सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 45, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 45

वादेर्लोपे समासे सा कर्मधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुल्येतद्विलोपे क्विप्समासगा ॥ ८९ ॥
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥ ९० ॥
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयो विपर्यास उपमेयोपमा तयोः ॥ ९१ ॥
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९२ ॥
तद्रूपकमभेदो य उपमानोपमेययोः ।
समस्तवस्तुविषयं श्रौता आरोपिता यदा ॥ ९३ ॥
श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् ।
साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥ ९४ ॥
नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ ९५ ॥
प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ ९६ ॥
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना ।
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ ९७ ॥
स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापheader / सापरा ।
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ९८ ॥
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ९९ ॥
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ १००॥
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥ १०१ ॥