कणन्तकणअंकिंकिणीरणिअ-
झणझणकारिणीओ करिणीओ ।
१. नाथ, पश्य । इमे तावदुत्पतितराजहंसविभ्रमाभिरामचामरसमीरणो-
द्वेलकदलिकावलीतरङ्गितोत्तानगगनाङ्गणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं व-
हन्तो मङ्गलधवलातपत्रनिवहा दृश्यन्ते । इमाः सविलासकवलितताम्बूलाभिपू-
रितकपोलमण्डलाभोगव्यतिकरस्खलितमधुरमङ्गलोद्गीतबद्धकोलाहलैर्विविधरत्ना-
लंकारकिरणावलिविडम्बितमहेन्द्रचापविच्छेदविच्छुरितनभःस्थलैर्वारसुन्दरीक-
दम्बकैरध्यासिताः क्वणत्कनककिंकिणीरणितझणझणत्कारिण्यः करिण्यः ।
यज्जीमूतजालं तद्वत्सितानुकारी गम्भीरो यो मङ्गलार्थ मृदङ्गसहस्रजन्मा निनादः
सोऽस्माकमेकपद् एव स्वव्यतिरिक्तशब्दश्रवणसामर्थ्यं निरस्यति । मत् समीपमाग-
च्छेत्यर्थः ॥ ४ ॥ कलहंसः । नाथ, पश्य । इमे तावन्मङ्गलधवलातपत्रनिवहा
दृश्यन्त इत्यन्वयः । कीदृशाः । उत्पतितानां राजहंसानां विभ्रमेणेव विभ्रमेणाभि-
रामाणां चामराणां समीरणेनोद्वेलोर्ध्वं चरन्ती या कदलिकावली पताकापंक्तिस्तया
तरङ्गितं संजाततरङ्गं यदुत्तानं गगनाङ्गणं नभोभाग एव सरस्तत्र निरन्तराणां
सान्द्राणामुद्दण्डपुण्डरीकाणां यो विभ्रमस्तं वहन्तो बिभ्राणाः । अत्र गगनाङ्गण-
स्योत्तानत्वं गाम्भीर्यद्योतनार्थम् । गम्भीरे सरसि पुण्डरीकाणामुद्दण्डकाण्डा भवन्ति
नान्यत्र । सविलासेति । सविलासं कवलितेन ताम्बूलेनाभिपूरितस्य कपोल-
मण्डलस्याभोगेन विस्तारेण यो व्यतिकरः संपर्को गीताक्षराणां तेन स्खलितं
यन्मधुरं मङ्गलार्थमुद्गीतं गौरीकल्याणादि गानं तेन बद्धः कोलाहलो येन तैः ।
विविधानां रत्नालंकाराणां किरणावलीभिर्विडम्बिता अनुकृता ये महेन्द्रचापविच्छे-
दास्तैर्विच्छुरितं व्याप्तं नभःस्थलं गगनस्थलं येषां तैर्वारसुन्दरीकदम्बकैरध्यासिताः

षष्ठोऽङ्कः । १४३
(माधवमकरन्दौ सकौतुकं पश्यतः ।)
मकरन्दः—स्पृहणीयाः खल्वमात्यभूरिवसोर्विभूतयः । तथा हि
प्रेङ्खद्भूरिमयूरमेचकचयैरुन्मेषिचाषच्छद-
च्छायासंवलितैर्विवर्तिभिरिव प्रान्तेषु पर्यावृताः ।
व्यक्ताखण्डलकार्मुका इव भवन्त्युच्चैर्विचित्रांशुक-
प्रस्तारस्थगिता इवोन्मुखमणिज्योतिर्वितानैर्दिशः ॥ ५ ॥
कलहंसः—कहं ससंभमअणेअपडिहारमण्डलाबज्जिओज्जलकण-
अकलधौअपङ्कलित्तचित्तवेत्तलदापरिक्खित्तरेहारइअमण्डलो दूरसंठिदो
परिअणो । एसा अ बहुलसिन्दूरणिअरसंझाराओपरत्तमुहमहुरघो-
लन्तणक्खत्तमालाभरणधारिणी करेणुरअणिं अलंकरन्ती इदो एव
१. कथं ससंभ्रमानेकप्रति

१४४ मालतीमाधवे
कोऊहलुप्फुल्लमुहसमत्थलोअदिस्सन्तमणहरप्पण्डुरपरिक्खामदेहसो-
हाविभाविआणङ्गवेअणा पुढमचन्दलेहाविब्भमं वहन्दी किंचिअन्तरं
पसरिदा मालदी ।
मकरन्दः—वयस्य, पश्य ।
इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना
कलितकुसुमा बालेवान्तर्लता परिशोषिणी ।
वहति च वरारोहा रम्यां विवाहमहोत्सव-
श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ॥ ६ ॥
कथं निषादिता गजवधूः ।
माधवः—(सानन्दम् ।) कथमवतीर्य भगवती लवङ्गिकाभ्यां
प्रवृत्तैव ।
(ततः प्रविशति कामन्दकी मालती लवङ्गिका च ।)
कामन्दकी—(सहर्षमपवार्य ।)
पाण्डुरपरिक्षामदेहशोभाविभावितानङ्गवेदना प्रथमचन्द्रलेखाविभ्रमं वहन्ती
किंचिदन्तरं प्रसृता मालती ।
अत एव विशेषणद्वयस्य सामर्थ्यात्प्रथमचन्द्रलेखायाः प्रतिपच्चन्द्रकलाया विभ्रमं
वहन्ती किंचिदन्तरं परिजनमण्डलादपसृत्यान्यदेशं प्रसृता मालती । कथमन्य-
विभ्रममन्या वहेदित्यसंभवधर्मयोगात्संध्यारागोपरक्ततारावलीविभूषितरज

विधाता भद्रं नो वितरतु मनोज्ञाय विधये
विधेयासुर्देवाः परमरमणीयां परिणतिम् ।
कृतार्था भूयासं प्रियसृहृदपत्योपनयतः
प्रयत्नः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु ॥ ७ ॥
मालती—(स्वगतम् ।) केण उण उवाएण संपदं मरणणिव्वा-
णस्स अन्तरं संभावयिस्सं । मरणं वि मे मन्दभाअहेआए अहमिदं
अदिदुलहं होइ ।
१. केन पुनरुपायेन सांप्रतं मरणनिर्वाणस्यान्तरं संभावयिष्यामि । मरण-
मपि मे मन्दभागधेयाया अभिमतमतिदुर्लभं भवति ।
तया परिजनत्वात् । ‘परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः’ इत्युक्तलक्षण-
प्रवेशकोऽयं ग्रन्थभाग इति कश्चिद्व्याचष्टे । स वक्तव्यः । कथं प्रत्यक्षाभिनयरू-
पाङ्कमध्ये केवलाभिनयसूचनैकपात्रसूच्यार्थसूचकस्य प्रवेशकस्य निवेशः । कथं