कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 101, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ९५
मुष्टिः पृथक्पृथक्पदार्थस्तत एकैकेनानुसमयः। अथ चतुर्मुष्टिनिर्वाप एकः पदार्थस्त-
तश्चतुर्भिर्मुष्टिभिरिति। एवं कपालोपधाने किमेकैकेन कपालेनानुसमयः, उताष्टाभि-
रेकादशभिश्चेति, तथा द्विरवद्यति [१,९,२,] द्विर्दक्षिणमनक्ति त्रिरुत्तरम्
[७,२,३४,] इति वपने च दक्षिणोत्तरगोदाने [७,२,९,] पावने च त्रिः पावय-
तीति किं प्राप्तम्, एकैकमुष्टिनेति । कुतः, एकमुष्टिनिर्वापो ह्येकः पदार्थः। न
चतुर्मुष्टिनिर्वापः । कथम्, एकस्मिन्मुष्टौ निरुप्ते प्रयत्नः पर्यवसितो भवतीति न
शक्यं वदितुं किंचिन्न निरुप्तमिति । न च निरुप्ते निर्वापो न कृतः स्यात् । न च
मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्। न ह्येकस्मिन्निरुप्ते चत्वारः सम्भवन्ति । मुष्टि-
समानाधिकरणो हि चतुःशब्दः तस्मान्मुष्टिनानुसमयः कार्यः । एवं कपालान्यु-
पदधातीति। तत्राप्येकैककपालेनानुसमयः कार्यः, एकैकेनावदानेन सांनाय्यसव-
नीयादौ अक्ष्यञ्जने एकैकवाराञ्जनेन च वपने अनेकयजमानके एकैकगोदान-
संस्कारणेन पावने वानेकयजमानक एव एकैकवारपावनेनेति । तदुक्तं जैमि-
निना मुष्टिकपालावदानाभ्यञ्जनवपनपावनेषु चैकैकनेति ( ७, २, १, ) ।
एवं प्राप्त आह—
( चतुर्मुष्टिनिर्वापस्यैकपदार्थत्वं न मुष्टेः )
नैककर्मणि सम्बन्धात् ॥ १ । ५ । ११ ॥
एककर्मणि एकस्मिन्निर्वापकपालोपधानादिरूपे कर्मणि पदार्थे तदवयवेन
एकैकमुष्टिना एकैककपालोपधानरूपेणानुसमयो न भवति, किन्तु चतुर्मुष्टिभिः
अष्टाभिरेकादशभिश्च कपालैः, न ह्येकैको मुष्टिः पृथक् पदार्थः। किं तर्हि चतुर्मुष्टिनि-
र्वाप एकः पदार्थः । कुतः ? सम्बन्धात् । चतुःशब्दस्य मुष्टीनां च निर्वापसम्ब-
न्धात् । एवं च सह कर्मणानेकगुणविधानं न्याय्यम् । इतरथा चतुःसंख्याया
मुष्टिसम्बन्धे मुष्टीनां च निर्वापसम्बन्धे सति वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत।
अनिर्वापाङ्गं च सङ्ख्या स्यात् । वैरूप्यं चैवम्, चतुरो मुष्टीन्निर्वपतीत्यत्र निर्वापं
प्रतिमुष्टीनामुपादेयत्वं विधेयत्वमङ्गत्वं चेति त्रिकं सङ्ख्या प्रति च तेषामुद्देश्यत्वमनु-
वाद्यत्वं चेति एतत्परस्परविरुद्धं त्रिकद्वयं मुष्टीनामापद्यते, तस्मात् सङ्ख्याया
मुष्टीनां चोभयोर्निर्वपतिनैव सम्बन्धः, ये चत्वारस्ते मुष्टयः, ये मुष्टयः ते च-
त्वार इति परस्परव्यवच्छेद्यव्यवच्छेदकभावोऽरुणैकहायनीन्यायेन द्रव्यस्य गुणा-
वच्छेदकत्वेन गुणस्य च द्रव्यावच्छेदकत्वेनार्थाद्भवति न तु वाक्यात् । तेन वा-
क्यभेदो न भवति। तस्माच्चतुर्मुष्टिनिर्वाप एकः पदार्थः, अङ्गपर्यायो हि पदार्थ-