काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
iii
Page
Natural Description (XXIV) स्वभावोक्तिः . . 411
Dissembling Eulogy (XXV) व्याजस्तुतिः . 411
Connected Description (XXVI) सहोक्तिः 412
Private Description (XXVII) विनोक्तिः . 413
Exchange (XXVIII) परिवृत्तिः .. . 414
Visualisation (XXIX) भाविकम् . . 415
Poetic Reason (XXX) काव्यलिङ्गम् 416
Periphrasis (XXXI) पर्यायोक्तम् 418
Exalted (XXXII) उदात्तम् 419
Concatenation (XXXIII) समुच्चयः . 421
Sequence (XXXIV) पर्याय 424
Inference (XXXV) अनुमानम् . 426
Insinuation (XXXVI) परिकरः 427
Artful Assertion (XXXVII) व्याजोक्तिः . .. 428
Exclusion (XXXVIII) परिसंख्या 430
The Spring of Causes (XXXIX) कारणमाला . 432
Reciprocal (XL) अन्योन्यम् . 433
Answer (XLI) उत्तरम् . 434
Subtle (XLII) सूक्ष्मम् .. 436
Climax (XLIII) सारः . 437
Disconnection (XLIV) असङ्गतिः . 438
Convenience (XLV) समाधिः . . 439
Compatible (XLVI) समम् . .. 440
Incongruous (XLVII) विषमः .. .. 441
The Exceeding (XLVIII) अधिकम् .. . 443
Hostile (XLIX) प्रत्यनीकम् .. .. 444
Obscured (L) मीलितम् .. .. 446
Necklace (LI) एकावली .. .. 448
Reminiscence (LII) स्मरणम् .. .. 449
Illusion (LIII) भ्रान्तिमान् .. .. 450
iv
Page
The Converse (LIV) प्रतीपम् 451
Identification (LV) सामान्यम् 454
Extraordinary (LVI) विशेष 456
Quality Borrowing (LVII) तद्गुण 458
Non-borrowing of Quality (LVIII) अतद्गुण 459
Frustration (LIX) व्याघातः 461
Collocation of Figures (LX) संसृष्टि. 461
Commixture (LXI) संकर . 463
The Second Variety of Commixture अनिश्चय . 467
Alphabetical Index of Sanskrit Terms . 491-504
APPENDICES
APPENDIX A Sanskrit Versions of
Prakrit Verses प्राकृतश्लोकानां संस्कृतच्छाया iii-vii
APPENDIX B Index of the illustrative
verses occurring in Kāvya Prakāśa
काव्यप्रकाशस्थोद्धरणश्लोकसूची • viii-xlv
APPENDIX C Index of the first and second lines of
Kārikas of Kāvya Prakāśa काव्यप्रकाश-
कारिकाणां प्रथमद्वितीय पक्त्योरक्षरानुक्रम xlvi-liv
Abbreviations lv-lix
ॐ नमः शिवाय ।
काव्यप्रकाश-
कारिकावली
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ २ ॥
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ ३ ॥
तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि ।
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिबुधैः कथितः ॥४॥
अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ५ ॥
स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा ।
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोऽपि केषुचित् ॥ ६ ॥
सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते ।
साक्षात्संकेतितं योर्थमभिधत्ते स वाचकः ॥ ७ ॥
सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ।
स मुख्योऽर्थस्तत्र मुख्यो व्यापारोस्याभिधोच्यते ॥ ८ ॥
मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ९ ॥
स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ १० ॥
२
सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ।
विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ ११ ॥
भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा ॥ १२ ॥
व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।
तच्च गूढमगूढं वा तदेषा कथिता त्रिधा ॥ १३ ॥
तद्भूलाक्षणिकस्तत्र व्यापारो व्यञ्जनात्मकः ।
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ १४ ॥
फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ।
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ॥ १५ ॥
लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥ १६ ॥
एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ १७ ॥
ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ।
विशिष्टे लक्षण नैवं विशेषाः स्युस्तु लक्षिते ॥ १८ ॥
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ १९ ॥
तद्युक्तो व्यञ्जकः शब्दो यत्सोऽर्थान्तरयुक् तथा ।
अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ २० ॥
अर्थाः प्रोक्ताः पुरा तेषामर्थव्यञ्जकतोच्यते ।
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ २१ ॥
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ २२ ॥
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ २३ ॥
अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४ ॥
विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः ।
कोप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ २५ ॥
रसभावतदाभासभावशान्त्यादिक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ २६ ॥
कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ २७ ॥
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ २९ ॥
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ ३० ॥
निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ३१ ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ३२ ॥
सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ३३ ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ ३४ ॥
निर्वेदस्थायिभावोस्ति शान्तोपि नवमो रसः ।
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ ३५ ॥
भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः ।
भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ ३६ ॥
मुख्ये रसेपि तेऽङ्गत्वं प्राप्नुवन्ति कदाचन ।
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ ३७ ॥
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
अलङ्कारोथ वस्त्वेव शब्दाद्यत्रावभासते ॥ ३८ ॥
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।
अर्थशक्त्युद्भवोप्यर्थो व्यञ्जकः संभवी स्वतः ॥ ३९ ॥
प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालंकृतिर्वेति षड्भेदोसौ व्यनक्ति यत् ॥ ४० ॥
वस्त्वलंकारमथवा तेनायं द्वादशात्मकः ।
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥ ४१ ॥
रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
वाक्ये द्व्युत्थः पदेप्यन्ये प्रबन्धेप्यर्थशक्तिभूः ॥ ४२ ॥
पदैकदेशरचनावर्णेष्वपि रसादयः ।
भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥ ४३ ॥
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ ४४ ॥
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ४५ ॥
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ ४६ ॥
सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसङ्करैः ।
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ ४७ ॥
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ ४८ ॥
मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ४९ ॥
५
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम्॥५०॥
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ ५१ ॥
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्येपि दोषाः सन्त्येते पदस्यांशेपि केचन ॥ ५२ ॥
प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ ५३ ॥
अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिरतम् ॥ ५४ ॥
भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ ५५ ॥
संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ ५६ ॥
साकाङ्क्षोपदयवतः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोऽश्लीलः ॥ ५७ ॥
कर्णावतंसादिपदे कर्णादिध्वनिर्मितिः ।
संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥ ५८ ॥
ख्यातेऽर्थे निर्हेतोरदुष्टतानुकपणे तु सर्वेषाम् ।
वक्त्राद्यौचित्यवशाद्दोषोपि गुणः क्वचित्क्वचिन्न्नोभौ ॥५९॥
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ ६० ॥
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ ६१ ॥
अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ ६२ ॥
६
न दोषः स्वपदेनोक्तावपि संचारिणः क्वचित् ।
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ ६३ ॥
आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ६४ ॥
स्मर्यमाणो विरुद्धोपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्त्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ ६५ ॥
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ६६ ॥
उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् ।
हारादिवदलंकारास्तेनुप्रासोपमादयः ॥ ६७ ॥
माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ ६८ ॥
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥
बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥ ७० ॥
व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः ।
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ७१ ॥
केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ७२ ॥
तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ ७३ ॥
मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ ७४ ॥
योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ ७५ ॥
७
श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥ ७६ ॥
वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ ७७ ॥
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥ ७८ ॥
वर्णसाम्यमनुप्रासश् छेकवृत्तिगतो द्विधा ।
सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ ७९ ॥
माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते ।
ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ ८० ॥
केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः ।
शब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ ८१ ॥
पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः ॥ ८२ ॥
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ८३ ॥
वाच्यभेदेन भिन्ना यद् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥ ८४ ॥
भेदाभावात्प्रकृत्यादेर्भेदोपि नवमो भवेत् ।
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ ८५ ॥
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ ८६ ॥
साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा ।
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ ८७ ॥
तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।
उपमानानुपादाने वाक्यगाथ समासगा ॥ ८८ ॥
वादेर्लोपे समासे सा कर्मधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुल्येतद्विलोपे क्विप्समासगा ॥ ८९ ॥
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥ ९० ॥
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयो विपर्यास उपमेयोपमा तयोः ॥ ९१ ॥
