मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 148, कुल 377 में से
संदर्भ में पढ़ें१४२ मालतीमाधवे
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा
शब्दान्तरश्रवणशक्तिमपाकरोति ॥ ४ ॥
तदेहि । जालमार्गेण पश्यामः ।
(तथा कुर्वन्ति ।)
कलहंसः—णाह, पेक्ख । इमे दाव उप्पडिअराअहंसविब्भ-
माभिरामचामरसमीरणुव्वेलिअकदलिआवलीतरङ्गिदुत्ताणगणअङ्गणस-
रोणिरन्तरुद्दण्डपुण्डरीअविब्भमं वहन्दो मङ्गलधवलातपत्तणिवहा
दीसन्ति । इमाओ सविलासकवलिअतम्बूलाहिपूरिअकवोलमण्डला-
भोअवइअरक्खलिअमहुरमङ्गलगिअबद्धकोलाहलेहिं विविहरणा-
लंकारकिरणावलीविडम्बिअमहेन्दचापविच्छेदविच्छुरिअणहत्थलेहिं
वारसुन्दरीकदम्बएहिं अज्झासिआओ कणन्तकणअंकिंकिणीरणिअ-
झणझणकारिणीओ करिणीओ ।
१. नाथ, पश्य । इमे तावदुत्पतितराजहंसविभ्रमाभिरामचामरसमीरणो-
द्वेलकदलिकावलीतरङ्गितोत्तानगगनाङ्गणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं व-
हन्तो मङ्गलधवलातपत्रनिवहा दृश्यन्ते । इमाः सविलासकवलितताम्बूलाभिपू-
रितकपोलमण्डलाभोगव्यतिकरस्खलितमधुरमङ्गलोद्गीतबद्धकोलाहलैर्विविधरत्ना-
लंकारकिरणावलिविडम्बितमहेन्द्रचापविच्छेदविच्छुरितनभःस्थलैर्वारसुन्दरीक-
दम्बकैरध्यासिताः क्वणत्कनककिंकिणीरणितझणझणत्कारिण्यः करिण्यः ।
यज्जीमूतजालं तद्वत्सितानुकारी गम्भीरो यो मङ्गलार्थ मृदङ्गसहस्रजन्मा निनादः
सोऽस्माकमेकपद् एव स्वव्यतिरिक्तशब्दश्रवणसामर्थ्यं निरस्यति । मत् समीपमाग-
च्छेत्यर्थः ॥ ४ ॥ कलहंसः । नाथ, पश्य । इमे तावन्मङ्गलधवलातपत्रनिवहा
दृश्यन्त इत्यन्वयः । कीदृशाः । उत्पतितानां राजहंसानां विभ्रमेणेव विभ्रमेणाभि-
रामाणां चामराणां समीरणेनोद्वेलोर्ध्वं चरन्ती या कदलिकावली पताकापंक्तिस्तया
तरङ्गितं संजाततरङ्गं यदुत्तानं गगनाङ्गणं नभोभाग एव सरस्तत्र निरन्तराणां
सान्द्राणामुद्दण्डपुण्डरीकाणां यो विभ्रमस्तं वहन्तो बिभ्राणाः । अत्र गगनाङ्गण-
स्योत्तानत्वं गाम्भीर्यद्योतनार्थम् । गम्भीरे सरसि पुण्डरीकाणामुद्दण्डकाण्डा भवन्ति
नान्यत्र । सविलासेति । सविलासं कवलितेन ताम्बूलेनाभिपूरितस्य कपोल-
मण्डलस्याभोगेन विस्तारेण यो व्यतिकरः संपर्को गीताक्षराणां तेन स्खलितं
यन्मधुरं मङ्गलार्थमुद्गीतं गौरीकल्याणादि गानं तेन बद्धः कोलाहलो येन तैः ।
विविधानां रत्नालंकाराणां किरणावलीभिर्विडम्बिता अनुकृता ये महेन्द्रचापविच्छे-
दास्तैर्विच्छुरितं व्याप्तं नभःस्थलं गगनस्थलं येषां तैर्वारसुन्दरीकदम्बकैरध्यासिताः