कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
७८ | कात्यायनश्रौतसूत्रम् ।
[ पूतीकानां सोमशब्देनैवाभिधानम् ]
सोमेन जात्याभावात् ॥ १ । ४ । १० ॥
सोमेनेति तृतीयैकवचनम्, सोमाभावे पूतीकेषूपात्तेषु सोमेनेति सोमश-
ब्देनैव पूतीकानामभिधानं कर्तव्यम् अंशुंरंशुष्टे देवसोमप्यायतामित्येवम् ( ३, ४,
३, १८,) न तु पूतीकाशब्देन ।
अथवा सोमे इति सप्तम्येकवचनम् नेति निषेधः,
सोमप्रतिनिधित्वेनोपात्तेषु अर्जुनश्येनहृतपूतीकादिषु सोमे सोमशब्दे
ऊहो न भवति । कुतः ? जात्याभावात् जात्यन्तरबुद्ध्यभावात् , न ह्यत्र वचनेन
द्रव्यान्तरं विधीयते, किं तर्हि, सोमाभावे यागस्यावश्यकर्तव्यत्वादनेकेषु सुसदृ-
शेष्वीषत्सदृशेषु च प्राप्तेषु पूतीकादेर्नियमः क्रियते, तेनैन्द्रो मेष इतिवद्वाचनि-
कजात्यन्तरविधानाभावादत्राप्यूहो न भवतीति ॥ १० ॥
अथेदं विचार्यते—वरुणप्रघासेषु पशौ च श्रूयते “पृषदाज्यं गृह्णाति”
(३,८,४,७,) तेनानुयाजेषु चरतीति च, प्रकृतौ चाज्यपदसंयुक्तनियमाः “सन्ति दे-
वानाज्यपानावह स्वाहा देवानाज्यपान् (१,४,२,१७,) देवानामाज्यपानां प्रिया
धामानि” (१,७,३,११,) “देवा आज्यपा आज्यमजुषन्ते”ति च, (१,३,१,१०)
आज्यपशब्देनात्र प्रयाजानुयाजदेवता उच्यन्ते “प्रयाजानुयाजा वै देवा आज्य-
पा” ( १,४,२,१७,) इति वाक्यशेषात् , अत्र च पृषदाज्येनानुयाजा इज्यन्ते,
तदिह संशयः आज्यपशब्दस्थानेऽज्यदधिपानित्येवमूहः अथवा दधिपानिति उत
पृषदाज्यपानिति आहोस्विदविकारेणैवाज्यपानिति प्रयोगः, यद्युभयं हविस्ततः
प्रथमः पक्षः, यदि दध्येव ततो द्वितीयः, यदि पृषदाज्यनामकं द्रव्यान्तरं हवि-
स्ततस्तृतीयः, अथ त्वाज्यमेव हविः तस्य तु पृषत्त्वं चित्रता संस्कारमात्रम् तज्जन-
नार्थं च दधि ततः सिद्धान्तः । तत्र “अथ पृषदाज्यं गृह्णाति द्वयं वा इदꣳ सर्पि-
श्चैव दधि चेति” ( ३,८,४,७,) तुल्यवत्सङ्कीर्तनादुभयं हविः उभयमप्यनुष्ठा-
नाङ्गत्वेन स्मर्तव्यम् तस्मादुभयोः प्रकाशनम् , अथवा शाखान्तरे द्विरुपस्तृणाति
द्विरवद्यति सकृदभिघारयती”त्युपस्तरणाभिघारणवादाद्दधिसंस्कारार्थमाज्यम् द-
ध्येव हविः, ततो दधिपानित्येवं वक्तव्यम् , नैतदुभयम् , ग्रहणे हि दध्याज्ययो-
स्तुल्यत्वं दध्नो वा प्राधान्यं गम्यते, यागेत्वाज्यमेव पृषत्तागुणकं करणत्वेन श्रुत्या
विधीयते, नोभयम् , नापि दधि, यच्च यागद्रव्यम् तदर्थो ग्रहणसंस्कारः, तस्मा-
[Header] देवयाज्ञिकभाष्यसमेतम्। ७९
द्रूहणेऽप्याज्यमेव प्रधानम्, तस्य तु पृषतासम्पादनार्थं दधि गृह्यते, न स्वार्थेना-
नुपयोगित्वात्, तथाविधे तु दध्नि तुल्यनिर्देश उपस्तरणादिवादेन च प्राधान्य-
निर्देशोऽर्थवादमात्रम्, तस्मादविकारः। अन्यस्त्वाह, दध्ना आज्येन च द्रव्यान्तरं
निष्पद्यते, तस्य वाचकः पृषदाज्यशब्दः, तच्च हविः पृषदाज्येनानुयाजान्यज-
तीति, तस्मात्पृपदाज्यपानित्येवं वक्तव्यमिति प्राप्त आह—
(पृषदाज्यस्यापि आज्यशब्देनैवाभिधानम्)
आज्येचादर्शनात् ॥ १।४।११॥
अविप्रतिपत्तिरित्यनुवर्तते। पृषदाज्येनानुयाजान्यजतीति वाचनिके पृष-
दाज्ये सत्यपि आवाहनादि निगमेषु आज्ये आज्यशब्दे अविप्रतिपत्तिरविकारः,
देवानाज्यपानित्येव वक्तव्यमित्यर्थः। कुतः? अदर्शनात्, आज्यव्यतिरिक्तस्य
द्रव्यान्तरस्यादर्शनात्, तथाहि स्याद्विकारो यदि पृषदाज्यशब्दः समुदायशक्त्या
द्रव्यान्तरमभिधत्ते, न त्वेवमस्ति, पृषच्छब्दो लोके चित्रवचनः, पृषद्रज्जुः पृष-
न्ममणिरिति तेन पृषदाज्येनेति चित्रेणाज्येनेत्यर्थः, तेन प्राकृतस्यैवाज्यस्य चित्र-
तागुणमात्रविधानम्, गुणश्च सम्पादयितुं दधि गृह्यते प्राधान्यनिर्देशोऽर्थवाद-
मात्रम्, हविरेव च प्रकृतावुपलक्षितम्, न हविर्गुणः तस्मादधिकारेणाज्यपानित्येव
वक्तव्यमिति सिद्धान्तः ॥११॥ किं च,
पशौ मन्त्रवर्णात् ॥ १।४।१२॥
पशावेवोत्तमप्रयाजमैषे पठ्यते, “स्वाहा देवा आज्यपा” इति [२१,
४०,], वनस्पतिप्रैषेऽपि “देवानामाज्यपानां प्रियाधामानि” [२१,४६] इति
स्विष्टकृत्प्रैषेऽपि “अयाड् देवाञ्आज्यपानाम्” [२१,४७,], इति तत्र नियमतः
पृषदाज्येनैवानुयाजा इज्यन्ते, अत एव पशुसम्बन्धिनो मन्त्रवर्णाद्देवानाज्यपा-
नित्यावाहनादि भवतीति गम्यते ॥१२॥ किं च,
श्रुतेश्च ॥ १।४।१३॥
एकवचनश्रुतेरप्यत्रैकस्यैव प्रधानं गम्यते नोभयोः, अथ, “पृषदाज्यं गृ-
ह्णाति” इति (३, ८, ४, ७) यदि चात्र दध्नोऽपि प्राधान्यं स्यात्तदा द्विव-
चनं श्रूयेत, न च श्रूयते, अत एकवचनश्रुतेरप्ययमेवार्थोऽवसीयते यदेकस्यै-
वात्र प्राधान्यमिति तत्त्वाज्यस्यैवेति प्राक्साधितम् ॥१३॥
अथेदं विचार्यते “व्रीहिभिर्यजेत” “यवैर्यजेत” इतिविकल्पेन विहितेषूभयेषु
मध्ये एकेन व्रीहिद्रव्येण प्रारब्धे कर्मणि तस्य नाशदोषापहारादिके जाते पश्चाद्य-
or प्रतिनिधेयम्?
