ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
: "श्वरीनामेत्याद्या":
- Does it have an ī-kāra on र? Look closely at line 21, first word:
- 'श्व' 'र' 'ना' 'मे' 'त्या' 'द्या' or 'श्व' 'री'?
- Wait! In line 14: "रुद्रेश्वरशिवमहेश्वरसदाशिवानां" -> hierarchy: Vishnu, then Rudra, then Ishvara, then Sadashiva...
- Wait, line 20-21: "तेन विष्णूनाम ततः परं रुद्रनाम ततःपरमी- / श्वरनामेत्याद्या" or "श्वरीनामेत्याद्या"?
- Look at the top of 'र': there is an ī-kāra loop! But wait, does line 20 end in: "ततःपरमी-"?
- If line 20 ends in "ततःपरमी-", then line 21 has "श्वरनामेत्याद्या": ततः परम् ईश्वरनामेत्याद्या!
- Ah! "ततः परम्" + "ईश्वरनामेत्याद्या" = ततःपरमीश्वरनामेत्याद्या!
- At the end of line 20: 'ततःपरमी-'
- At the start of line 21: 'श्वरनामेत्याद्या'!
- Let's verify: does line 21
२३४ ललितासहस्रनाम ।
समस्ताभ्यः स्रष्टा ब्रह्मा परः स्मृतः । ब्रह्मणश्च महाविष्णुर्वरिष्ठः सर्वपालकः । विष्णो-
रपि परः साक्षाद्रुद्रः संहारकारक' इति । सूतगीतायामपि 'त्रिषु रुद्रो वरिष्ठः स्यात्ततो
मायी परः शिवः । मायाविशिष्टात्सर्वज्ञात्साम्बः सत्यादिलक्षणः । वरिष्ठो मुनयः साक्षा-
च्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरित' मिति । अत्र मायीति-
पदेनेश्वरशिवमहेश्वरसदाशिवा अभेदेन गृहीताः । 'ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदा-
शिवः । एते पञ्च महाप्रेताः पादमूले व्यवस्थिता' इतीश्वराद्भेदेन मध्ये सदाशिवस्य
कीर्तनात् । 'शिवात्मके महामञ्चे महेशानोपबर्हणे । अतिरम्यतले तत्र कशिपुश्च सदा-
शिवः । मृतकाश्च चतुष्पादा महेशश्च पतद्ग्रहः । तत्रास्ते परमेशानी महात्रिपुरसुन्द-
री'ति भैरवयामले कामेश्वरा
कर्षस्य शक्तिमूलकत्वे सिद्धे 'तद्धेतोरेवास्ति'ति न्यायेनाम्बाया एव सर्वोत्तमत्वं
Wait, in : "शक्तः प्रभवितुं' मित्यादिना" -> wait, is it मित्यादिना or नित्यादिना or मियादिना?
Let's look closely at line 8:
"शक्तः प्रभवितुं' मित्य..."
Wait, after the quote ' there is 'मित्यादिना'. Yes, "मित्यादिना".
In : "शिवोत्कर्षस्य शक्तिमूलकत्वे सिद्धे 'तद्धेतोरेवास्ति'ति न्यायेनाम्बाया एव सर्वोत्तमत्वं"
Let's check: "'तद्धेतोरेवास्ति'ति" - yes!
In : "सिद्ध्यतीत्याशयेनाह—शिवेति । देव्यास्त्रिपुरसुन्दर्याः परशिवाभिन्नाया नामेत्यसम-"
Let's check: dash after नाह: "—शिवेति ।" Yes, em-dash.
