करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 58, कुल 155 में से
संदर्भ में पढ़ेंकलादिना ११ । ५३ युतः, एवं गम्यघटीभिश्चन्द्रगतिः ८२
९ । ३५ यातघटी ३१।१ गुणिते षष्ट्या भक्ते कलादिफलेन
युतौ गम्यत्वात्स्वल्पान्तरत्वादिकलाभेदेऽपि न दोषः । अमा-
वास्यायां रविचन्द्रौ राश्यादिसमौ पूर्णिमायां च षड्राश्यन्तरे
लवादिसमौ तात्कालिकचन्द्रः २ । ० । १६ । ८ सूर्यः । ८ ।
० । १६ । १० पातः ४ । १ । ३६ । १५ ॥ छ ॥ ४ ॥
अथ शरसाधनमुपजात्याह-
‘सपाततात्कालिकचन्द्रदोर्ज्या त्रिघ्नी कृताप्ता च शरो-
ऽङ्गुलादिः । सपातशीतद्युतिगोलदिक्स्यान्मेपा-
दिषट्कं खलु सौम्यगोलः ॥ ५ ॥
सपातेति-तात्कालिकपातेन सहितस्य तात्कालिकचन्द्रस्य
भुजज्या कार्या सा त्रिभिर्गुणिता कृतैश्चतुर्भिर्भक्ता लब्धमंगु-
लादिः शरः स्यात् । सपातचन्द्रस्य गोलवशाद्दिग्यस्य तादृशः
सपातचन्द्रे सौम्यगोलस्थे सौम्यशरः याम्यगोलस्थे याम्यशरः
सगोलः कथं दिगित्याह-मेपादीति-मेषादिराशिपट्कं सौम्य-
गोलः, अपरं तुलादिषट्कं याम्यगोलः यथा पातः ४ । १ ।
३६ । १५ चन्द्रः २ । ० । १६ । ८ संयुतः सपातचन्द्रः ६ । १ । ५२ ।
२३ भुजः ० । १ । ५२ । २३ ज्या ३ । ५६ त्रिघ्नी ११ ।
४८ कृताप्ता २ । ५७ शरोऽङ्गुलादिः सपातचन्द्रो दक्षिणगोले
तेन दक्षिणः ॥ ५ ॥
अथायनज्ञानं प्रकारान्तरेण शरानयनं सार्द्धे-