सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 61, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 61

गणककुमुदकौमुदीटीकासंमेतम् ।४ ( ६१ )
ग्रहे चन्द्रविम्बं छाद्यं भूभा छादिका। सूर्यग्रहणे सूर्यबिम्बं
छाद्यं चन्द्रबिम्बं छादकः ॥ ८ ॥
अथ ग्रासप्रमाणमुपजात्याह-
यच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगितं
तदाहुः । छन्नं पुनश्छाद्यविवर्जितं तत्खच्छन्नमेत-
न्निखिलग्रहे स्यात् ॥ ९ ॥
छाद्यच्छादकबिम्बमानयोर्योगस्यार्द्धं शरेण हीनं
स्थगितं ग्रासप्रमाणं छन्नमित्यर्थः। तच्चेच्छरोनं भवति
तदा ग्रहणाभावः छन्नं छाद्यमानेन हीनं सदंगुलादिखच्छन्नं
स्यात्, एतत्तुल्यमाकाशं विम्बादुपरि छादयति, परमखच्छन्नं
नवांगुलासन्नम्, छन्नं विंशत्यंगुलासन्नम् एतत्सर्वग्रहणे
सम्भवति । यथा छाद्यं चन्द्रबिम्बम् ११ । १२ छादकं
भूभाबिम्बम् २८ । २२ उभयोरैक्यार्द्धम् १९ । ४७
यदा शराभावस्तदा परममानैक्यखण्डमंगुलविंशत्यासन्नम्
१९। ४७ शरेण २। ५७ हीनं स्थगितम् १६। ५० छन्नं
चैतच्छाद्यमानेन ११। १२ विवर्जितं जातं खच्छन्नम् ५।
३८ अथ विंशोपकार्थं क्षेपकश्लोकः-“छन्नं नख २० गुणं
कृत्वा छाद्यमानेन भाजितम्। छन्नम् १६ । ५० विंशति
२० गुणम् ३३६।४० छाद्येन ११। १२ भक्तं लब्धं विंशो-
पका भवन्तीति व्यवहारः ३०। ३ परमविंशोपकाश्चत्वारिंश-
दासन्ना भवन्ति ॥ ९ ॥