In : "स्तोक्तिर्देव्यनन्त्यभ्रमनिरसाय । तेन वातुलशुद्धतन्त्रे 'शिवस्य तु परा शक्तिः सहस्रां-"
Wait, "स्तोक्तिर्देव्यनन्त्यभ्रमनिरसाय":
Let's check: स्तो (sto) क्ति (kti) र्दे (
.`
Let's format line-by-line cleanly with line markers to .२३६ ललितासहस्रनाम ।
तस्मात्संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ।
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ॥ ३०५ ॥
विष्णुनामपराः केचिच्छिवनामपराः परे ।
प्रशस्तम् ॥ ३०४ ॥ उपसंहरति—तस्मादिति । कलिप्रयुक्तो दोषः खखधर्मसमनु-
ष्ठानवैकल्यं तस्य निवृत्तयेऽङ्गादिपरिपूर्तये । वैकल्यं च नाङ्गलोप एव अपितु प्रधानलो-
पोपि । प्रधानविकल्पत्वाविशेषात्, कलिप्रयुक्तदोषत्वाविशेषाच्च । सोऽपिच प्रायेणा-
धुनिकानां सर्वेषां कर्मठंमन्यानामपरिहरणीय एव । देवतोद्देशेन द्रव्यत्यागरूपस्य यागस्य
मानससंकल्पविशेषात्मकत्वेनामय इदं नममेत्यादिस्पष्टतरशब्दाभिलापमात्रेण तस्या
जायमानत्वात् । एवं संध्यावन्दनपदवाच्यं प्रधानं 'असावाद
न कश्चिदपि लोकेषु ललितानामतत्परः ॥ ३०६ ॥
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ॥ ३०७ ॥
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ ३०८ ॥
यथैव विरला लोके श्रीविद्याचारवेदिनः ।
तथैव विरलो गुह्यनामसाहस्रपाठकः ॥ ३०९ ॥
र्भतरैव । याच दुर्लभतरा सा प्रायेणाविद्यमानप्रायेवेत्याशयेनाह—न कश्चिद-
पीति । लोकेषु मनुष्येषु देवेषु दानवादिषु च ॥ ३०६ ॥ इदानीं गूहितमभिप्रायं
स्फोटयति—येनेति । अन्यासां विष्णुरुद्रेश्वरादीनां देवतानां नाम प्रातिस्विकं जन्म-
कोटिषु येन कीर्तितं तस्यैव कक्ष्याक्रमेणोत्तरोत्तरदेवतातादात्म्याच्चरमशिवतादात्म्या-
पन्नस्यैव विरलतमस्य कस्यचित्पुरुषधौरे
२३८ ललितासहस्रनाम ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ।
रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥ ३१० ॥
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ।
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥ ३११ ॥
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ।
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ ३१२ ॥
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ।
नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥ ३१३ ॥
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ।
इति ते कथितं स्तोत्रं रहस्यं कुम्भसंभव ॥ ३१४ ॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ॥ ३१५ ॥
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ।
यो ददाति विमूढात्मा श्रीविद्यारहिताय तु ॥ ३१६ ॥
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ।
रहस्यनामसाहस्रं तस्मात्संगोपयेदिदम् ॥ ३१७ ॥
त्रयाणामेकत्र मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थमाह—मन्त्रेति । अपितु निर-
