सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 41, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 41

मुख्ये रसेपि तेऽङ्गत्वं प्राप्नुवन्ति कदाचन ।
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ ३७ ॥
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
अलङ्कारोथ वस्त्वेव शब्दाद्यत्रावभासते ॥ ३८ ॥
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।
अर्थशक्त्युद्भवोप्यर्थो व्यञ्जकः संभवी स्वतः ॥ ३९ ॥
प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालंकृतिर्वेति षड्भेदोसौ व्यनक्ति यत् ॥ ४० ॥
वस्त्वलंकारमथवा तेनायं द्वादशात्मकः ।
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥ ४१ ॥
रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
वाक्ये द्व्युत्थः पदेप्यन्ये प्रबन्धेप्यर्थशक्तिभूः ॥ ४२ ॥
पदैकदेशरचनावर्णेष्वपि रसादयः ।
भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥ ४३ ॥
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥ ४४ ॥
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ४५ ॥
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ ४६ ॥
सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसङ्करैः ।
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ ४७ ॥
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ ४८ ॥
मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ४९ ॥