करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 98, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् । ६ ( ९९ )
त्तरत्रिशत्या ३१० प्राच्यामस्तः शुक्रस्य षट्त्रिंशदधिकशत-
त्रयेण ३३६ प्राच्यामस्तः । ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्रां
गतिं प्राप्य तत्रैव यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य
वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेतामिति विशेषः ।
यदि स्पष्टार्कस्य स्पष्टग्रहयोरन्तरं वक्ष्यमाणकालांशतुल्यं
स्यात्तदोदयोस्तो वा भविष्यतीति ज्ञेयमिदन्तु मध्यमसूर्य-
स्फुटसूर्ययोरन्तरं कालं यदा भवति तदोदयास्तौ स्थूलत्वमे-
वाङ्गीकृतं तथाविधो ग्रहो यावति केन्द्रेण सता स्पष्टो भवति
तावत्केन्द्रमुदयास्तसूचकमुक्तम्, अथवैभिरुक्तशीघ्रकेन्द्रभागैः
शीघ्रफलं यावन्तोंऽशा उत्पद्यन्ते तदंशस्वकालांशयोर्योगः।
एतावदंशाः स्फुटास्ते सूर्यात्पूर्वतः परतश्च तावन्त एव, यथा
सूर्यः ११।७।५६।१४ मन्दफलसंस्कृतो गुरुः १०।२३।
५६।१४ शीघ्रकेन्द्रम् ०।४ भुजज्या २९ कोटिज्या ११६
कर्णः ४२।२१ शीघ्रफलम् २।१३।५२ स्पष्टो गुरुः १०।
२६।१०।६ मध्यार्कः ११।७।५६।१४ अन्तरम् ०।११।
४६ रुद्रमितकालांशतुल्या भागा मध्यार्कग्रहयोरन्तरस्थिता
अतोऽत्रोदयसम्भवः स्थूलत्वादल्पान्तरमुपेक्षितम् ॥ ७॥
अथ वक्रादीनां दिनाद्यानयनमाह-
अवक्रवक्रास्तमयोदयोक्तभागाधिकोनाः कलिका
विभक्ताः । द्राक्केन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रा-
स्तमयोदयाः स्युः ॥ ८ ॥