सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 46, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 46

९
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ १०२ ॥
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥
मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ १०४ ॥
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ १०५ ॥
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ १०७ ॥
विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०८ ॥
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ १०९ ॥
विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः ।
जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ ११० ॥
क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ १११ ॥
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ ११२ ॥
विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।
परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ ११३ ॥
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ ११४ ॥