काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 42, कुल 616 में से
संदर्भ में पढ़ें५
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम्॥५०॥
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ ५१ ॥
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्येपि दोषाः सन्त्येते पदस्यांशेपि केचन ॥ ५२ ॥
प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ ५३ ॥
अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिरतम् ॥ ५४ ॥
भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ ५५ ॥
संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ ५६ ॥
साकाङ्क्षोपदयवतः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोऽश्लीलः ॥ ५७ ॥
कर्णावतंसादिपदे कर्णादिध्वनिर्मितिः ।
संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥ ५८ ॥
ख्यातेऽर्थे निर्हेतोरदुष्टतानुकपणे तु सर्वेषाम् ।
वक्त्राद्यौचित्यवशाद्दोषोपि गुणः क्वचित्क्वचिन्न्नोभौ ॥५९॥
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ ६० ॥
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ ६१ ॥
अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ ६२ ॥