करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 57, कुल 155 में से
संदर्भ में पढ़ेंरविहरोऽयं स्वदशांशेन ८१४ । २१ ऊनो जातश्चंद्रहरः ७२
। २९ । १२ रविमन्दफलम् ० । ३८ । ४ रविहरेणाप्तमं-
शादि ० । ० । २८ चन्द्रमन्दफलम् ४ । १९ । ५२ चन्द्रहरेण
लब्धम् ० । ३ । ३४ प्राकपालत्वात्फलस्यर्णत्वाद्धनम्,
गतेः स्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः ८
। ० । ४ । १७ चन्द्रः १ । २७ । ३५ । १८ आभ्यां
तिथिरेष्या ११ । ३८ ॥
अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाह-
यातैष्यनाडीगुणिता द्युभुक्तिः षष्ट्याहृता तद्रहि-
तो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनौ
पर्वान्त एवं समलिप्तकौ स्तः ॥ ४ ॥
यातैष्येति-गतगम्येष्टघटीभिर्ग्रहस्य दिनभुक्तिर्गुण्या षष्ट्या
भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन
रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ
चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलि-
प्तकौ स्तः । अत्र पर्वान्तघटीकरणे शेषत्यागो भवति, तेन
चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्तिन्दोरंशा
द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्च-
न्द्रसूर्ययोर्गती पृथक् भुक्त्यन्तरेणाप्तेन कलाफलेन युतौ सम-
न्वितौ समलिप्तिकौ स्तः । यथैष्यघटीभिः ११ । ३८ रवि-
गति ६१ । २१ गुणिता ७१३ । ४२ षष्ट्या भक्ता लब्धेन