LOOK AT LINE 18:
विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् ???
Wait! Look at line 18:
विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् or प्रतिनिधेयम्?
Let's read character by character:
प्र ति नि धि षे य म्!
Wait! Is that षे or धे?
It has a loop with a diagonal slash inside? No, it's धे!
Wait, compare धे in प्रतिनिधेयम् with षे:
In Devanagari, ध has a curl at the top left. प्रतिनिधेयम्: प्र ति नि धे य म्!
Ah, it's प्रतिनिधेयम्! There are only 5 syllables: प्र-ति-नि-धे-यम्. Not प्रतिनिधिषेयम्!
Wait, why did I think 6 syllables earlier? Let's look at line 18:
यवादिकन्न (य-वा-दि-क-न्न)
प्रतिनिधेयम् (प्र-ति-नि-धे-यम्) -> wait, is that प्रतिनिधेयम्?
Yes
Here is the line-by-line transcription of the Sanskrit text from the image:
देवयाज्ञिकभाष्यसमेतम् । ८१
( प्रतिनिधिनाशे श्रुतसदृशस्योपादानम्, न प्रतिनिधिसदृशस्य )
प्रतिनिधाै तत्कालात् ॥ १।४। १५ ॥
प्रतिनिधिद्रव्ये नीवारादौ विनष्टे न प्रतिनिधिभूतनीवारादिसाम्येन प्रति-
निध्युपादानं किन्तु मुख्यद्रव्यमेव व्रीहिरूपमुपादेयम् सम्भवे, तदसम्भवे तु मुख्य-
सादृश्येन नीवारादिः प्रतिनिधिरुपादेयः, न तु प्रतिनिहितनीवारसादृश्येन ।
कुतः ? तत्कालात् । स कालो यस्यासौ तत्कालः, भावप्रधानो निर्देशः, प्रतिनिधे-
स्तत्कालत्वादित्यर्थः । यतः प्रतिनिधेः स एव कालो यो मुख्यद्रव्यस्याभावः, तेन
प्रतिनिधाै नीवारे विनष्टे मुख्यस्य लाभे मुख्यमेव ग्राह्यम्, तदलाभे नीवारादिकं
व्रीहिसदृशमेवेति, न तु कदाचिन्नीवारसदृशमित्यर्थः । न हि नीवाराणामङ्गत्व-
मस्ति, श्रुतिलिङ्गादिप्रमाणा
८२ कात्यायनश्रौतसूत्रम् ।
नत्वम्, तेन मुख्यद्रव्ये सति भ्रान्त्या प्रतिनिधिद्रव्येण यागे कृते पुनर्मुख्य-
द्रव्येण यागावृत्तिः ॥ १५ ॥
अथ यत्रार्थद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा मुख्यं द्रव्यं खादिरादिकं
नियोजनादिकार्यासमर्थं विद्यते, प्रतिनिधिद्रव्यं च कार्यसमर्थम्, तत्र यदि
मुख्यं द्रव्यं गृह्यते, तदा तेन कार्यं नियुक्तपश्वनपक्रमणरूपं न सिध्यति, यदि च
कार्यसिद्धिसमर्थं प्रतिनिधिद्रव्यं गृह्यते तदा मुख्यद्रव्यं गृहीतं न स्यात्, तत्रैवं
सन्देहः, किं कार्यसाधनासमर्थमपि मुख्यं ग्राह्यम्, उत मुख्यमनादृत्य कार्यसमर्थं
प्रतिनिधिद्रव्यमिति, तत्र मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेन मुख्यस्यैव
परिग्रहे प्राप्ते सिद्धान्तसूत्रम्—
( कार्यासमर्थश्रुतद्रव्यसत्त्वेऽपि तत्समर्थप्रतिनिधेरेवोपादानम् )
अर्थद्रव्यविरोधेऽर्थसामान्यं तत्परत्वात् ॥ १ । ४ । १६ ॥
अर्थः प्रयोजनं कार्यमिति यावत्, द्रव्यं मुख्यद्रव्यम्, अर्थद्रव्यविरोधे
कार्यमुख्यद्रव्ययोर्विरोधे सति अर्थसामान्यम्, अर्थेन प्रयोजनेन कार्येण सामा-
न्यम् संयुक्तं कार्थसिद्धिसमर्थं यत् तदश्रुतमपि प्रतिनिधिद्रव्यमुपादेयम् । कुतः ?
तत्परत्वात्, द्रव्यस्यार्थपरत्वात्, कार्यार्थत्वात्, कार्यार्थं हि द्रव्यं न त्वदृष्टार्थम्,
येन च कार्येन सिध्यति तच्छुतमपि सहश्रुतसममेव, अतो द्रव्यस्य प्रयोजनार्थ-
त्वात्तद्विरोधे तु श्रुतमप्यनादृत्य प्रयोजनक्षममेवाश्रुतमपि प्रतिनिधिद्रव्यमेवो-
पादेयम्, नतु मुख्यं कार्यासमर्थमिति सिद्धान्तः ।
तदुक्तं जैमिनिना “ अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तिर्द्र
श्रीहिशास्त्रस्य नात्यन्तबाधोऽपि, व्रीह्युपादाने तु शेषकार्याणामत्यन्तलोपः स्यात्,
[अतः] प्रधानाङ्गभूतपुरोडाशजात्यभिव्यक्तिमात्रसमर्थेषु सत्स्वपि व्रीहिषु शेष-
कार्यविध्यबाधाय नीवारा एवोपादेया इति पूर्वः पक्षः।
सिद्धान्तस्तु, श्रुत्या तावद्यागाङ्गत्वमेव व्रीहीणामवगम्यते, वस्तुतोऽपि
तथा, यद्यपि पुरोडाशप्रकृतित्वं व्रीहीणामवगम्यते, तथापि तदवयवा एव
पुरोडाशतामापन्ना यागद्रव्यं भवन्ति, ते च नीवारेषूपादीयमानेषु विगुणा
भवन्ति, ततश्च प्रधानमेव विगुणं स्यात्, तच्चान्याय्यम्, तस्मात्प्रधानाङ्गभूतपुरो-
डाशजात्यभिव्यक्तिसमर्थेषु सत्सु शेषकार्याण्यनादृत्य व्रीहिभिरेव पुरोडाशः कार्यो
न शेषकार्यानुरोधेन नीवारोपादानमिति सिद्धम् । तदुक्तं मण्डनेन “अवत्तमात्रप-
र्याप्तव्रीहिद्रव्यस्य सम्भवे पुरोडाशमहत्वार्थं न नीवारपरिग्रहः” इति ॥
एवं सान्नाय्येऽपि प्रधानयागसाधनसमर्थे स्रुवद्वयत्रयपरिमाणमपि यावत्
दुग्धं लभ्यते कथंचित् तावत् चरुसान्नाय्यालाभ” इति-चरू न भवतः, अव-
दानमात्रसमर्थमुख्यद्रव्याभावे त्वर्थद्रव्यविरोधेऽर्थसामान्यम् ” (२५,५,६)
इति न्यायेन प्रतिनिधिमुपादानमेव युक्तम् ॥१६॥
अथ यत्र गुणद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा “नैर्ऋतः परिवृत्यै कृष्णव्री-
हीणां नखनिर्भिन्नानाम्” (१५,३,१४,) इति