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९२ ॥
तद्रूपकमभेदो य उपमानोपमेययोः ।
समस्तवस्तुविषयं श्रौता आरोपिता यदा ॥ ९३ ॥
श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् ।
साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥ ९४ ॥
नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ ९५ ॥
प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ ९६ ॥
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना ।
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ ९७ ॥
स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापheader / सापरा ।
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ९८ ॥
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ९९ ॥
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ १००॥
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ १०१ ॥
९
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ १०२ ॥
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥
मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ १०४ ॥
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ १०५ ॥
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ १०७ ॥
विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०८ ॥
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ १०९ ॥
विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः ।
जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ ११० ॥
क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ १११ ॥
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ ११२ ॥
विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।
परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ ११३ ॥
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ ११४ ॥
पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।
उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् ॥ ११५ ॥
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयोऽसौ स त्वन्यो युगपद् या गुणक्रियाः ॥ ११६ ॥
एकं क्रमेणानेकस्मिन् पर्यायोऽन्यस्ततोन्यथा ।
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ ११७ ॥
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ ११८ ॥
किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ ११९ ॥
यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात् क्रियया तु परस्परम् ॥ १२० ॥
वस्तुनोर्जननेन्योन्यमुत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ १२१ ॥
असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् ।
कुतोपि लक्षितः सूक्ष्मोप्यर्थोऽन्यस्मै प्रकाश्यते ॥ १२२ ॥
धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ १२३ ॥
भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ १२४ ॥
समाधिः सुकरं कार्यं कारणान्तरयोगतः ।
समं योग्यतया योगो यदि संभावितः क्वचित् ॥ १२५ ॥
क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ १२६ ॥
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥ १२७ ॥
११
महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वेप्यधिकं तु तत् ॥ १२८ ॥
प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ १२९ ॥
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ १३० ॥
स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ १३१ ॥
यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणं भ्रान्तिमानन्यसंवित्तुल्यदर्शने ॥ १३२ ॥
आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ १३३ ॥
प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ १३४ ॥
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ॥ १३५ ॥
अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ १३६ ॥
स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ १३७ ॥
तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः ।
यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ १३८ ॥
तथैव यद्विधीयेत स व्याघात इति स्मृतः ।
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः ।
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ १४० ॥
१२
स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम् ।
व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥ १४१ ॥
एषां दोषा यथायोगं संभवन्तोपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ १४२ ॥
॥ इति काव्यप्रकाशीयकारिकावली समाप्ता ॥
Variant Readings from the MS No. 42290 of the काव्यप्रकाशकारिकावली
of the सरस्वतीभवन Library of the वाराणसेय-संस्कृत-विश्वविद्यालय
१३
कारिका No. (According to the MS.) Readings in the Printed texts. Readings in the manuscript No. 42290.
१ There is no मङ्गलश्लोक दुग्धोदूषणनागेन्द्रमृगेन्द्रस्य गुरोः पदम् ।
नत्वा व्यातन्यते वृत्तिर्मम्मटेन विपश्चिता ।
२३ व्यञ्जकत्वे तच्छब्दस्य सहकारिता । व्यञ्जकत्वे हि तदन्यसहकारिता ।
२६ (क) रसभावतदाभासभावाशान्त्यादिरक्रमः । रसभास-तदाभास-भावभासादिरक्रमः ।
(ख) रसभावतदाभासभावा-
२७ रत्यादेः रसादेः ।
३२ जडता तथा जडता मता
३३ प्रबोधोऽमर्षश्च सुसंविबोधोऽमर्षश्च
३५ निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः । It is wanting in this MS.
१४
३६ तदाभासा अनौचित्यप्रवर्त्तकाः । -भासानौचित्यप्रवर्तिताः ।
