सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 54, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 54

कृषिपराशरः ११
गोहितः क्षेत्रगामी च कालज्ञो बीजतत्परः ।
वितन्द्रः सर्वशस्याढ्यः कृषको नावसीदति ॥८३॥
अथ वाहनविधानम्—
कृषिं च तादृशीं कुर्याद्यथा वाहान्न पीडयेत् ।
वाहपीडार्जितं शस्यं गर्हितं सर्वकर्मसु ॥८४॥
वाहपीडार्जितं शस्यं फलितं च चतुर्गुणम् ।
वाहनिःश्वासवातेन तद्द्रुतं च विनश्यति ॥८५॥
गुडकैर्यवसैर्धूमैस्तथान्यैरपि पोषणैः ।
वाहाः क्वचिन्न सीदन्ति सायं प्रातश्च चारणात् ॥८६॥
1 A कालबोज for कालज्ञो. D बालको (an obvious error) for
कालज्ञो ।
2 The first word in A is illegible. C सस्यग्रहणदक्षश्च for वितन्द्रः
सर्वशस्याढ्यः. D सुशिष्य for वितन्द्रः ।
3 A वाहपालनविधिः for वा...नम्. D inserts पालन bet. वाहन and
विधानम् ।
4 A एतादृशीं विद्यात् for च...कुर्यात् ।
5 C, D पितृदेवयोः for सर्वकर्मसु ।
6 C reads वाहपीडोज्झितं शस्यं फलत्येव चतुर्गुणम् ।
7 A द्रुतमेव for तद्द्रुतं च. B reads वाहनिःश्वासविफलः कृषको निःस्वतां
व्रजेत्. C दोषेण for वातेन. D reads the line thus वाहनिःश्वासात्फलं
कृतं सर्वं च नश्यति ।
8 A गुग्गुलैः, अपि and पोषणैः transposed. B गुण्डकैः for गुग्गुलैः.
C यवगोधूमै for यवसधूमै ।
9 C हीयन्ते for सीदन्ति ।
8-9 Omitted by D which reads instead—स च दारिद्र्यदोषेण पृथिव्यां
भ्रमति ध्रुवम् । चतुर्दिक्षु महादुःखी यो वाह्वान् परिपीडयेत् । वाहा दुःखं
न दीयन्ते सायं प्रातश्च वारणात् ॥