८४ कात्यायनश्रौतसूत्रम् ।
न समत्वात् ॥ १ । ४ । १८ ॥
द्रव्यमेव प्रधानयोगीति यदुक्तम् तन्न, कुतः ? समत्वात्, उभयोर्गुणद्रव्ययोः
सहश्रुत्वात् । द्रव्यमपि प्रधानयोगि श्रुतत्वाच्च गुणोऽपीति ॥ १८ ॥
एवं प्राप्त उक्तमेव सिद्धान्तं दृढयति—
गुणानुग्रहात् ॥ १ । ४ । १९ ॥
गुणेनानुगृहीतं विशेषितं द्रव्यमेव प्रधानयोगि, गुणस्तु तत्र विशेषणमात्रम्,
विशेष्यं तु द्रव्यमेव, अतो विशेषणविशेष्ययोर्विशेष्ये सम्प्रत्यय इति न्यायाद्द्रव्य-
मेव गुणानुगृहीतं प्रधानयोगीति नैतदुभयं समम् । अत एवाग्निहोत्रे “पुंवत्साया
अग्निहोत्र्याः” (४,१४,१) पयसोऽभावे पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्साया
अप्यग्निहोत्र्याः पयसा होतव्यम् । एवं पालाशानां परिधीनामाद्रीणामभावे
(२,८,२०) आर्द्रत्वरूपं गुणं त्यक्त्वा शुष्का अपि पालाशा ग्राह्याः । बाहुमात्रा
णामसम्भवे (२,८,१,) अबाहुमात्रा अपि । एवं सर्वत्रोह्यम् ॥
यदा पुनः खदिरस्तनुत्वात्तक्षणादिसंस्काराणामयोग्यः नियोजनमात्रे
योग्यः कदरश्च महान्संस्कारयोग्यस्तदा कस्योपादानमिति सन्देहः, तत्र संस्कार-
क्षमकदरोपादाने खदिरविधेर्वैकल्पिकमात्रत्वेनात्यन्तपीडाभावात्, अक्षमखदिरो-
पादाने तु संस्कारविधीनामत्यन्तपीडाप्रसङ्गात् प्रातनिधिरेवोपादेयः, मैवम्,
नहि गुणानुरोधेन प्रधानमुपरोद्धव्यं भवति, तेन भवतु संस्काराणामत्यन्तपीडा
न तु प्रधानं तदनुरोधेन कथञ्चिदपि पीडयितव्यम्, तस्मात्तक्षणाद्यसंस्कृतेव
खदिरे पशुं नियुञ्जीत । तदुक्तं जैमिनिना “द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्”
(६,३,३५,) इति । यदा पुनर्मुख्यमलभ्यं मत्वा प्रतिनिधिमुपादातुं प्रस्थितेना-
न्तरामुख्यं लब्धम्, तदा प्रतिनिधेः सङ्कल्पितत्वात् मिथ्यासङ्कल्पदोषपरिहाराय
मुख्यमनादृत्य प्रतिनिधिरेवापादेय इति प्राप्तेऽभिधीयते-यथाशक्तिशास्त्रार्थ-सम्पा-
दयामीत्येवं शास्त्रार्थविषय एव सङ्कल्पः कर्तव्यः न प्रतिनिधिस्वरूपं सङ्कल्पाय-
तव्यम् । न च मुख्ये विद्यमाने प्रतिनिधिः शास्त्रार्थो भवति, समग्रानुष्ठानशक्त्याम-
सत्यां हि विकल्पाङ्गानुष्ठानमपि शास्त्रीयं भवति न सत्यामिति, तस्मान्मुख्यप्राप्तौ
मुख्यमेवोपादेयम्, तदुक्तं जैमिनिना “मुख्याधिगमे मुख्यमागमो हि तद्भा-
वात्” (६,३,३२,) इति ॥
यदा पुनर्मुख्यं खदिरमलब्ध्वा प्रतिनिधिं कदरमुपादाय तक्षणादिषु
कतिचित्संस्कारेषु कृतेषु प्राक्पशुनियोजनात्खदिरं लभते, तदा किमुपात्तेन
प्रतिनिधिना कार्यं कुर्यात् , उत तच्चागेन मुख्यमेवोपादाय संस्कारांश्च पुनः कृत्वा
तत्रैव पशुं नियुञ्जीतेति संशयः । तत्रोपात्ते प्रतिनिधौ निवृत्तव्यापारं शास्त्रं
नान्यदुपादापयति तस्मान्न मुख्योपादानमिति प्राप्ते ब्रूमः ।
नोपादानपरं शास्त्रम् , येन तस्मिन्कृते निवृत्तव्यापारं स्यात् , प्रधानानुष्ठा-
नार्थं शास्त्रम्, तच्च प्रधानं सति मुख्ये प्रतिनिधिना क्रियमाणं विगुणं स्यात् ,
अतः संस्कृतमपि कदरं हित्वा खदिरं संस्कृत्य तस्मिन्पशुर्नियोक्तव्यः, ये च
कदरे कृताः संस्कारास्तेषां खदिर आवृत्तिः स्यात् , प्रधानवशेन गुणावृत्तेर्न्या-
य्यत्वात् । एवं पशुव्रीह्यादिष्वपि द्रष्टव्यम् । तत्रापि प्राक्त्यागान्मुख्यद्रव्यलाभे
संस्कृतमपि पुरोडाशादिकं प्रतिनिधिद्रव्यं निष्पादितं त्यक्त्वा, मुख्यद्रव्येण
पुरोडाशान्तरं संस्कृत्य, तेन यागः साधनीय इति । तदुक्तम् "प्रवृत्तेऽपीति
चेत्" (जैमिनि. ६,३,३६) इति ॥
अथ यथा प्रतिनिधिना नियोजने कृते यदा मुख्यमुपलब्धम्, तदा कृतमपि
नियोजनं साद्गुण्याय पुनः खदिरे कर्तव्यमिति मन्वानस्योत्तरम्, कृते नियो-
जने लब्धोऽपि खदिरोऽनर्थक एव, नियोजनार्थं हि तदुपादानम्, तच्च कृतम्,
न गुणानुरोधादावर्तयितव्यम्, अतो नादर्तव्यः खदिरः । तदुक्तम् "नानर्थ-
कत्वात्" (जैमिनि. ६,३,३७,) इति
अथवा सूत्रद्वयमिदेकाधिकरणम्, प्रवृत्तेऽपि, कृतेऽपि प्रधाने मुख्यो-
पादानं स्यादिति चेत्, नानर्थकत्वादिति ॥ १९ ॥
॥ इति चतुर्थी कण्डिका ॥ ४ ॥
अथेढं विचार्यते-यान्येकप्रधानसम्बन्धीन्यङ्गकर्माणि किं तेषामनुष्ठाने
कश्चित् क्रमनियमो नास्ति, उतास्तीति, तत्र सूत्रेणैव पूर्वपक्षमाह-
( श्रुत्यर्थपाठैः क्रमनियमः )
कर्मणामानुपूर्व्यं न तु युगपद्भावात् ॥ १ । ५ । १ ॥
आनुपूर्व्यं पौर्वापर्यं क्रम इत्यनर्थान्तरम्, कर्मणामिति अग्न्यन्वाधानादी-
नामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनियमो न भवति । कुतः ? .युगप-
८६ कात्यायनश्रौतसूत्रम् ।
द्भावात्, अतस्तान्यङ्गानि यदा प्रधानेनापेक्ष्यन्ते, तदा युगपद्भावेनैव सहैव सम्बन्धं
प्राप्नुवन्ति न क्रमेण, ततश्चैषां नियमेन क्रमेणानुष्ठाने कारणाभावात् कर्तुरेक-
त्वादवश्यम्भाविनी क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम् ॥ १ ॥
अर्थनिर्वृत्तेश्च ॥ १ । ५ । २ ॥