३९ अर्थशक्त्युद्भवोप्यर्थः । अर्थशक्त्युद्भवोप्यर्थो ।
४२ अनन्तत्वात् । अनंत्यत्वात् ।
४८ चित्रार्थशब्दयोः । शब्दार्थचित्रयोः
४९ शब्दाद्यास्तेन तेष्वपि सः । शब्दाद्या तेष्वपि सः ।
५१ समासगतमेव । समासगतमेव । वाक्येप्याह ।
५४ समासं संकीर्णम् । समाससंकीर्णम् ।
परार्थं च वाक्यमेव तथा । परार्थ वाक्यमेव च तथा । अर्थदोषान् विशदयति ।
५६ निर्हेतुः निर्हेतु ।
५९ दोषोपि गुणःक्वचित्क्वचिच्चित्रोभौ । दोषोपि गुणः क्वचिच्चित्रोभौ । रसदोषानाह ।
६० ०भावानां शब्दवाच्यता । ०भावानां व्यभिशब्दवाच्यता ।
६१ अङ्गस्याप्यतिविस्तृतिः । अंगस्याप्यतिविस्मृतिः ।
६२ श्लोकंमध्ये रसदोषापवादमाह ।
६७ येऽङ्गद्वारेण • योगद्वारेण ।
श्लोकान्ते गुणानाह ।
१५
६७ श्लोकान्ते–एषां लक्षणमाह ।
७० शुष्केन्धनाग्निवत् । शुष्केन्धनाग्निवत् ।
७१ दोषत्यागात्परे स्थिताः । दोषत्यागात्परेस्थिता ।
७४ आद्यतृतीयाभ्याम् । आद्ययोगतृतीयाभ्याम्
७६ गुणोमतः –
गुणः स्मृतः
७७ अष्टमः–अथ शब्दालङ्कारः ।
७८ वर्णसाम्यमनुप्रासः वर्णसाम्यमनुप्रासः ।
८० केषांचिदेता वैदर्भी । एषांविदेता वैदर्भी ।
८७ तद्धिते तथा । तद्धिते यथा ।
९० विपर्यास उपमेयोपमा तयोः । विपर्यास उपमानोपमेययोः ।
९४ परस्य यः । परस्परः ।
९५ श्लेषः स वाक्य एकस्मिन् । श्लेषः स वाच्य एकस्मिन् ।
९६ अभवन् वस्तु० अभवद्वस्तु० ।
९७ क्रिययैव च सापरा । क्रिययैव हि सापरा ।
१०६ ०विषयः । ०विषये ।
१६
१०८ वा तदन्येन समर्थ्यते। वा यदन्यो न समर्थ्यते। यत्र
११२ सन्न नेतरः। सन्न चेतरः।
११४ ०वाचकत्वेन यद्वचः। वाचकत्वेन वस्तु यत्॥
११७ परिकरस्तु सः। परिकरस्तथा।
१२६ गुणक्रिये। गुणे क्रियाभ्याम्
१२९ समेन लक्ष्मणा वस्तुवस्तुना यन्निगृह्यते। समेनवलक्षणा वस्तु वस्तुना यद्विगृह्यते।
१३० परस्परम्। विशेषणतया यत्र वस्तु। परस्परम्। विशेषणतया न तद्वस्तु।
१३१ यथानुभवमर्थस्य। यथानुभवदृष्टस्य।
१३६ स्वमुत्सृज्य गुणं योगादत्युज्ज्वल- स्वमुत्सृज्य गुणा योगादित्यज्ज्वलगुणस्य तत्।
गुणस्य यत्।
१३८ यदिह स्थितिः। यदिहा स्थितिः।
१४० स्फुटमेकत्र विषये। स्फुटमेकार्थविषये।
१४२ तमसंख्यकः श्लोकोऽयं नास्ति मुद्रितेषु इत्येष मार्गोभिन्नोऽप्यभिन्नरूपो भासते यत्।
ग्रन्थेषु। न तद्विचित्रं यदमूत्र सम्यक्विनिर्मितिः संघटनैतन हेतुः।
काव्यप्रकाशः
प्रथम उल्लासः
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवता ग्रन्थकृत् परामृशति—
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १ ॥
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्यु-
पादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तै ,
तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्-
निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते
इति तां प्रत्यस्मि प्रणत इति लभ्यते ॥१॥
KĀVYAPRAKĀŚA
CHAPTER I
[OF THE AIM, SOURCE AND KINDS OF POETRY.]
In the beginning, the author invokes the appropriate
divinity for the destruction of all obstacles.
Splendid is the poet's speech, comprehending a creation which
is without the restraints of Nature's laws, full of pleasure alone,
independent of other helps, rejoicing in a nine-fold Rasa.—(1)
Brahmā's creation is subject to the laws of Nature,
is full of pleasure, pain and delusion, is dependent
upon material and co-operative causes, such as atoms and
actions (matter and motion) respectively—has only six
tastes, and these, too, not always of an agreeable nature.
The creation of the poet's speech, on the contrary, is
different, and hence is 'splendid'—an expression which
implies reverence to it. 1.
2 KĀVYAPRAKĀŚA
इहाभिधेयं सप्रयोजनमित्याह--
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ २ ॥
_ कालिदासादीनामिव यश श्रीहर्षादेर्धावकादीनामिव धनम्
राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थ-
निवारणम् ।
सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादन-
समुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधान-
वेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च
शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं
The author now states the subject-matter, together
with its aims :
Poetry brings fame and riches, knowledge of the ways of
the world and relief from evils, instant and perfect happiness,
and counsel sweet as from the lips of a beloved consort.—(2)
Fame—as to Kālidāsa and others , wealth—as to
Dhāvaka and other poets, from Śrī Harṣa and other
kings ; knowledge of rights and usages proper to kings
and others ; relief from evils—as to Mayūra, whose hymn
to the sun brought him a cure.
The chief aim of poetry, however, is the attainment
of the pure unmixed pleasure that follows instantane-
ously on the sensing of Rasa. When poetry exercises its
full functions, it helps the development of the various
Rasas (Emotions), sublating the direct effects of the word
and its meaning. As such poetry differs from the Veda,
in which the word, in the form of a master's command,
predominates ; it differs also from the Purāṇas, in which
the predominant element is friendly counsel (not to be