कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 243, कुल 268 में से
संदर्भ में पढ़ें( २२६ )
seems to be desirous of speaking more. Not only he
who talks ill of the great, but also he who listens to
him is a sinner. 83
PURPORT IN SANSKRIT :—ब्रह्मचारिणः कथितं प्रत्याख्याय
ब्रह्मचारिणञ्च विवादात् विरमितुमादिश्य पार्वती स्वां सखीं
कथयति—यत् 'हे सखि ! अस्माकं पुरतः स्थितोऽयं वर्णी कम्प-
मानाधरत्वात् पुनरप्यधिकां शिवनिन्दां कर्त्तुमुद्यतो दृश्यते तस्मा-
दितो निस्सार्यताम् । एतेन कथिता शिवनिन्दास्माभिर्न श्रवणीया
यतो न केवलं स एव पुरुषः पापमवाप्नोति यो महापुरुषाणां निन्दां
करोति, अपि तु सोऽपि दोषी यस्तामाकर्णयति' । ८३ ॥
इतो गमिष्याम्यथ वेति वादिनी
चचाल बाला स्तनभिन्नवल्कला ।
स्वरूपमास्थाय च तां कृतस्मितः
समाललम्बे वृषराजकेतनः ॥ ८४ ॥
सम्प्रति गन्तव्यपक्षम्राश्रयते । इत इति । अथवा इत अन्यत्र
गमिष्यामि इति वादिनी वदन्ती स्तनभिन्नवल्कला स्तनाभ्यां भिन्न-
वल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराज-
केतनः वृषभध्वजः च स्वरूपं आस्थाय निजरूपमाश्रित्य कृतस्मितः
सन् । तां पार्वतीं समाललम्बे जग्राह ॥ ८४ ॥
PROSE ORDER :—अथवा (अहं) इतः गमिष्यामि इति
वादिनी बाला स्तनभिन्नवल्कला चचाल, वृषराजकेतनः च स्वरूपं
आस्थाय कृतस्मित तां समाललम्बे ॥ ८४ ॥
NOTES :—इतः—(इदं + तसिल् ) अस्मात् स्थानात् from
this place वादिनी—(√वद् + णिनि + ङीप् ) वदन्ती who