येन केनचित्क्रमेणाङ्गानुष्ठाने क्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः
सुखेनैव भवति, नियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतः प्रती-
क्षणेन विलम्बाद्वहुना कालेन स्यात्, तथा सति :प्रयोगे प्राशुभावो न स्यात्,
प्रधानप्रत्यासत्त्या कालो ह्यङ्गानां विहितः, अङ्गानां नियतक्रमेणानुष्ठाने च सोऽपि
अतिक्रान्तः स्यादिति, तस्मादङ्गानुष्ठाने क्रमनियमो नेति पूर्वः पक्षः ॥ २ ॥
सिद्धान्तमाह—
स्याद्वाऽऽनुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः ॥ १ । ५ । ३ ॥
वाशब्दः पूर्वपक्षनिरासार्थः । अग्न्यन्वाधानादीनामङ्गकर्मणामानुपूर्व्यनियमः
स्यात्, अनुष्ठाने क्रमनियमो भवेत् नानियमः । केभ्यः प्रमाणेभ्यः, श्रुत्यर्थक्र-
मेभ्यः, श्रुतेः, अर्थात्क्रमाच्च। श्रुतेस्तावत्, यथा द्वादशाहे “तेषां गृहपतिः प्रथमो
दीक्षते” (१२,१,१,१) “अथ ब्रह्माणं दीक्षयति, अथोद्गातारम्, अथ होतार-
म्”इत्यादिनात्र ब्रह्मादीनां दीक्षा विधीयते, यजमानत्वादेव तस्याः प्राप्तेः,
क्रमस्य त्वन्यतः प्राप्त्यभावात् स एवात्र विधीयते, तथा “तस्मादेष दशमो ग्रहो
गृह्यते तृतीय एव वषट्क्रियते” (४,१,५,१६) इति । अयमपि श्रुतिक्रम एव ।
अर्थादपि क्रमोऽवगम्यते, तद्यथा, पेषणसंयवनयोरवघातपेषणयोश्च “अग्निहोत्रं
जुहोति” “यवागूं पचति” इति क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततो होम इति,
होमद्रव्यं हि यवागूः तदुत्पत्यर्थः, श्रुत्या लिङ्गेन च पाकः, स च पश्चात्क्रियमाणोऽ-
नर्थकः स्यात्, होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्यः । क्रमः
पाठक्रमः, स च द्विविधः, श्रुतिपाठक्रमो, मन्त्रपाठक्रमश्च, उभयविधोऽपि क्रम-
नियमे कारणं भवति, नियतेन हि क्रमेण पदार्थविधिपाठा मन्त्रपाठश्च वर्तते,
तत्रैवमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च तेनैव क्रमेणानुष्ठानमिति,
क्रमान्तरेणानुष्ठाने त्ववगतस्य क्रमस्य त्यागः, अनवगतस्य क्रमस्योपादानमिति,
असङ्गतं स्यात्, तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्मणां भवतीति ॥ ३ ॥
देवयाज्ञिकभाष्यसमेतम् । ८७
प्राकृतं च विकृतौ ॥ १ । ५ । ४ ॥
अतोऽपि कारणात्पाठक्रमेणाङ्गकर्मणामनुष्ठानं भवति, यतो विकृतौ प्राकृ-
तमेव क्रमं श्रुतिरनुवदति, यथा महापितृयज्ञे "स तत एव प्राक्स्तम्बयजुर्हरती" त्या-
दिना "स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाती"त्येवमन्तेन (२,६,१,१२,)
अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं क्रमं दर्शयति यदि पाठक्रमेणा-
नुष्ठानं न स्यात् तदानेनैव क्रमेणानुवादो न स्यात् ॥
अपरे त्वन्यथा व्याचक्षते, प्राकृतं च विकृतौ प्राकृतवैकृतयोः
कर्मणोः सन्निपाते प्राकृतं पूर्वं कर्तव्यम्, पश्चाद्वैकृतमिति । तद्यथा "प्रकृतौ
प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते ” (३,६,१५,) इति । “मस्तरतृणा-
नुमहरणानन्तरमात्मालम्भ उक्तः विकृतौ च प्रहृत्य तृणं तेन चरति”
(४,४,११,) इति । तृणानुमहरणानन्तरं वाजिनयाग उक्तः, तत्र पूर्वं प्राकृतमात्मा-
लम्भोदकस्पर्शरूपं कृत्वा पश्चाद्वाजिनयागः कर्तव्यः । तथा प्रकृतौ हविरासाद-
नोत्तरकालं हविरालम्भात्मालम्भोदकालम्भा विहिताः, विकृतौ च “असाद्य हवीग्ँ-
ष्यग्निं मन्थति” (३,४,१,१९) इत्यग्निमन्थनं हविरासादनोत्तरकालं विहितम्,
तत्र पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतमग्निमन्थनम् ।
एवं "अथासाद्य स्रुचोऽपं उपस्पृश्य राजानं प्रपादयति” (२,६,३,१७) इत्येत-
दप्युदाहार्यम् । अत्रापि पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं
सोमप्रपानादि । तथा पितृयज्ञे परिषेकात्प्रागिडामक्षणमार्जनपवित्रप्रतिपत्ति-
दक्षिणादानान्त्यत एव सिद्धानि । सुत्यायां च सवनीयपुरोडाशानां निर्वपनादू-
र्ध्वभाविनः प्रागलङ्करणाद्ये पदार्थाः, तेषां प्राक्प्रचरणीहोमादत एवानुष्ठानं
सिद्धम् । अत एव पशौ प्राकृतं पूर्वमित्यस्य बाधनाय यत्नं करोति, “उत्तराया-
रमाघार्य पशुं पूर्वं समनक्ति” (६,४,२) इत । अत्र पूर्वमित्यनेन प्राकृतध्रुवास-
मञ्जनात्पूर्वं पशुसमञ्जनं विदधाति । तस्मात्समीचीनमेतद्व्याख्यानम् ॥ ४ ॥
अथ क्रमप्रमाणानां विरोधे बलाबलं निर्णीयते । यत्र पाठक्रमार्थक्रमयो-
र्विरोधो भवति, तद्यथा "स वै पर्णशाखया वत्सानपाकरोति तामाच्छिनत्ति”
(१,७,१,१,२) इति पाठक्रमः, अर्थस्त्वनेन क्रमेण न सिध्यति, न ह्यच्छिन्नया
वृक्षस्थया शाखया वत्सापाकरणं कर्तुं शक्यते, वत्सापाकरणायैव च छेदनमिति,
तत्र किं पाठक्रमाध्यवसानमुतार्थक्रमादिति संशय आह—
८८ कात्यायनश्रौतसूत्रम् ।
( पाठक्रमार्थक्रमस्य बलीयस्त्वम् )
विरोधेऽर्थस्तत्परत्वात् ॥ १ । ५ । ५ ॥
पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रम एव बलीयान्, न पाठक्रमः । कुतः ?
