सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 100, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 100

९४ कात्यायनश्रौतसूत्रम् ।
बाध्येत । अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथमपदार्थक्रम एव द्वितीयादिष्वा-
श्रवणीय इति सिद्धम् । अत्राङ्गानां मिथः प्रत्यासत्तिर्नियामककारणम्। मुख्यक्रमे तु
अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः ॥
मुख्यक्रमप्रवृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान् । तद्यथा दर्शपूर्ण-
मासयोः सान्नाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्रवर्तन्ते पश्चादाग्नेयधर्माः, प्रदानं
त्वाग्नेयस्य प्रथमम्, पश्चात्सान्नाय्यस्य, ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं
प्रागवदानं वेद्यामासादनादिकं च किं प्रवृत्तिक्रमात्सान्नाय्यस्य पूर्वं भवति, उत
मुख्यक्रमादाग्नेयस्येति सन्देहादनियमे प्राप्ते, मुख्यक्रमो बलीया नित्युच्यते।
अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधानाद्विप्रकृष्यन्ते, अन्ये सर्वे
सन्निकृष्टा भवन्ति। प्रवृत्तिक्रमे तु बहूनां विप्रकर्षः। पूर्वं तु मुख्यप्रवृत्तिभ्यां बली-
यसा पाठक्रमेण मुख्यक्रमो बाध्यते, प्रागदानादिषु पाठक्रमाभावात्प्रवृत्तिक्रमो
मुख्यक्रमेण बाध्यते ॥
अथ स्थानप्रमाणमुच्यते, साद्यस्के सह पशूनालभत इति [२२, ३, २८,]
श्रूयते। साहित्यं च सवनीयस्य स्थाने, तत्र किमुपाकरणादौ अनियमः, अथवाग्नी-
षोमीयस्य प्रथममुपाकरणम् अथवा सवनीयस्येति । तत्र नियमकारणाभावाद-
नियमे प्राप्ते, प्रकृतिवद्वाग्नीषोमीयस्य प्राथम्ये प्राप्त उच्यते। सवनीयस्यैव प्रथममु-
पाकरणम्, अग्नीषोमप्रणयनानन्तरं ह्यग्नीषोमीयस्य स्थापनम्, स तेनोपस्थितोऽपि
सहालम्भवचनेन तस्मात्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु न तस्य किञ्चिदुपस्था-
पकमस्ति, सवनीयस्तु स्वस्थानादप्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तद-
नन्तरमुपाक्रियते, ततः साहित्यवचनादितरोपाकरणम्, अतः सवनीयस्यैव प्राथ-
म्यम्, इतरयोस्तु कथं क्रमः। अनियम एव तयोरुपस्थाने विशेषाभावात् । अथवा
प्रकृतिदृष्टं पौर्वापर्यमस्ति। बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृत्यान्वन्ध्योपा-
करणमिति॥
तदेवं श्रुत्यर्थपठनस्थानमुख्यप्रवृत्तिसंज्ञानि षट् प्रमाणानि क्रमनियम-
कारीण्युक्तानि । तेषां परस्परविरोधे च पूर्वं पूर्वं बलवदुत्तरमुत्तरं च दुर्बलमिति।
तदुक्तम् श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिः एकारख्यातगृहीतानां नियतः
कर्मणां क्रमः, विरोधे परदौर्बल्यमेतेषामपि पूर्ववदिति ॥
अथेदं विचार्यते, दर्शपूर्णमासयोराग्नेयाग्नीषोमीयनिर्वापयोः पदार्थानु-
समये स्थिते किमेकैकमुष्टिनुसमयः, उत चतुर्भिर्मुष्टिभिरिति। तत्र यद्येकैको