सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 62, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 62

(६२) करणकुतूहलम् । ४
अथ स्थितिविमर्दे भिन्नजातेरुपजात्याह-
द्विघ्नाच्छराच्छन्नयुताहतात्पदं खाप्तेन्दुनिघ्नं विवरेण
तयोः । भक्तं स्थितिःस्याद्घटिकादिरेवं खच्छन्नतो
र्दमपि प्रजायते ॥ १० ॥
पूर्वानीतः शरो द्वाभ्यां गुणनीयश्छन्नेन युतः पुनस्तच्छ-
न्नेन गुणितस्तस्मात्पदं मूलं ग्राह्यं तन्मूलं खाप्तेन्दुभिरशीत्युत्त-
रशतेन गुणितं चन्द्रसूर्यस्फुटभुक्त्यन्तरेण भक्तं लब्धं घटिका-
दिस्थितिर्भवति, छन्नवत्खच्छन्नेनैव विमर्दै भवति, यतो भूभा
सूर्यगत्या पूर्वतो यात्यतो रविगतिर्गृहीता । यथा शरः२।५७
द्विघ्न ५।५४ छन्नेन १६।५२ युत २२। ४४ छन्नेनैव
गुणितः ३८२।४० मूलम् १९।३४ खाप्तेन्दुभिः १८०
गुणितम् ३५२२।० चन्द्रसूर्ययोर्गत्यन्तरेण ७६८।१४ भक्तं
लब्धम् ४।३५ मध्यस्थितिर्घटिकादिका, परमास्थितिःपञ्चघ-
टिकासन्ना, एवं खच्छन्नतो मर्दः, द्विगुणशरः ५।५४ खच्छ-
न्नेन ५।३८ युतः११।३२ खच्छन्नेन गुणितः ६४। ५८
पदम् ८ खाप्तेन्दुगुणम् १४४० भुक्त्यन्तरेण ७६८। १४
भक्तं लब्धं मर्दघटिका १। ५५ परमविमर्दः । घटिका-
द्वयासन्नः ॥ १० ॥
अथ ग्रहणमोक्षयोः स्थितिविमर्दानयनं पञ्चकालसा-
धनमिन्द्रवज्रात्रयेणाह-
[L