तत्परत्वात्, पाठस्यार्थपरत्वात् अर्थार्थत्वात्, कार्यसिद्धयर्थत्वादित्यर्थः । तेन
पूर्वं छेदनं पश्चात्त्या छिन्नया शाखया वत्सापाकरणमिति ॥ ५ ॥
अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति, तद्यथा “संस्थिते
यज्ञे ब्राह्मणं तर्पयित वै ब्रूयात् ” (१,७,३,२८) इति श्रुतेः । “कर्मणि समाप्ते
प्रैषं विदधाति” पाठक्रमात्तु स्विष्टकृतः पश्चात्प्राशीत्रावदानाच्च पूर्वमिति तत्र
केन क्रमेणानुष्ठानमिति संशये सत्याह—
( श्रौतक्रमस्य सर्वापेक्षया बलवत्त्वम् )
श्रुतिः क्रमादानुमानिकत्वात् ॥ १ । ५ । ६ ॥
क्रमादिति श्रुतिपाठक्रमाच्छुतिर्बलीयसी, तेन श्रुतिमतीत्क्रमेणैव संस्थिते
कर्मणि प्रैषोच्चारणम्, न पाठक्रमेण । कुतः ? आनुमानिकत्वात् । पाठक्रमस्य
अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः “संस्थिते यज्ञे” इति पा-
ठक्रमेत्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ
इति, दुर्बलं च प्रत्यक्षादनुमानम्, अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम् । एवम्
“तस्मादेष दशमो ग्रहो गृह्यते” “तृतीय एव वषट्क्रियते” (४, १, ५, १६)
इत्येतदप्यत्रोदाहरणम्, किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते, उत श्रुतिबलाद्दशम
इति, तत्र श्रुतिबलात्तु दशम इति सिध्यति ॥ ६ ॥
अथ यत्र चोदना पाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति ।
यथाज्याधिश्रयणे “सोऽसावाज्यमधिश्रयतीषेत्वेत्यधिश्रयणं विधाय तदनन्तरमेव
“तत्पुनरुद्वासयत्यूर्जेत्वे”ति (१,२,२,६) चोदनपाठक्रमः मन्त्रपाठे आज्याधि-
श्रयणमन्त्रानन्तरं “घर्मोऽसि विश्वायुरि”त्यादि [१,२२,] पत्नीसन्नहनमन्त्रान्तं
मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र ऊर्जेत्वेति [ १, ३०,] पठितः । पूर्वा-
धिकरणे क्रमाच्छ्रुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम्, अत्रोभयोः प्रत्यक्षत्वात्किं चोद-
नापाठक्रमेणाज्योद्वासनं कर्तव्यमुत मन्त्रपाठक्रमेणेति संशये सत्याह—
देवयाज्ञिकभाष्यसमेतम् । ८९
( चोदनापाठान्मन्त्रपाठो बलवान् )
मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात् ॥ १ । ५ । ७ ॥
मन्त्रचोदनयोरिति मन्त्र [पाठचोदना ] पाठयोर्विरोधे मन्त्रबलम्, मन्त्र-
पाठ एव बलवानित्यर्थः । कुतः ? प्रयोगित्वात् मन्त्राणाम्, मन्त्रा हि कर्मकाले
प्रयुज्यन्ते पठ्यन्ते, न चोदनावाक्यानि, अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः,
चोदनापाठस्तु विप्रकृष्टः । तथाहि, “समिधो यजति” ( १, ५, ३, ९ ) इत्येनेन
पदार्थो विहितः, सोऽनुष्ठानवेलायां येन वाक्येन विहितस्तद्वाक्यं स्मारयति,
तेन वाक्येन स्मृतेनानुष्ठानवेलायां स्वपदार्थः स्मारितः सन्ननुष्ठीयते, इतीतरे-
तराश्रयं स्यात्, अर्थेन वाक्यं स्मार्यते, वाक्येन चार्थ इति । नैष दोषः सामान्य-
विशेषभेदात्, सामान्येन हि दार्शिकमङ्गं कर्तव्यमित्यवगम्यते, विशेषस्मरणार्थ-
विधायकं वाक्यमालोचयति, तेन चालोचितेन पश्चात्तदर्थविशेषः स्मारितोऽ-
नुष्ठीयते, अनुष्ठितश्चासौ झटित्येवं द्वितीयं पदार्थं न स्मारयति, अर्थानां ग्रन्थान-
पेक्षेण रूपेण पौर्वापर्यस्यानक्लृप्तत्वात्, किं तर्ह्यनुष्ठानोत्तरकालं योऽसौकृतस्तमा-
लोचयति, समिद्यागोऽयं कृत इति, स चालोच्यमानो येन “समिधो यजति” इत्यनेन
( १, ५, ३, ९ ) ब्राह्मणवाक्येन विहितस्तत्स्मारयति, तच्च स्मृतं स्वादुत्तरं
“तनूनपातं यजती” त्येतत् स्मारयति, कुतः ? पाठात्, ततः परं हि तत्पठितमिति,
तद्ब्राह्मणं पुनः पदार्थं विदधाति, विधिरेव तस्य कार्यम्, न स्मृतिः। अनुष्ठान-
वेलायां तदेव ब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोगकालाद्बहि
र्भूतं स्मारकमपेक्षितम्। अयं मन्त्रपाठाद्ब्राह्मणपाठे विप्रकर्षः। मन्त्रः पुनरन्तः-
क्रतुप्रयुज्यमानः परिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति, स चोत्तरो मन्त्रः
पर्युपस्थाप्य उत्तरं पदार्थं पर्युपस्थापयन्नेव पर्युपतिष्ठते, तस्मात्तत्रालोचनान्तरा-
पेक्षाभावान्नास्ति विप्रकर्षः। एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमः। नच
मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम् अप्रयुज्यमानतया सामर्थ्याभावात् ।
नहि निर्वापामीतिवन्निर्वपेदिति पदमुच्चरितमनुष्ठानौपयिकमनुष्ठेयप्रकाशनं
करोति, किन्तु सम्बन्धमात्रतया प्रयोगबहिर्भूतं सत्, अनेन वाक्येनेदं विहितमत
एतत्करोमीत्येवमालोचनेन स्मारकं भवति, मन्त्रस्तु प्रयुज्यमान एवाभिधानत
एवस्मारक इति सन्निकृष्टः । विप्रकृष्टाच्च संनिकृष्टं बलवदित्येवं प्राप्ताऽह---
न समत्वात् १ । ५ । ८ ॥
मन्त्रपाठ एव बलवानिति यदुक्तं तन्न, कुतः, समत्वान्मन्त्रपाठचोदना-
पाठयोः कथमुभयोः समता ?
४. अध्याय १७-२४: अश्वमेध, पुरुषमेध, सर्वमेध, शुल्ब-परिभाषा एवं उपसंहार
९० कात्यायनश्रौतसूत्रम् ।
उच्यते, मन्त्रः कर्मणि करिष्यमाणस्य कर्मणः स्मरणार्थं प्रयुज्यते ।
चोदना तु कर्मणो विधायिका अत एव चोदनायाः प्रवृत्तिः पूर्वम् । यतः पदार्थे
विहिते सति पश्चात्स्मरणार्थो मन्त्रः प्रयुज्यते ॥८॥
अतः सममेवैतदिति प्राप्त आह—
गुणानां तु भूयस्त्वात् ॥ १ । ५ । ९ ॥
तुशब्दः पूर्वपक्षनिरासार्थः । नैतदुभयं समम् । किन्तु मन्त्रपाठ एव
बलीयान् । कुतः, मन्त्रेषु गुणानां भूयस्त्वात्, गुणानां बाहुल्यात्, यतः
चोदनापाठापेक्षया मन्त्रेषु बह्वो गुणा विद्यन्ते । तद्यथा, कर्मकाले उच्चारणे
पदार्थस्मारके यतो मन्त्राऽर्थवादादि कृतव्यवधानरहिताः क्रमेण पठ्यन्ते, तेनो-
त्तरमुत्तरं पदार्थं झटिति स्मारयितुं शक्नुवन्ति, नैवं चोदनपाठः, विधेयार्थस्तावक-
वाक्य
त्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्तव्यानि। पूर्वः पूर्वः पदार्थः सर्वेषां समानः
