करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 71, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् १४ ( ७१ )'
अथ मौक्षिकवलनाग्रात्तेनैव सूत्रेण बिम्बार्द्धं कार्य तयोर्बिम्बा-
र्द्धयोर्यत्र सङ्गमस्तत्र मुखपुच्छे प्रकल्प्ये। अथ वलनाग्राभ्यां
समतुल्यप्रमाणेन कर्काटकेन वृत्तद्वये कृते वृत्तयोः समासे
मत्स्याकार उत्पद्यते तन्मध्यसूत्रे तन्मुखपुच्छसूत्रमिति, तस्य
मुखात्केन्द्रव्यापिनीं पुच्छपर्यन्तं रेखां कृत्वा ॥ १९ ॥
अथ स्पर्शादिस्थानमुपजात्याह-
केन्द्राद्यथाशं स्वशराग्रकेभ्यो वृत्तैः कृतैर्ग्राहकख-
ण्डेन । स्युः स्पर्शमध्यग्रहमोक्षसंस्था अथाङ्गये-
न्मध्यशराग्रचिन्हात् ॥ २० ॥
केन्द्रादिति—तस्मात्केन्द्रान्मध्यस्थितबिन्दोर्मध्यशरः स्व-
दिगभिमुखो देयः, एवं शरत्रयाग्रं चिन्हयित्वा रविग्रहे ग्राह-
कस्य चन्द्रस्य खण्डेन चन्द्रग्रहणे भूछायाः खण्डेन माना-
र्द्धेन तत्केन्द्रादिति—कर्काटकेन स्पर्शशरचिन्हाद्वृत्तं कुर्यात् ।
तदभ्यन्तरे ग्राह्यवृत्ते यत्र स्पृशति तत्र स्पर्शो ज्ञेयः, एवं मौ-
क्षिकशराग्रकृतवृत्तसम्पर्कान्मोक्षस्थानं ज्ञेयम्, मध्यशराग्रकृ-
तवशान्मध्यग्रहणसंस्थानं ज्ञेयम्, तत्र यदा मध्यग्रासो ग्राह्य-
बिम्बमुलङ्घ्य यावद्बहिःपतति तावदाकाशं गृह्यते तत्र सर्वग्रहणं
ज्ञेयम्, यदा तु ग्राह्यबिम्बैकदेशे गृह्णाति तदा तावदेव खण्डग्र-
हणम्, यदा ग्राह्यं न स्पृशति तदा ग्रहणाभावः ॥ २० ॥
अथ सर्वग्रहणोपयोगमिष्टग्रासं चेन्द्रवज्रायणाह-