वधिकस्येति शेषः । नकारैणैवायं समासो नाल्पस्येति नतु नञ् ॥ ३१० ॥ एवं देव-
तात्प्रीतिकरत्वं सर्वकामपूरकत्वं चाव्यानवयमुखेनोक्त्वा व्यतिरेकमुखेन निदर्शनालंका-
राभ्यां द्रढयति—अपठन्निति द्वाभ्याम् । स्पष्टोऽर्थः ॥ ३११ ॥ ३१२ ॥ भक्त-
तावच्छेदकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामाह—य इति । यो नित्यं संकीर्तयेत्स एव
भक्तो नान्य इत्यर्थः । 'ये यजमानास्त ऋत्विज' इत्यत्रेव यत्तदोर्वैपरीत्येनान्वयः
॥ ३१३ ॥ नामसाहस्रपाठविधिं निगमयंस्तत्फलकथनमुपसंहरति—तस्मादिति ।
प्रयतः शुचिः ॥ ३१४ ॥ उत्तरत्र संप्रदायप्रवर्तनप्रकारं शिक्षयति—नेति । भक्ता-
यापि विद्यावेदनरहिताय तत्सहितायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या
यथा तदभाववते न प्रदर्श्यते तथेद् तद्वतेपि न प्रदर्श्यं किमुत तदभाववत इति भावः
॥ ३१५ ॥ अतएव निषेधल्यर्धेन—पश्विति । पशवश्च द्विविधाः पूर्वमुक्ताः ॥ * ॥
निषेधोल्लङ्घने दण्डमाह—यं इति । यश्च गृह्णातीति चकारलभ्योऽर्थः ॥ ३१६ ॥ तस्मै
दात्रे विद्यारहिताय ग्रहीत्रे च । 'क्रुधद्रुहेर्ष्यासूयार्थानां यंप्रति कोप' इति संप्रदान-
संज्ञा ॥ * ॥ गोपनीयंतामुपसंहरत्यर्धेन—रहस्येति । रहस्येत्यादिविशेष्यं हेतुग-
र्भम् । तेन परिकराङ्कुरालंकारः । तस्मात् अनधिकारिणोर्दातृग्रहीत्रोरनर्थप्रदत्वात्
सौभाग्यभास्करव्याख्या । २३९
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ।
ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ॥ ३१८ ॥
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ३१९ ॥
सूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ३२० ॥
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने हयग्रीवागस्त्यसंवादे ललितासहस्रनाम-
स्तोत्रं नाम षट्त्रिंशोऽध्यायः ॥
रहस्यत्वाच्च गोपयेदित्यर्थः ॥ ३१७ ॥ ननु यद्विद्यावतेऽपि गोप्यं तन्मह्यं त्वया कथं
प्रदर्शितमित्याशङ्कमानमगस्त्यं समाधत्ते हयग्रीवः—स्वतन्त्रेणेति । स्वतन्त्रेण पराप्रे-
रितेन । कलशीति जातिलक्षणो ङीष् । तत्प्रयोगश्च श्लेषेण देवीपुत्रबोधनाय । तदप्युपा-
स्तिबलेन देवीपुत्रभावपर्यन्तां पदवीमुपारूढे वात्सल्येन ललिताम्बाप्रेरणावश्यंभावध्व-
ननाय । ‘कलं शुके कलौ जीर्णे कलो नादेऽतिमञ्जुल’ इति यादवबलात्कले शुके नादे
वा शेत इति कलशी देवी । सर्वोत्तमत्वाद्वा । ‘सर्वोत्तमे चोत्तमाङ्गे कुम्भे च कलश-
ध्वनि’रिति रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुल्लङ्घनीयत्वात् । अधिकारिवि-
षय एव तत्प्रेरणस्य जायमानत्वाच्च । तेनोपासकाभासायैव न प्रदर्श्यमिति भावः
॥ ३१८ ॥ त्वं तु नोपासकाभासः अपितु पूर्णोऽधिकारीति ध्वननाय प्रवर्तयति ।
त्वयेति शेषः । निरन्तरं अभेदानुसंधानपूर्वकम् । नचात्र नामकीर्तनविधिरसकृच्छ्रूय-