सदृशः कर्तव्यः । तद्यथा बहुषु हविःषु प्रथमं सर्वेषां विभस्मीकरणम्,ततः सर्वेषां
पात्रीस्थापनम् ततः सर्वेषां तत्र व्यभिघारः,ततः सर्वेषां पात्रीषूपस्तारः, ततः सर्वे-
षामुद्वासनम्, ततः ततः सर्वेषां कपालाञ्जनम् , ततः सर्वेषां कपालोद्वासनम् ,
सर्वेषां वेद्यामासादनम्, ततः सर्वेषामालम्भः, इत्येवं पदार्थांनु-
समयः कर्तव्यः । यद्येकैकस्मिन्गुणकाण्डमप्रवृज्येत, तथा सति क्रमेण प्रयोगात्
प्रयोगवाक्यावगतस्य साहित्यस्य साहित्यबाधः स्यात् । नहि वचनेनाविशेषतः
साहित्यमवगम्यमानं काल्पिकेन प्रधानासत्तिमात्रेणारादुपकारविषयमात्रं कल्पयितुं
शक्यते,तस्मात्पदार्थानुसमयः। कुतः? आनुपूर्व्ययोगाच्च,पदार्थानां तन्मन्त्राणां च,एवं
क्रियमाणे पदार्था आनुपूर्व्येण अनुक्रमेण युज्यन्ते, तन्मन्त्राश्च, अन्यथोत्तरपदार्थ-
करणानन्तरं पूर्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात्।"पौर्णमास्यां पौर्णमास्या-
यजेत" इत्यनेन वाक्येन पौर्णमासीशब्दबोध्यानां तत्सम्बन्धानां त्रयाणां यागानां
साङ्गानामेककालप्रयोगोऽवगम्यते, अतो यस्मिन्नेव क्षणे एकस्याधिश्रयणं क-
र्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यं सहशक्यतया केवलं न क्रियते
द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पुरोडाशान्तरं नाधिश्रियेत । अतः प्रथमं पदार्थं
सर्वेषां कृत्वा ततो द्वितीयादिः पदार्थः सर्वेषां कर्तव्यः । एवं बहुषु प्रधानेषु
सर्वत्र पदार्थानुसमय एवन्यायो न काण्डानुसमय इति स्थितम्, यत्र तु प्रधान-
विरोधो भवति पदार्थानुसमये क्रियमाणे तत्र काण्डानुसमय एवेति । वाचनि-
केन साहित्येन पदार्थानुसमयः प्राप्तोऽपि प्रधानविरोधात्त्यक्तव्यः । पुरोडाशाङ्गं
ह्यधिश्रयणादयः, तदङ्गं च क्रमः पदार्थानुसमयरूपः, तदाश्रयणे च सुतप्तकपा-
लसंयोगात्पुरोडाशशोषप्रसङ्गः, न चाङ्गानुरोधेन प्रधानबाधो युक्तः, तेनाति
बहुषु हविःष्वेकैकस्य पुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तं काण्डानु-
समयः कार्यः । यत्र तु नास्ति प्रधानबाधः द्वित्रिचतुरादिहविःषु, तत्र भवतु प-
दार्थानुसमयः। दाहसम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्यम् । यदुक्तं
पूर्वस्य पदार्थे कृते तस्मिन्नेव द्वितीयस्य क्रियमाणे पूर्वस्य व्यवधानमिति तत्स-
हत्वविधिबलात् परिह्रियते । एवं च सति वाजपेये आग्नेयैन्द्राग्नसारस्वतीवशा-
पृश्निसप्तसप्तदशप्राजापत्येषु द्वात्रिंशत्संख्येषु पशुष्वेकविंशत्या पदार्थैः समाना-
समानजातीयैर्व्यवधानमिष्यते, न न्यूनाधिकैः, अन्ये त्वसमानजातीयैरेव ॥१०॥
अनेनैव मुख्यक्रममदृष्टिक्रमावुक्तौ भवतः । तथा हि यत्र बहूनि प्रधा-
नानि भवन्ति, तत्र यो मुख्यानां प्रधानानां क्रमस्तेनैव क्रमेण तदङ्गानां क्रमो
भवति, यथा पौर्णमासेष्ट्यां प्रथमाग्नेयः यागः, ततोऽग्नीषोमीययागः। अत आ-
ग्नेयस्य प्रथमं ग्रहणं ततोऽग्नीषोमीयस्य एवं प्रोक्षणादावपि, अयं मुख्यक्रमः,
अनेन क्रमेण यद्यङ्गान्यनुष्ठीयन्ते, तदाङ्गानां नियता प्रधानप्रत्यासत्तिरनुगृहीता
भवति, एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति। इतरथा तु पश्चाद्भा-
विनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्यात् ॥
अथ प्रवृत्तिक्रम उच्यते । यत्र बहूनि हवींषि भवन्ति समानदेवतानि । यथा
वाजपेये पशवः। तत्र चोपाकरणप्रोक्षणादयः सन्निपातिनः प्रतिपश्वावर्तनीयाः, तेषां
चावृत्तित्वेनैकस्य पशोः कात्स्न्येन कृत्वापरस्यापि तथैव क्रियन्त इत्येवम्। किं तर्हि
सर्वेषामुपाकरणम् । यतः कुतश्चित्पशोरारभ्य कृत्वा ततः सर्वेषां नियोजनमित्यु-
क्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एव। यतः कुतश्चित्पशोरारभ्य कर्तव्यः,
द्वितीयश्च पदार्थो नियोजनरूपः। किं प्रथमो यत आरब्धः तत्रैवारम्भणीयः, उत
तत्राप्यनियमः एवेति । तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावादनियमे
प्राप्ते, उच्यते, प्रवृत्त्यैव नियमः, प्रथमः पदार्थो येन क्रमेण कृतः स एव क्रम
उत्तरेष्वपि नियोजनादिषु नियम्यते । कुतः? पदार्थैः सह प्रधानं कर्तव्यमिति
वचनात् । सर्वे पदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः। कथं पदार्थैः सह प्रधानस्य
वचनं यावता दर्शपूर्णमासाभ्यां यजेत प्रजापत्यैश्चरन्तीत्यादिषु प्रधानमात्रं श्रूयते।
उच्यते, समीहितं भावयेद्यागेनेत्यमिति हि यजेतेत्यस्यार्थः । तत्र यस्यामेव-
वेलायां स्वर्गो भवने कर्तृत्वं प्रतिपद्यते तस्मिन्क्षणे करणेतिकर्तव्यतेऽपि व्या-
प्रियेते । अयमर्थः, नात्र प्रधानं कर्तव्यं श्रूयते, किन्तु प्रधानेन स्वर्गः कार्य इति
करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति, तेन स्वकार्यं सेति-
कर्तव्यताकेन कर्तुं शक्यते नान्यथा, तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य
युगपद्यजेतेत्यनेन कर्तव्यतोच्यते, ततोऽन्यथाकरणेतिकर्तव्यतात्वमेव न स्यात् ।
न हि पश्चाद्भाविकरणं भवति, तथा भविष्यति, भाव्ये भूते च करणे असावेव-
दोषः। न हि विनष्टं करणं भवतीति। तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे
अयमेव दोषः न हि विनष्टमनागतं वानुग्राहकं भवति तेन शब्दवस्तुभ्यामेक-
कालस्तेषां त्रयाणाम् । ततः प्रधाने सेतिकर्तव्यताके एकस्मिन्क्षणे सह कर्तव्ये
प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतां वा असमर्थः कर्तुं यौग-
पद्येनेत्यवश्यम्भावी कियानपि विप्रकर्षः, ईदृशेनापि विप्रकर्षेण सहैव पदार्थाः
देवयाज्ञिकभाष्यसमेतम् । ९३
कृता भवन्ति। प्रयोगवचनो हि यावतः पदार्थांननुष्ठापयति,तावद्भिरवर्जनीयतया-
