मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 135, कुल 377 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १२९
कपालकुण्डला—हन्त, माधवानुरक्तेऽयं तपस्विनी ।
अघोरघण्टः—(शस्त्रमुद्यम्य )
चामुण्डे भगवति मन्त्रसाधनादा-
वुद्दिष्टामुपनिहितां भजस्व पूजाम् ॥ २५ ॥
माधवः—(सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य ।) आः कापालि-
कापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि ।
मालती—(सहसावलोक्य ।) परित्ताअदु महाभाओ । (इति
माधवमालिङ्गति ।)
माधवः—महाभागे, न भेतव्यम् ।
मरणसमये त्यक्ताशङ्कं प्रलापनिर्गल-
प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते ।
सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः
फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः ॥ २६ ॥
१. परित्रायतां महाभागः ।
जनो युष्माभिः देवेत्यनेन त्वमेव ममेष्टदेवतारूपः । तन्मरणदशायामपि त्वा-
मेव स्मरिष्यामि । जन्मान्तरे वा त्वत्समागमो मे भूयादिति भावः । न खलु स उप-
रतो यस्य वल्लभो जनः स्मरति । यस्येतीयं कर्मणि षष्ठी । प्रियतमस्मृतिगोचरस्य
जनस्य निरन्तरं तन्मनसि स्थित्या नोपरतिरित्यर्थः ॥ हन्तेति विषादे । तपस्विन्य-
नुकम्पार्हा । इयं माधवेऽनुरक्ता सती । तदिदानीं सोऽत्रैव महामांसस्य विक्रयार्थं
पर्यटति । दैवादागत्य मोचयेद्वा तदा कष्टं मन्त्रसाधनप्रत्यूहः संभावित इति वि-
षादः ॥ 'तं भद्रे' इति श्लोकस्योत्तरार्धम्—चामुण्डे भगवतीति । मन्त्रसाधन-
स्याद्यावुपक्रमसमय उद्दिष्टं संकल्पितामिदानीं तत्पर्यवसान उपनिहितां समर्पितां
पूजां बलोपहारं भजस्वेति ॥ २५ ॥ माधवः । खड्गं कापालिकस्योद्यतं प्रको-
ष्ठेन मणिबन्धेन विक्षिप्यापसार्य । अपेह्यपसर । प्रतिहतोऽसि वैपरीत्येन त्वमेव
हतोसि । मालती । परित्रायतां महाभागः ॥ माधवः । मरणसमय
इति । त्यक्ताऽऽशङ्का यस्मिन्कर्मणि तत्तथा प्रलापेऽनर्थकवचोजल्पने इदानीमेवैनं
संहरिष्यामीत्येवंरूपे निर्गलो निष्प्रतिरोधः । महानुभावाः खलूपकारं कुर्वन्त्येव
न तु वचनपूर्वकं कुर्वन्तीति वचनस्यानर्थक्यम् । यद्यप्येवं करिष्यामीति न वक्तव्यं
केवलं कर्तव्यमेव, तथापीदृश्यां दुर्दशायां प्रियायाः प्राणत्राणेन मज्जन्मनोऽतीव
साफल्यमासादितमिति हर्षभरवशेन मनस्यवधारितलाघवशङ्कामपि विसृज्यान-
र्थकमेव किंचित्प्रलपितमिति भावः । तथा प्रकटितो निजः सहजः स्नेहो येन सोऽयं
ते सखा पुरत एव वर्तते । अतः सुतनु उत्कम्पं भयनिमित्तं वेपथुं विसृज