माणोऽभ्यासात्कर्माणि भिन्द्यादेवेत्येकस्यैवैतावन्ति फलानीति वर्णनमयुक्तमिति वा-
च्यम् । भावनाभेदमात्रेणापि तदुपपत्तेः फलस्यानुपादेयत्वेन तद्विशेषोद्देशेन कर्मण एव
पुनःपुनर्विधानेऽप्यन्यपरत्वेन तादृशस्य पुनःश्रवणस्याभ्यासरूपत्वाभावात् । ‘अपः प्रण-
यती’ति विधेरर्थवादवैचित्र्यार्थं षड्वारं श्रवणेऽपि कर्मभेदानङ्गीकारात् । अनुपादेयगु-
णसाचिव्येऽप्यसंनिधेरभावेन प्रकरणान्तरस्यापि शङ्कितुमयोगाच्चेति दिक् ॥ ३१९ ॥
प्रहृष्टो वचनं प्राह्नेत्यादिनोपक्रान्तमेकेन श्लोकेनोपसंहरति भगवान्सूतः । आनन्दे
स्वात्मानन्दे मग्नं विषयान्तरसंचारराहित्येन तदेकप्रवणं हृदयं चित्तं यस्य सः । पुलका
आनन्दजन्यो रोमाञ्चा अस्य संजाता इति पुलकितः । तारकादित्वादितच् ॥ ३२० ॥
अथ परिभाषायां स्वग्रन्थमुपसंहरति—इति परिभाषामण्डलमुदितं नरसिं-
हयज्वना विदुषा । सत्संप्रदायगमकं शिवभक्तानन्दनाय शिवम् ॥४०॥
मण्डलशब्दश्चत्वारिंशत्संख्यात्मकसमूहपरः । विदुषा विद्याष्टादशकविदा श्रीविद्योपास-
केन च । शिवयोर्भक्तानां सत्संप्रदायं दुर्लभतरमन्वेषमाणानामानन्दनाय । शिवं मङ्ग-
२४० ललितासहस्रनाम ।
लरूपमिति सर्वं शिवम् ॥ ४० ॥
इति भास्कररायेण कृते सौभाग्यभास्करे । जाता फलश्रुतिः श्लोकैः क्षमाह
द्वादशी कला ॥ १२ ॥
ग्रन्थकृतप्रशस्तिः ।
श्रीविश्वामित्रवंश्यः शिवभजनपरो भारतीसोमपीथी
काश्यां गम्भीरराजो बुधमणिरभवद्भास्करस्तस्य सूनुः ।
मोदच्छायामितायां शरदि शरहतावाश्विने कालयुक्ते
शुक्रे सौम्ये नवम्यामतनुत ललितानामसाहस्रभाष्यम् ॥ १ ॥
श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसंप्रदायात् ।
निश्चित्य निर्मथ्य कृतापि टीका शोध्यैव सद्भिर्मयि हार्दवद्भिः ॥ २ ॥
प्रमादो मेऽवश्यं भवति मतिमान्द्यादलसतः
पदार्थन्यायानामपि दुरवगाहलनियमान् ।
परं लन्तः सन्तः सदयहृदया नाममहिमा-
प्यपूर्वस्तस्मान्मे न खलु खलपापोभयभयम् ॥ ३ ॥
अम्ब लत्पदयोः समर्पितमिदं भाध्यं लया कारितं
लन्नामार्थविकासकं तव मुदे भूयादथ लां भजन् ।
यो नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा
संग्राहं न करोति तस्य ललिते माभूद्भवत्यां मतिः ॥ ४ ॥
नामैकं मामनयन्नामसहस्राम्बुधेः परं पारम् ।
जलविन्दुर्भवलजलधेर्येषां ते मे जयन्ति गुरुचरणाः ॥ ५ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्र श्रीमद्गम्भीरराय-
दीक्षितसूरिसूनुना भासुरेत्युपाख्येन भास्कररायेण भासुरानन्दनाथेतिदी-
क्षानामशालिना प्रणीतं सौभाग्यभास्कराख्यं ब्रह्माण्डपुराणीयश्री-
ललितारहस्यनामसहस्रभाष्यं संपूर्णम् ।
सम्पूर्णोऽयं ग्रन्थः ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ पूर्णतः रिक्त है।
70495
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ पूर्णतः रिक्त है।
इस पृष्ठ/जिल्द (cover) पर कोई पाठ (text) अंकित नहीं है। यह रिक्त लाल जिल्द (red cover) है।