यावान्कालो व्याप्यते तावानेकः कालः, तावति च काले सर्वेषां कालो विधीयते
न त्वेकस्मिन्क्षणे अशक्यार्थविधिप्रसङ्गात्, तेन प्रत्यासत्तिरेतेषां साहित्यं
नैकक्षणवर्तित्वम्, यद्येवम्, प्रयोगवचनेनैव क्रमस्य सिद्धत्वात् श्रुत्यादिभिः किं
क्रियते। अनियतक्रमानुष्ठानं प्राप्नोति, इति क्रमनियमे तेषां व्यापारः। यस्मा-
त्प्रयोगविधिर्नैकक्षणवर्तित्वं विधत्ते प्रत्यासत्तिमात्रम्, तस्मात्प्रधानं चिकीर्षितम-
नागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम् , करिष्यमाणेन कृतेन वा प्रधानेन
प्रत्यासत्तिमात्रमङ्गानां तत्साहित्यम् नैकक्षणवर्तित्वम् । तत्राग्न्यन्वाधानादीनां क-
रिष्यमाणं प्रधानं निमित्तम्, स्विष्टकृदादीनां तु कृतम्, तेनैवमवश्यम्भाविनि वि-
प्रकर्षे केचित्पदार्थाः क्षणव्यवहिताः प्रधानेनापेक्ष्यन्ते, केचिद्द्वाभ्यां क्षणाभ्यां
व्यवहिताः केचिद्बहुभिरिति । एवं वाजपेयपशुष्वपि अग्न्यन्वाधानादिप्रागु-
पाकरणात्साधारण्यं सर्वपशूनां सहानुभूतम्, उपाकरणादयोऽपि सन्निपत्योप-
कारकास्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभिरनुभवितव्याः ।
यद्येकस्योपाकरणम् तदैवेतरेषामपि । कुतः, सहचोदित्वात्पशूनां साङ्गानाम्, तत्रैवं
सहानुभवितव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्राकृतेन पाठेन
यद्यपि द्वितीयः पदार्थो नियोजनरूपः स्थाप्यते,तथापि सहवचनादेव एकविंशति-
क्षणव्यवहितं द्वितीयं पदार्थमाकाङ्क्षति, द्वितीयस्तु पशुर्विंशत्योपाकरणक्षणैर्व्य-
वहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन च व्यवहितं स्वीयं द्वितीयं पदार्थमाका-
ङ्क्षति, एवं तृतीयादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीयान्पदार्था-
नपेक्षन्ते, अन्त्यस्तु विजातीयैः पूर्वोपाकृतानामेकविंशतेः पशूनां नियोजनक्षणै-
र्व्यवहितमेव द्वितीयं पदार्थमपेक्षते, तदेवं सन्निपत्योपकारकानालोच्य ईदृशी
एकविंशतिक्षणव्यवधानापेक्षा प्रधानानां भवति, ततश्च यावद्भिर्नाव्यवहितः
शक्यः पदार्थः कर्तुं, तावद्भिर्व्यवधानमागत्यावश्यं कर्तव्यम्। अतोऽभ्यधिकैस्तु न
व्यवधातव्यम् । यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैव क्रियेत, ततः
सहवचनं नोपपद्येत, एवं सर्वत्र तृतीयादिष्वपि पदार्थेषु योज्यम्। प्रथमपदार्थ-
क्रम एव द्वितीयादिष्वपि समाश्रयितव्यः इतरथा केषां वचनं बहूनाप्यधिकैरपि-
क्षणैर्व्यवहितानि स्युः।न च तद्युक्तम्। नन्वेवं केषांचिदल्पैर्व्यवधानं गुणो भवि-
ष्यतीतिवाच्यम्, यथाधिकैर्व्यवधानेऽश्रुतकरणम्। एवं न्यूनैरपि व्यवधानेऽश्रुतक-
रणमेव। तस्माद्द्वाविंशतेः पशूनां साहित्यसम्पत्तये प्रयोगविधिनायं क्रमः पदा-
र्थानां मिथ एकविंशतिक्षणव्यवधानात्मकॊऽपेक्षितः । स न्यूनैरधिकैश्च व्यवधाने
९४ कात्यायनश्रौतसूत्रम् ।
बाध्येत । अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथमपदार्थक्रम एव द्वितीयादिष्वा-
श्रवणीय इति सिद्धम् । अत्राङ्गानां मिथः प्रत्यासत्तिर्नियामककारणम्। मुख्यक्रमे तु
अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः ॥
मुख्यक्रमप्रवृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान् । तद्यथा दर्शपूर्ण-
मासयोः सान्नाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्रवर्तन्ते पश्चादाग्नेयधर्माः, प्रदानं
त्वाग्नेयस्य प्रथमम्, पश्चात्सान्नाय्यस्य, ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं
प्रागवदानं वेद्यामासादनादिकं च किं प्रवृत्तिक्रमात्सान्नाय्यस्य पूर्वं भवति, उत
मुख्यक्रमादाग्नेयस्येति सन्देहादनियमे प्राप्ते, मुख्यक्रमो बलीया नित्युच्यते।
अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधानाद्विप्रकृष्यन्ते, अन्ये सर्वे
सन्निकृष्टा भवन्ति। प्रवृत्तिक्रमे तु बहूनां विप्रकर्षः। पूर्वं तु मुख्यप्रवृत्तिभ्यां बली-
यसा पाठक्रमेण मुख्यक्रमो बाध्यते, प्रागदानादिषु पाठक्रमाभावात्प्रवृत्तिक्रमो
मुख्यक्रमेण बाध्यते ॥
अथ स्थानप्रमाणमुच्यते, साद्यस्के सह पशूनालभत इति [२२, ३, २८,]
श्रूयते। साहित्यं च सवनीयस्य स्थाने, तत्र किमुपाकरणादौ अनियमः, अथवाग्नी-
षोमीयस्य प्रथममुपाकरणम् अथवा सवनीयस्येति । तत्र नियमकारणाभावाद-
नियमे प्राप्ते, प्रकृतिवद्वाग्नीषोमीयस्य प्राथम्ये प्राप्त उच्यते। सवनीयस्यैव प्रथममु-
पाकरणम्, अग्नीषोमप्रणयनानन्तरं ह्यग्नीषोमीयस्य स्थापनम्, स तेनोपस्थितोऽपि
सहालम्भवचनेन तस्मात्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु न तस्य किञ्चिदुपस्था-
पकमस्ति, सवनीयस्तु स्वस्थानादप्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तद-
नन्तरमुपाक्रियते, ततः साहित्यवचनादितरोपाकरणम्, अतः सवनीयस्यैव प्राथ-
म्यम्, इतरयोस्तु कथं क्रमः। अनियम एव तयोरुपस्थाने विशेषाभावात् । अथवा
प्रकृतिदृष्टं पौर्वापर्यमस्ति। बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृत्यान्वन्ध्योपा-
करणमिति॥
तदेवं श्रुत्यर्थपठनस्थानमुख्यप्रवृत्तिसंज्ञानि षट् प्रमाणानि क्रमनियम-
कारीण्युक्तानि । तेषां परस्परविरोधे च पूर्वं पूर्वं बलवदुत्तरमुत्तरं च दुर्बलमिति।
तदुक्तम् श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिः एकारख्यातगृहीतानां नियतः
कर्मणां क्रमः, विरोधे परदौर्बल्यमेतेषामपि पूर्ववदिति ॥
अथेदं विचार्यते, दर्शपूर्णमासयोराग्नेयाग्नीषोमीयनिर्वापयोः पदार्थानु-
समये स्थिते किमेकैकमुष्टिनुसमयः, उत चतुर्भिर्मुष्टिभिरिति। तत्र यद्येकैको
देवयाज्ञिकभाष्यसमेतम् । ९५
मुष्टिः पृथक्पृथक्पदार्थस्तत एकैकेनानुसमयः। अथ चतुर्मुष्टिनिर्वाप एकः पदार्थस्त-
तश्चतुर्भिर्मुष्टिभिरिति। एवं कपालोपधाने किमेकैकेन कपालेनानुसमयः, उताष्टाभि-
