मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 134, कुल 377 में से
संदर्भ में पढ़ें: १३८ मालतीमाधवे
माधवः — (विलोक्य ।) हा धिक् प्रमादम् ।
न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः
पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् ।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते
हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥
कपालकुण्डला—
तं भद्दे सर दयितोऽत्र यस्तवभू-
दद्य त्वां त्वरयति दारुणः कृतान्तः ।
मालती— हा देव माहव, परलोअगदो वि तुब्भेहिं सुमरि-
दव्वो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि ।
१. हा देव माधव, परलोकगतोऽपि युष्माभिः स्मर्तव्योऽयं जनः ।
न खलु स उपरतो यस्य वल्लभः स्मरति ।
तथोत्तुङ्गस्य खट्वाङ्गस्य शिखरमेव ध्वजस्तस्योद्धूतिमिरुदूनेनैर्नििक्षिप्ता विशीर्णा-
स्तारगणा यत्र तत् । तथा प्रमुदितानां कटपूतनानां पिशाचविशेषाणामुत्तालानां
प्रचण्डानां वेतालानां मेतालानां च तालैः करतलद्वयास्फालनैः स्फुटत्कर्णा
विदलच्छ्रवणकुहरा अत एव संभ्रान्ता या गौरी तस्या घनाश्लेषेण गाढालिङ्गनेन
हृष्यन्मनसस्त्र्यम्बकस्यानन्दोऽत्रास्तीति तत्तादृशमिति दण्डकः । 'नौ रः' इति
वचनात् ॥ २३ ॥ माधवः । मालतीमेव वधार्थमानीतां दृष्ट्वा हा धिगिति ।
प्रमादं पित्रोः कामन्दक्यादीनां चानवधानतां धिक् । यदियमनेन नृशंसेन
कैरप्यनालक्षिता वधार्थमानीता वध्यवेषभूषिता चेति भावः । तदेवाह—न्य-
स्तेति । न्यस्तमनुलिसमलक्तकं यस्याः सा चासौ रक्तमाल्यवसना च पापानां
पापकारिणामारम्भो मारणं कर्मानयोरस्तीति तद्वतोः । पाषण्डौ बौद्धावेव
चण्डालकर्मकारित्वात्तत्सहकारित्वाच्च । तयोः । 'पुमान्स्त्रिया' इत्येकशेषः ।
वृकयोर्व्याघ्रादिक्रूरसत्त्वयोर्मृगी हरिणीव गोचरं विषयं गता । भीरुः स्वभावेनैव ।
वसोर्दिवाष्टवसुष्वन्यतमसदृशस्य । यद्वा वसोमेरिव पराक्रमसंपन्नस्य देवतुल्य-
स्यापि भूरिवसोरमात्यस्य सुता मृत्योर्मुखे वर्तते । हा खेदे । धिगिति । ममेतः
परं जीविताशामिति शेषः । कष्टमिदमनिष्टमापतितम् । अस्तकरुणः कृपाहीनो
विधेः प्रक्रम आरम्भः कोऽयम् । कथमत्यन्तानुचितमेवारब्धं दैवहतकेनेत्यर्थः ।
हा धिक्कष्टमनिष्टमिति पदानामतीवार्थभेदाभावेऽप्यनुकम्पातिशयद्योतनार्थत्वान्न
पौनरुक्त्यशङ्केति ध्येयम् । यदाह—'अनुकम्पातिशये यदि कश्चिन्निबध्यते । न
दोषः पुनरुक्त्यादौ प्रत्युतेयमलंक्रिया ॥' इति ॥ २४ ॥ कपालकुण्डला—
तं भद्र इति । अत्र मरणसमये यस्तव दयितोऽभीष्टो देवोऽभूत्तं स्मर ।
मरणदशायामिष्टदेवतास्मरणममुत्राम्युदयायेत्यागमः । अद्येति । मृत्युः संनि-
हित इत्यर्थः ॥ मालती । हा देव माधव, परलोकगतोऽपि स्मर्तव्योऽयं