करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 60, कुल 155 में से
संदर्भ में पढ़ें( ६० ) करणकुतूहलम् । ४
बिम्बं विधोः स्यात्स्वगतिर्युगाद्रिभक्ता खेर्दस्रहता
शिवाप्ता ॥७॥ त्रिघ्नीन्दुभुक्तिस्तुरगांगभक्ता भूभा-
केभुक्त्यद्रिलवेन हीना । राहुः कुभामण्डलगः
शशांकं शशांक-च्छादयतीर्कविम्बम् ॥ ८॥
चन्द्रस्य स्फुटभुक्तिर्युगाद्रिभिश्चतुःसप्ततिभि ७४ भक्ता
लब्धं चन्द्रबिम्बांगुलानि स्युः, रविस्पष्टगतिर्दस्राभ्यां २
गुणिता शिवैरेकादशभि ११ भक्ता लब्धं रविबिम्बं स्यात् ।
अथ चन्द्रभुक्तिस्त्रिगुणा तुरगाङ्गैः सप्तषष्टिभि ६७ भक्ता सूर्य-
भुक्तेः सप्तांशेन ७ हीना भूभा छायाबिम्बं स्यात् । भूछाया-
तद्विधुकक्षा तावद्वर्तते, यथा चन्द्रगतिः ८२९ । ३५
युगाद्रि ७४ भक्ता लब्धं चन्द्रविम्बम् ११ । १२ अंगुला-
दिः । रविगतिः ६१ । २१ दस्रहता १२२ । ४२ शिव
११ भक्ता लब्धं रविबिम्बम् ११ । ९ चन्द्रगतिः ८२९ ।
३ त्रिगुणा २४८८ । ४५ तुरगांग ६७ भक्ता लब्धम्
३७ । ३२ रविभुक्तेः ६१ । २१ सप्तमांशेन ८ । ४५ हीनं
भूछायाबिम्बम् २८ । २२ । स्वस्वयोजनविम्बानयनम् ।
स्वस्वपातकलाभिः कक्षा गुणिता चक्रकला २१६०० भक्ता
लब्धं योजनात्मकं बिम्बं भवति । एवं कृतं रवेर्बिम्बं योजना-
त्मकम् ६५२२ चन्द्रस्य ४८० एवं सर्वेषां यथास्थानं
प्रदर्शयिष्यामः । अथ छादकमाह राहुर्भूभामण्डलगश्चन्द्रं
चन्द्रमण्डलगः सूर्यविम्बमाच्छादयति । अतश्चन्द्र-