रेकादशभिश्चेति, तथा द्विरवद्यति [१,९,२,] द्विर्दक्षिणमनक्ति त्रिरुत्तरम्
[७,२,३४,] इति वपने च दक्षिणोत्तरगोदाने [७,२,९,] पावने च त्रिः पावय-
तीति किं प्राप्तम्, एकैकमुष्टिनेति । कुतः, एकमुष्टिनिर्वापो ह्येकः पदार्थः। न
चतुर्मुष्टिनिर्वापः । कथम्, एकस्मिन्मुष्टौ निरुप्ते प्रयत्नः पर्यवसितो भवतीति न
शक्यं वदितुं किंचिन्न निरुप्तमिति । न च निरुप्ते निर्वापो न कृतः स्यात् । न च
मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्। न ह्येकस्मिन्निरुप्ते चत्वारः सम्भवन्ति । मुष्टि-
समानाधिकरणो हि चतुःशब्दः तस्मान्मुष्टिनानुसमयः कार्यः । एवं कपालान्यु-
पदधातीति। तत्राप्येकैककपालेनानुसमयः कार्यः, एकैकेनावदानेन सांनाय्यसव-
नीयादौ अक्ष्यञ्जने एकैकवाराञ्जनेन च वपने अनेकयजमानके एकैकगोदान-
संस्कारणेन पावने वानेकयजमानक एव एकैकवारपावनेनेति । तदुक्तं जैमि-
निना मुष्टिकपालावदानाभ्यञ्जनवपनपावनेषु चैकैकनेति ( ७, २, १, ) ।
एवं प्राप्त आह—
( चतुर्मुष्टिनिर्वापस्यैकपदार्थत्वं न मुष्टेः )
नैककर्मणि सम्बन्धात् ॥ १ । ५ । ११ ॥
एककर्मणि एकस्मिन्निर्वापकपालोपधानादिरूपे कर्मणि पदार्थे तदवयवेन
एकैकमुष्टिना एकैककपालोपधानरूपेणानुसमयो न भवति, किन्तु चतुर्मुष्टिभिः
अष्टाभिरेकादशभिश्च कपालैः, न ह्येकैको मुष्टिः पृथक् पदार्थः। किं तर्हि चतुर्मुष्टिनि-
र्वाप एकः पदार्थः । कुतः ? सम्बन्धात् । चतुःशब्दस्य मुष्टीनां च निर्वापसम्ब-
न्धात् । एवं च सह कर्मणानेकगुणविधानं न्याय्यम् । इतरथा चतुःसंख्याया
मुष्टिसम्बन्धे मुष्टीनां च निर्वापसम्बन्धे सति वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत।
अनिर्वापाङ्गं च सङ्ख्या स्यात् । वैरूप्यं चैवम्, चतुरो मुष्टीन्निर्वपतीत्यत्र निर्वापं
प्रतिमुष्टीनामुपादेयत्वं विधेयत्वमङ्गत्वं चेति त्रिकं सङ्ख्या प्रति च तेषामुद्देश्यत्वमनु-
वाद्यत्वं चेति एतत्परस्परविरुद्धं त्रिकद्वयं मुष्टीनामापद्यते, तस्मात् सङ्ख्याया
मुष्टीनां चोभयोर्निर्वपतिनैव सम्बन्धः, ये चत्वारस्ते मुष्टयः, ये मुष्टयः ते च-
त्वार इति परस्परव्यवच्छेद्यव्यवच्छेदकभावोऽरुणैकहायनीन्यायेन द्रव्यस्य गुणा-
वच्छेदकत्वेन गुणस्य च द्रव्यावच्छेदकत्वेनार्थाद्भवति न तु वाक्यात् । तेन वा-
क्यभेदो न भवति। तस्माच्चतुर्मुष्टिनिर्वाप एकः पदार्थः, अङ्गपर्यायो हि पदार्थ-
९६ कात्यायनश्रौतसूत्रम् ।
शब्दः। तेनोभयोः प्रधानयोः सहानुष्ठानं तयोर्यदङ्गं तदेकस्य कृत्वापरस्य कर्तव्यम्।
चतुरो मुष्टीन्निर्वपतीति शास्त्रान्नचतुर्मुष्टिनिर्वापोऽङ्गम्। स च पदार्थः। तदवयवैश्चैको
मुष्टिः, न पदार्थः । न चावयवेनानुसमयः, किन्तु पदार्थेन । एवं कपालोपधा-
नादिष्वपि। अष्टाकपालमेकादशकपालं निर्वपतीति निर्देशात्तावतामुपधानमेकैकः
पदार्थः। द्विरवद्यति त्रिरभ्यनक्ति दक्षिणोत्तरगोदानवपने त्रिःपावयतीति च। एवं च
संख्यादीनां क्रियाङ्गत्वं च भवति । तस्मात्समुदायेनानुसमय इति सिद्धम् ॥११॥
एवं सर्वत्र पदार्थानुसमये प्राप्ते क्वचित्तदपवादं काण्डानुसमयमाह—
( ग्रहणावदानयोः क्रमेण सादनप्रदानान्तत्वम् )
ग्रहणसादनावदानप्रदानेषु तु वचनात् ॥ १ । ५ । १२ ॥
सोमे ग्रहाणां ग्रहणे एक
देवयाज्ञिकभाष्यसमेतम् । ९७
च सति नियतस्य नियतकालस्याग्निहोत्रपितृयज्ञादेः काले आगते सति किं तन्म-
ध्यऽएव तत्कर्म कर्तव्यमिति । यद्यपि चात्र भिन्नप्रयोगयोः प्रारब्धकर्माग्निहोत्र-
योर्न मिथः क्रमोऽङ्गम्, तथापि सायंकाले द्वयोः सन्निपतितयोरवश्यम्भाविनि क्रमे
प्रारब्धं समाप्याग्निहोत्रे हूयमाने तस्य स्वकालातिपत्तिप्रसङ्गे सति किं युक्तमिति-
चिन्त्यते । तत्रेष्टिपश्वादिकं च स्वकालादप्रतिपन्नमेव तस्योभयथापि न कश्चिद्-
विशेषः । अग्निहोत्रस्य तु तस्मिन्काले क्रियमाणस्योद्धरणस्य लोपः स्यात्, उत्कर्षे
तु काललोपः, तत्र कस्यानुग्रहः कस्य लोप इति चिन्त्यते। तत्रोद्धरणानुग्रहे साङ्ग-
प्रयोगावधारणोत्तरं कालप्राप्तेः, कालस्य जघन्यत्वेन बाधः प्राप्नोतीति किं पूर्वस्य
व्यवधानं च स्यान्मध्ये क्रियमाणे, तस्मात्कालबाध इति प्राप्त आह—
( प्रक्रान्तेऽसमाप्तेऽपि नित्यस्य स्वकालेऽनुष्ठानम् )
प्रवृत्ते नियतं दोषविशेषात् ॥ १ । ५ । १४ ॥
प्रवृत्ते प्रारब्धे इष्टिपश्वादिके कर्मणि नियतस्य कालऽआगते नियतं नि-
यतकालीनमग्निहोत्रपितृयज्ञादिकं तन्मध्य एव कर्तव्यम् , कालस्यानुपादेयत्वेन
निमित्तत्वात्तस्मिन्प्राप्तमग्निहोत्रमुद्धरणमनादृत्यापि कर्तव्यम् । कुतः ? दोषविशेषात्।
यतो नित्यस्याकरणे दोषो भवति। ननु पूर्वस्य कर्मणो व्यवधानेऽपि दोषोऽस्त्ये-
व, सत्यम् , अक्रियमाणे तु विशेषेण यतो नित्यकर्मणः प्रधानरूपस्याक्रियेति,
क्रियमाणे पुनरङ्गभूतानां पदार्थानां व्यवधानमात्रम्, न तु कस्यचन लोपः,
अत एवोक्तं दोषविशेषादिति, अपि चासम्बन्धने व्यवधानेऽपि दोषः, तस्मा-
न्नियतकालीनं कर्म मध्येऽपि कर्तव्यम् ॥
अथेदं विचार्यते—ज्योतिष्टोमे षोडशिनं प्रकृत्याम्नायते “तं पराश्वमु-
क्थ्येभ्यो विगृह्णाति” इति तथेदमपरं श्रूयते “तं वै पुरास्तमयादुपाकरोत्यस्तमिते
ऽनुश सतीति” (४, ७, ३, ११,) शाखान्तरे च समयाध्युषिते षोडशिनः
स्तोत्रमुपाकरोतीति, एवं सति यदि दैवादुक्थ्यानामुत्कर्षः स्यात्,तदा किं षोड-
शिनोत्कृष्यते उक्थ्येभ्यः पूर्वमपि प्रागस्तमयात्षोडशिन उपाकरणं कर्तव्यम्,
अथवोक्थ्योत्कर्षे सति षोडश्यप्युत्कृष्यते, उक्थ्यविग्रहेभ्यः पर एव भवतीति ।
तत्र पूर्वाधिकरणोक्तन्यायेन नियतकालत्वादनुत्कर्षो युज्यते, तथा सति स्तोत्रस्य
कालोऽनुगृहीतो भवति, यदि हि षोडशिग्रहयागाभ्यासं उत्कृष्येत ततः प्रधान-
कालत्वादङ्गानां ग्रहं गृहीत्वा चमसं चोन्नीय स्तोत्रमुपाकुर्यादिति वचनात्तदङ्गभूतं